मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ६८

3
ब्रह्मपुराणम् · 68

अध्यायः ६८

मुनय ऊचुः:

श्रोतुम् इच्छामहे देव विष्णुलोकम् अनामयम् । लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम्

॥१॥

प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो । कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः

॥२॥

दर्शनात् स्पर्शनाद् वापि तीर्थस्नानादिनापि वा । विस्तराद् ब्रूहि तत्त्वेन परं कौतूहलं हि नः

॥३॥

ब्रह्मोवाच:

शृणुध्वं मुनयः सर्वे यत् परं परमं पदम् । भक्तानाम् ईहितं धन्यं पुण्यं संसारनाशनम्

॥४॥

प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम । सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम्

॥५॥

अशोकैः पारिजातैश् च मन्दारैश् चम्पकद्रुमैः । मालतीमल्लिकाकुन्दैर् बकुलैर् नागकेसरैः

॥६॥

पुन्नागैर् अतिमुक्तैश् च प्रियङ्गुतगरार्जुनैः । पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः

॥७॥

नारङ्गैः पनसैर् लोध्रैर् निम्बदाडिमसर्जकैः । द्राक्षालकुचखर्जूरैर् मधुकेन्द्रफलैर् द्रुमैः

॥८॥

कपित्थैर् नारिकेरैश् च तालैः श्रीफलसम्भवैः । कल्पवृक्षैर् असङ्ख्यैश् च वन्यैर् अन्यैः सुशोभनैः

॥९॥

सरलैश् चन्दनैर् नीपैर् देवदारुशुभाञ्जनैः । जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः

॥१०॥

ताम्बूलपत्त्रनिचयैस् तथा पूगीफलद्रुमैः । अन्यैश् च विविधैर् वृक्षैः सर्वर्तुफलशोभितैः

॥११॥

पुष्पैर् नानाविधैश् चैव लतागुच्छसमुद्भवैः । नानाजलाशयैः पुण्यैर् नानापक्षिरुतैर् वरैः

॥१२॥

दीर्घिकाशतसङ्घातैस् तोयपूर्णैर् मनोहरैः । कुमुदैः शतपत्त्रैश् च पुष्पैः कोकनदैर् वरैः

॥१३॥

रक्तनीलोत्पलैः कान्तैः कह्लारैश् च सुगन्धिभिः । अन्यैश् च जलजैः पुष्पैर् नानावर्णैः सुशोभनैः

॥१४॥

हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः । कोयष्टिकैश् च दात्यूहैः कारण्डवरवाकुलैः

॥१५॥

चातकैः प्रियपुत्रैश् च जीवञ्जीवकजातिभिः । अन्यैर् दिव्यैर् जलचरैर् विहारमधुरस्वनैः

॥१६॥

एवं नानाविधैर् दिव्यैर् नानाश्चर्यसमन्वितैः । वृक्षैर् जलाशयैः पुण्यैर् भूषितं सुमनोहरैः

॥१७॥

तत्र दिव्यैर् विमानैश् च नानारत्नविभूषितैः । कामगैः काञ्चनैः शुभ्रैर् दिव्यगन्धर्वनादितैः

॥१८॥

तरुणादित्यसङ्काशैर् अप्सरोभिर् अलङ्कृतैः । हेमशय्यासनयुतैर् नानाभोगसमन्वितैः

॥१९॥

खेचरैः सपताकैश् च मुक्ताहारावलम्बिभिः । नानावर्णैर् असङ्ख्यातैर् जातरूपपरिच्छदैः

॥२०॥

नानाकुसुमगन्धाढ्यैश् चन्दनागुरुभूषितैः । सुखप्रचारबहुलैर् नानावादित्रनिःस्वनैः

॥२१॥

मनोमारुततुल्यैश् च किङ्किणीस्तबकाकुलैः । विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते

॥२२॥

नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः । चन्द्राननाभिः कान्ताभिर् योषिद्भिः सुमनोहरैः

॥२३॥

पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः । श्यामावदातवर्णाभिर् मत्तमातङ्गगामिभिः

॥२४॥

परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः । चामरै रुक्मदण्डैश् च नानारत्नविभूषितैः

॥२५॥

गीतनृत्यैस् तथा वाद्यैर् मोदमानैर् मदालसैः । यक्षविद्याधरैः सिद्धैर् गन्धर्वैर् अप्सरोगणैः

॥२६॥

सुरसङ्घैश् च ऋषिभिः शुशुभे भुवनोत्तमम् । तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः

॥२७॥

वटराजसमीपे तु दक्षिणस्योदधेस् तटे । दृष्टो यैर् भगवान् कृष्णः पुष्कराक्षो जगत्पतिः

॥२८॥

क्रीडन्त्य् अप्सरसैः सार्धं यावद् द्यौश् चन्द्रतारकम् । प्रतप्तहेमसङ्काशा जरामरणवर्जिताः

॥२९॥

सर्वदुःखविहीनाश् च तृष्णाग्लानिविवर्जिताः । चतुर्भुजा महावीर्या वनमालाविभूषिताः

॥३०॥

श्रीवत्सलाञ्छनैर् युक्ताः शङ्खचक्रगदाधराः । केचिन् नीलोत्पलश्यामाः केचित् काञ्चनसन्निभाः

॥३१॥

केचिन् मरकतप्रख्याः केचिद् वैदूर्यसन्निभाः । श्यामवर्णाः कुण्डलिनस् तथान्ये वज्रसन्निभाः

॥३२॥

न तादृक् सर्वदेवानां भान्ति लोका द्विजोत्तमाः । यादृग् भाति हरेर् लोकः सर्वाश्चर्यसमन्वितः

