मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३२

3
ब्रह्मपुराणम् · 132

अध्यायः १३२

ब्रह्मोवाच:

यक्षिणीसङ्गमं नाम तीर्थं सर्वफलप्रदम् । तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात्

॥१॥

यत्र यक्षेश्वरो देवो दर्शनाद् भुक्तिमुक्तिदः । तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत्

॥२॥

विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी । ऋषीणां सत्त्रम् अगमद् गौतमीतीरवर्तिनाम्

॥३॥

दृष्ट्वा तत्र ऋषीन् क्षामान् सा जहासातिगर्विता । या गत्वाश्रावय वौषड् अस्तु श्रौषड् इति स्थिरम्

॥४॥

विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव । ततो नद्य् अभवत् तत्र यक्षिणीति सुविश्रुता

॥५॥

ततो विश्वावसुः पूज्य ऋषीन् देवं त्रिलोचनम् । सङ्गम्य चैव गौतम्या तां विशापाम् अथाकरोत्

॥६॥

ततः प्रभृति तत् तीर्थं यक्षिणीसङ्गमं स्मृतम् । तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात्

॥७॥

विश्वावसोः प्रसन्नोऽभूद् यत्र शम्भुः शिवान्वितः । शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम्

॥८॥

सर्वपापौघहरणं सर्वदुर्गतिनाशनम् । सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने । तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम्

॥९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).