अध्यायः २३५
मुनय ऊचुः:
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् । यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम्
॥१॥श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस् तदा । अब्रवीत् परमप्रीतो योगी योगविदां वरः
॥२॥व्यास उवाच:
योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् । यम् अभ्यस्याप्नुयाद् योगी मोक्षं परमदुर्लभम्
॥३॥श्रुत्वादौ योगशास्त्राणि गुरुम् आराध्य भक्तितः । इतिहासं पुराणं च वेदांश् चैव विचक्षणः
॥४॥आहारं योगदोषांश् च देशकालं च बुद्धिमान् । ज्ञात्वा समभ्यसेद् योगं निर्द्वन्द्वो निष्परिग्रहः
॥५॥भुञ्जन् सक्तुं यवागूं च तक्रमूलफलं पयः । यावकं कणपिण्याकम् आहारं योगसाधनम्
॥६॥न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा । न द्वन्द्वे न च शीते च न चोष्णे नानिलात्मके
॥७॥सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे । सरीसृपे श्मशाने च न नद्यन्तेऽग्निसन्निधौ
॥८॥न चैत्ये न च वल्मीके सभये कूपसन्निधौ । न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित्
॥९॥देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै । प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः
॥१०॥बाधिर्यं जडता लोपः स्मृतेर् मूकत्वम् अन्धता । ज्वरश् च जायते सद्यस् तद्वद् अज्ञानसम्भवः
॥११॥तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा । धर्मार्थकाममोक्षाणां शरीरं साधनं यतः
॥१२॥आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे । शून्यागारे शुचौ रम्ये चैकान्ते देवतालये
॥१३॥रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः । पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः
॥१४॥आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले । नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः
॥१५॥युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः । सर्वद्वन्द्वसहो धीरः समकायाङ्घ्रिमस्तकः
॥१६॥नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः । संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः
॥१७॥समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः । प्रणवं दीर्घम् उद्यम्य संवृतास्यः सुनिश्चलः
॥१८॥रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा । सञ्छाद्य निर्मले शान्ते स्थितः संवृतलोचनः
॥१९॥हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् । युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम्
॥२०॥करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् । क्षेत्रज्ञश् च परे योज्यस् ततो युञ्जति योगवित्
॥२१॥मनो यस्यान्तम् अभ्येति परमात्मनि चञ्चलम् । सन्त्यज्य विषयांस् तस्य योगसिद्धिः प्रकाशिता
॥२२॥यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते । समाधौ योगयुक्तस्य तदाभ्येति परं पदम्
॥२३॥असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु । भवत्य् आनन्दम् आसाद्य तदा निर्वाणम् ऋच्छति
॥२४॥शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् । प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः
॥२५॥निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः । सर्वत्रानित्यबुद्धिस् तु योगी मुच्येत नान्यथा
॥२६॥इन्द्रियाणि न सेवेत वैराग्येण च योगवित् । सदा चाभ्यासयोगेन मुच्यते नात्र संशयः
॥२७॥न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् । मनसश् चेन्द्रियाणां च संयोगो योग उच्यते
॥२८॥एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः । संसारमोक्षहेतुश् च किम् अन्यच् छ्रोतुम् इच्छथ
॥२९॥लोमहर्षण उवाच:
श्रुत्वा ते वचनं तस्य साधु साध्व् इति चाब्रुवन् । व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः
॥३०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).