मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १२३

3
ब्रह्मपुराणम् · 123

अध्यायः १२३

ब्रह्मोवाच:

रामतीर्थम् इति ख्यातं भ्रूणहत्याविनाशनम् । तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते

॥१॥

इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः । बलवान् मतिमाञ् शूरो यथा शक्रः पुरन्दरः

॥२॥

पितृपैतामहं राज्यं कुर्वन्न् आस्ते यथा बलिः । तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि

॥३॥

कौशल्या च सुमित्रा च कैकेयी च महामते । एताः कुलीनाः सुभगा रूपलक्षणसंयुताः

॥४॥

तस्मिन् राजनि राज्ये तु स्थितेऽयोध्यापतौ मुने । वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः

॥५॥

न च व्याधिर् न दुर्भिक्षं न चावृष्टिर् न चाधयः । ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः

॥६॥

आश्रमाणां तु सर्वेषाम् आनन्दोऽभूत् पृथक् पृथक् । तस्मिञ् शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे

॥७॥

देवानां दानवानां तु राज्यार्थे विग्रहोऽभवत् । क्वापि तत्र जयं प्रापुर् देवाः क्वापि तथेतरे

॥८॥

एवं प्रवर्तमाने तु त्रैलोक्यम् अतिपीडितम् । अभून् नारद तत्राहम् अवदं दैत्यदानवान्

॥९॥

देवांश् चापि विशेषेण न कृतं तैर् मदीरितम् । पुनश् च सङ्गरस् तेषां बभूव सुमहान् मिथः

॥१०॥

विष्णुं गत्वा सुराः प्रोचुस् तथेशानं जगन्मयम् । ताव् ऊचतुर् उभौ देवान् असुरान् दैत्यदानवान्

॥११॥

तपसा बलिनो यान्तु पुनः कुर्वन्तु सङ्गरम् । तथेत्य् आहुर् ययुः सर्वे तपसे नियतव्रताः

॥१२॥

ययुस् तु राक्षसान् देवाः पुनस् ते मत्सरान्विताः । देवानां दानवानां च सङ्गरोऽभूत् सुदारुणः

॥१३॥

न तत्र देवा जेतारो नैव दैत्याश् च दानवाः । संयुगे वर्तमाने तु वाग् उवाचाशरीरिणी

॥१४॥

आकाशवाग् उवाच:

येषां दशरथो राजा ते जेतारो न चेतरे

॥१५॥

ब्रह्मोवाच:

इति श्रुत्वा जयायोभौ जग्मतुर् देवदानवौ । तत्र वायुस् त्वरन् प्राप्तो राजानम् अवदत् तदा

॥१६॥

वायुर् उवाच:

आगन्तव्यं त्वया राजन् देवदानवसङ्गरे । यत्र राजा दशरथो जयस् तत्रेति विश्रुतम्

॥१७॥

तस्मात् त्वं देवपक्षे स्या भवेयुर् जयिनः सुराः

॥१८॥

ब्रह्मोवाच:

तद् वायुवचनं श्रुत्वा राजा दशरथो नृपः । आगम्यते मया सत्यं गच्छ वायो यथासुखम्

॥१९॥

गते वायौ तदा दैत्या आजग्मुर् भूपतिं प्रति । तेऽप्य् ऊचुर् भगवन्न् अस्मत्साहाय्यं कर्तुम् अर्हसि

॥२०॥

राजन् दशरथ श्रीमन् विजयस् त्वयि संस्थितः । तस्मात् त्वं वै दैत्यपतेः साहाय्यं कर्तुम् अर्हसि

॥२१॥

ततः प्रोवाच नृपतिर् वायुना प्रार्थितः पुरा । प्रतिज्ञातं मया तच् च यान्तु दैत्याश् च दानवाः

॥२२॥

स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् । युद्धं चक्रे तथा दैत्यैर् दानवैः सह राक्षसैः

॥२३॥

पश्यत्सु देवसङ्घेषु नमुचेर् भ्रातरस् तदा । विविधुर् निशितैर् बाणैर् अथाक्षं नृपतेस् तथा

॥२४॥

भिन्नाक्षं तं रथं राजा न जानाति स सम्भ्रमात् । राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद

॥२५॥

न ज्ञापितं तया राज्ञे स्वयम् आलोक्य सुव्रता । भग्नम् अक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम्