॥३३॥

न तत्र पुनरावृत्तिर् गमनाज् जायते द्विजाः । प्रभावात् तस्य देवस्य यावद् आभूतसम्प्लवम्

॥३४॥

विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः । कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे

॥३५॥

प्रतप्तहेमसङ्काशं तरुणादित्यसन्निभम् । पुरमध्ये हरेर् भाति मन्दिरं रत्नभूषितम्

॥३६॥

अनेकशतसाहस्रैः पताकैः समलङ्कृतम् । योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम्

॥३७॥

नानावर्णैर् ध्वजैश् चित्रैः कल्पितैः सुमनोहरैः । विभाति शारदो यद्वन् नक्षत्रैः सह चन्द्रमाः

॥३८॥

चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम् । पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम्

॥३९॥

प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर् युतम् । इन्द्रनीलं तृतीयं तु महानीलं ततः परम्

॥४०॥

पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् । षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम्

॥४१॥

नानारत्नमयैर् हेमप्रवालाङ्कुरभूषितैः । स्तम्भैर् अद्भुतसङ्काशैर् भाति तद् भवनं महत्

॥४२॥

दृश्यन्ते तत्र सिद्धाश् च भासयन्ति दिशो दश । पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः

॥४३॥

आरूढस् तत्र भगवान् सलक्ष्मीको जनार्दनः । पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः

॥४४॥

ज्वलत् सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम् । दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः

॥४५॥

कुन्देन्दुरजतप्रख्यं हारगोक्षीरसन्निभम् । आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः

॥४६॥

यस्य शब्देन सकलं सङ्क्षोभं जायते जगत् । विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम्

॥४७॥

दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् । ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैर् अपि

॥४८॥

कौमोदकीं गदां चासौ धृतवान् दक्षिणे करे । वामे विस्फुरति ह्य् अस्य शार्ङ्गं सूर्यसमप्रभम्

॥४९॥

शरैर् आदित्यसङ्काशैर् ज्वालामालाकुलैर् वरैः । योऽसौ संहरते देवस् त्रैलोक्यं सचराचरम्

॥५०॥

सर्वानन्दकरः श्रीमान् सर्वशास्त्रविशारदः । सर्वलोकगुरुर् देवः सर्वैर् देवैर् नमस्कृतः

॥५१॥

सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः । सहस्राख्यः सहस्राङ्गः सहस्रभुजवान् प्रभुः

॥५२॥

सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः । विद्युद्विस्पष्टसङ्काशो जगन्नाथो जगद्गुरुः

॥५३॥

परीतः सुरसिद्धैश् च गन्धर्वाप्सरसां गणैः । यक्षविद्याधरैर् नागैर् मुनिसिद्धैः सचारणैः

॥५४॥

सुपर्णैर् दानवैर् दैत्यै राक्षसैर् गुह्यकिन्नरैः । अन्यैर् देवगणैर् दिव्यैः स्तूयमानो विराजते

॥५५॥

तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती । बुद्धिर् मतिस् तथा क्षान्तिः सिद्धिमूर्तिस् तथा द्युतिः

॥५६॥

गायत्री चैव सावित्री मङ्गला सर्वमङ्गला । प्रभा मतिस् तथा कान्तिस् तत्र नारायणी स्थिता

॥५७॥

श्रद्धा च कौशिकी देवी विद्युत् सौदामिनी तथा । निद्रा रात्रिस् तथा माया तथान्यामरयोषितः

॥५८॥

वासुदेवस्य सर्वास् ता भवने सम्प्रतिष्ठिताः । अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम्

॥५९॥

घृताची मेनका रम्भा सहजन्या तिलोत्तमा । उर्वशी चैव निम्लोचा तथान्या वामना परा

॥६०॥

मन्दोदरी च सुभगा विश्वाची विपुलानना । भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा

॥६१॥

मुनिसम्मोहिनी रामा चन्द्रमध्या शुभानना । सुकेशी नीलकेशा च तथा मन्मथदीपिनी

॥६२॥

अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला । क्रतुस्थला वराङ्गी च पूर्वचित्तिस् तथा परा

॥६३॥

परावती महारूपा शशिलेखा शुभानना । हंसलीलानुगामिन्यो मत्तवारणगामिनी

॥६४॥

बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः । एताश् चान्या अप्सरसो रूपयौवनगर्विताः

॥६५॥

सुमध्याश् चारुवदनाः सर्वालङ्कारभूषिताः । गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः

॥६६॥

गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः । नृत्यन्त्य् अनुदिनं तत्र यत्रासौ पुरुषोत्तमः

॥६७॥

न तत्र रोगो नो ग्लानिर् न मृत्युर् न हिमातपौ । न क्षुत् पिपासा न जरा न वैरूप्यं न चासुखम्

॥६८॥

परमानन्दजननं सर्वकामफलप्रदम् । विष्णुलोकात् परं लोकं नात्र पश्यामि भो द्विजाः

॥६९॥

ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् । विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम्

॥७०॥

एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् । सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः

॥७१॥

न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः । न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः

॥७२॥

येऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् । ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः

॥७३॥

दक्षिणस्योदधेस् तीरे क्षेत्रे परमदुर्लभे । दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः

॥७४॥

कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् । ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे

॥७५॥

वटसागरयोर् मध्ये यः स्मरेत् पुरुषोत्तमम् । तेऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे

॥७६॥

तेऽपि तत्र परं स्थानं यान्ति नास्त्य् अत्र संशयः । एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः । सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः

॥७७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).