॥२६॥

अक्षवन् मुनिशार्दूल तद् एतन् महद् अद्भुतम् । रथेन रथिनां श्रेष्ठस् तया दत्तकरेण च

॥२७॥

जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून् । ततो देवैर् अनुज्ञातस् त्व् अयोध्यां पुनर् अभ्यगात्

॥२८॥

स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् । कैकेय्याः कर्म तद् दृष्ट्वा विस्मयं परमं गतः

॥२९॥

ततस् तस्यै वरान् प्रादात् त्रींस् तु नारद सा अपि । अनुमान्य नृपप्रोक्तं कैकेयी वाक्यम् अब्रवीत्

॥३०॥

कैकेय्य् उवाच:

त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी

॥३१॥

ब्रह्मोवाच:

विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह । रथेन विजयी राजा ययौ स्वनगरं सुखी

॥३२॥

योषितां किम् अदेयं हि प्रियाणाम् उचितागमे । स कदाचिद् दशरथो मृगयाशीलिभिर् वृतः

॥३३॥

अटन्न् अरण्ये शर्वर्यां वारिबन्धम् अथाकरोत् । सप्तव्यसनहीनेन भवितव्यं तु भूभुजा

॥३४॥

इति जानन्न् अपि च तच् चकार तु विधेर् वशात् । गर्तं प्रविश्य पानार्थम् आगतान् निशितैः शरैः

॥३५॥

मृगान् हन्ति महाबाहुः शृणु कालविपर्ययम् । गर्तं प्रविष्टे नृपतौ तस्मिन्न् एव नगोत्तमे

॥३६॥

वृद्धो वैश्रवणो नाम न शृणोति न पश्यति । तस्य भार्या तथाभूता ताव् अब्रूतां तदा सुतम्

॥३७॥

मातापितराव् ऊचतुः:

आवां तृषार्तौ रात्रिश् च कृष्णा चापि प्रवर्तते । वृद्धानां जीवितं कृत्स्नं बालस् त्वम् असि पुत्रक

॥३८॥

अन्धानां बधिराणां च वृद्धानां धिक् च जीवितम् । जराजर्जरदेहानां धिग् धिक् पुत्रक जीवितम्

॥३९॥

तावत् पुम्भिर् जीवितव्यं यावल् लक्ष्मीर् दृढं वपुः । यावद् आज्ञाप्रतिहता तीर्थादाव् अन्यथा मृतिः

॥४०॥

ब्रह्मोवाच:

इत्य् एतद् वचनं श्रुत्वा वृद्धयोर् गुरुवत्सलः । पुत्रः प्रोवाच तद् दुःखं गिरा मधुरया हरन्

॥४१॥

पुत्र उवाच:

मयि जीवति किं नाम युवयोर् दुःखम् ईदृशम् । न हरत्य् आत्मजः पित्रोर् यश् चरित्रैर् मनोरुजम्

॥४२॥

तेन किं तनुजेनेह कुलोद्वेगविधायिना

॥४३॥

ब्रह्मोवाच:

इत्य् उक्त्वा पितरौ नत्वा ताव् आश्वास्य महामनाः । तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा

॥४४॥

हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः । स ऋषिर् न तु राजानं जानाति नृपतिर् द्विजम्

॥४५॥

उभौ सरभसौ तत्र द्विजो वारि समाविशत् । सत्वरं कलशे न्युब्जे वारि गृह्णन्तम् आशुगैः

॥४६॥

द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः । वनद्विपोऽपि भूपानाम् अवध्यस् तद् विदन्न् अपि

॥४७॥

विव्याध तं नृपः कुर्यान् न किं किं विधिवञ्चितः । स विद्धो मर्मदेशे तु दुःखितो वाक्यम् अब्रवीत्

॥४८॥

द्विज उवाच:

केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे । मैत्रो ब्राह्मण इत्य् उक्तो नापराधोऽस्ति कश्चन

॥४९॥

ब्रह्मोवाच:

तद् एतद् वचनं श्रुत्वा मुनेर् आर्तस्य भूपतिः । निश्चेष्टश् च निरुत्साहो शनैस् तं देशम् अभ्यगात्

॥५०॥

तं तु दृष्ट्वा द्विजवरं ज्वलन्तम् इव तेजसा । असाव् अप्य् अभवत् तत्र सशल्य इव मूर्च्छितः

॥५१॥

आत्मानम् आत्मना कृत्वा स्थिरं राजाब्रवीद् इदम्

॥५२॥

राजोवाच:

को भवान् द्विजशार्दूल किमर्थम् इह चागतः । वद पापकृते मह्यं वद मे निष्कृतिं पराम्

॥५३॥

ब्रह्महा वर्णिभिः किन्तु श्वपचैर् अपि जातुचित् । न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन

॥५४॥

ब्रह्मोवाच:

तद् राजवचनं श्रुत्वा मुनिपुत्रोऽब्रवीद् वचः

॥५५॥

मुनिपुत्र उवाच:

उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किञ्चन । स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम्

॥५६॥

आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम । तयोः शुश्रूषकः कः स्याद् अन्धयोर् एकपुत्रयोः

॥५७॥

विना मया महारण्ये कथं तौ जीवयिष्यतः । ममाभाग्यम् अहो कीदृक् पितृशुश्रूषणे क्षतिः

॥५८॥

जाता मेऽद्य विना प्राणैर् हा विधे किं कृतं त्वया । तथापि गच्छ तत्र त्वं गृहीतकलशस् त्वरन्

॥५९॥

ताभ्यां देह्य् उदपानं त्वं यथा तौ न मरिष्यतः

॥६०॥

ब्रह्मोवाच:

इत्य् एवं ब्रुवतस् तस्य गताः प्राणा महावने । विसृज्य सशरं चापम् आदाय कलशं नृपः

॥६१॥

तत्रागात् स तु वेगेन यत्र वृद्धौ महावने । वृद्धौ चापि तदा रात्रौ ताव् अन्योन्यं समूचतुः

॥६२॥

वृद्धाव् ऊचतुः:

उद्विग्नः कुपितो वा स्याद् अथवा भक्षितः कथम् । न प्राप्तश् चावयोर् यष्टिः किं कुर्मः का गतिर् भवेत्

॥६३॥

न कोपि तादृशः पुत्रो विद्यते सचराचरे । यः पित्रोर् अन्यथा वाक्यं न करोत्य् अपि निन्दितः

॥६४॥

वज्राद् अपि कठोरं वा जीवितं तम् अपश्यतोः । शीघ्रं न यान्ति यत् प्राणास् तदेकायत्तजीवयोः

॥६५॥

ब्रह्मोवाच:

एवं बहुविधा वाचो वृद्धयोर् वदतोर् वने । तदा दशरथो राजा शनैस् तं देशम् अभ्यगात्

॥६६॥

पादसञ्चारशब्देन मेनाते सुतम् आगतम्

॥६७॥

वृद्धाव् ऊचतुः:

कुतो वत्स चिरात् प्राप्तस् त्वं दृष्टिस् त्वं परायणम् । न ब्रूषे किन्तु रुष्टोऽसि वृद्धयोर् अन्धयोः सुतः

॥६८॥

ब्रह्मोवाच:

सशल्य इव दुःखार्तः शोचन् दुष्कृतम् आत्मनः । स भीत इव राजेन्द्रस् ताव् उवाचाथ नारद

॥६९॥

उदपानं च कुरुतां तच् छ्रुत्वा नृपभाषितम् । नायं वक्ता सुतोऽस्माकं को भवांस् तत् पुरा वद

॥७०॥

पश्चात् पिबावः पानीयं ततो राजाब्रवीच् च तौ

॥७१॥

राजोवाच:

तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः

॥७२॥

ब्रह्मोवाच:

तच् छ्रुत्वोचतुर् आर्तौ तौ सत्यं ब्रूहि न चान्यथा । आचचक्षे ततो राजा सर्वम् एव यथातथम्

॥७३॥

ततस् तु पतितौ वृद्धौ तत्रावां नय मा स्पृश । ब्रह्मघ्नस्पर्शनं पापं न कदाचिद् विनश्यति

॥७४॥

निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः । यत्रासौ पतितः पुत्रस् तं स्पृष्ट्वा तौ विलेपतुः

॥७५॥

वृद्धाव् ऊचतुः:

यथा पुत्रवियोगेन मृत्युर् नौ विहितस् तथा । त्वं चापि पाप पुत्रस्य वियोगान् मृत्युम् आप्स्यसि

॥७६॥

ब्रह्मोवाच:

एवं तु जल्पतोर् ब्रह्मन् गताः प्राणास् ततो नृपः । अग्निना योजयाम् आस वृद्धौ च ऋषिपुत्रकम्

॥७७॥

ततो जगाम नगरं दुःखितो नृपतिर् मुने । वसिष्ठाय च तत् सर्वं न्यवेदयद् अशेषतः

॥७८॥

नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः । वसिष्ठोऽपि द्विजश्रेष्ठैः सम्मन्त्र्याह च निष्कृतिम्

॥७९॥

वसिष्ठ उवाच:

गालवं वामदेवं च जाबालिम् अथ कश्यपम् । एतान् अन्यान् समाहूय हयमेधाय यत्नतः

॥८०॥

यजस्व हयमेधैश् च बहुभिर् बहुदक्षिणैः

॥८१॥

ब्रह्मोवाच:

अकरोद् धयमेधांश् च राजा दशरथो द्विजैः । एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी

॥८२॥

आकाशवाण्य् उवाच:

पूतं शरीरम् अभवद् राज्ञो दशरथस्य हि । व्यवहार्यश् च भविता भविष्यन्ति तथा सुताः । ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति

॥८३॥

ब्रह्मोवाच:

ततो बहुतिथे काले ऋष्यशृङ्गान् मुनीश्वरात् । देवानां कार्यसिद्ध्यर्थं सुता आसन् सुरोपमाः

॥८४॥

कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः । शत्रुघ्नश् चापि कैकेय्यां भरतो मतिमत्तरः

॥८५॥

ते सर्वे मतिमन्तश् च प्रिया राज्ञो वशे स्थिताः । तं राजानम् ऋषिः प्राप्य विश्वामित्रः प्रजापतिः

॥८६॥

रामं च लक्ष्मणं चापि अयाचत महामते । यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः

॥८७॥

चिरप्राप्तसुतो वृद्धो राजा नैवेत्य् अभाषत

॥८८॥

राजोवाच:

महता दैवयोगेन कथञ्चिद् वार्धके मुने । जाताव् आनन्दसन्दोहदायकौ मम बालकौ

॥८९॥

सशरीरम् इदं राज्यं दास्ये नैव सुताव् इमौ

॥९०॥

ब्रह्मोवाच:

वसिष्ठेन तदा प्रोक्तो राजा दशरथस् त्व् इति

॥९१॥

वसिष्ठ उवाच:

रघवः प्रार्थनाभङ्गं न राजन् क्वापि शिक्षिताः

॥९२॥

ब्रह्मोवाच:

रामं च लक्ष्मणं चैव कथञ्चिद् अवदन् नृपः

॥९३॥

राजोवाच:

विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम्

॥९४॥

ब्रह्मोवाच:

वदन्न् इति सुतौ सोष्णं निश्वसन् ग्लपिताधरः । पुत्रौ समर्पयाम् आस विश्वामित्रस्य शास्त्रकृत्

॥९५॥

तथेत्य् उक्त्वा दशरथं नमस्य च पुनः पुनः । जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा

॥९६॥

ततः प्रहृष्टः स मुनिर् मुदा प्रादात् तदोभयोः । माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम्

॥९७॥

शास्त्रीम् आस्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् । अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने

॥९८॥

सर्वविद्याम् अथावाप्य उभौ तौ रामलक्ष्मणौ । वनौकसां हितार्थाय जघ्नतुस् ताटकां वने

॥९९॥

अहल्यां शापनिर्मुक्तां पादस्पर्शाच् च चक्रतुः । यज्ञविध्वंसनायाताञ् जघ्नतुस् तत्र राक्षसान्

॥१००॥

कृतविद्यौ धनुष्पाणी चक्रतुर् यज्ञरक्षणम् । ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः

॥१०१॥

पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुम् अभ्यगात् । चित्राम् अदर्शयत् तत्र राजमध्ये नृपात्मजः

॥१०२॥

रामः सौमित्रिसहितो धनुर्विद्यां गुरोर् मताम् । तत्प्रीतो जनकः प्रादात् सीतां लक्ष्मीम् अयोनिजाम्

॥१०३॥

तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च । शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः

॥१०४॥

राजा दशरथः श्रीमान् विवाहम् अकरोन् मुने । ततो बहुतिथे काले राज्यं तस्य प्रयच्छति

॥१०५॥

नृपतौ सर्वलोकानाम् अनुमत्या गुरोर् अपि । मन्थरात्मकदुर्दैवप्रेरिता मत्सराकुला

॥१०६॥

कैकेयी विघ्नम् आतस्थे वनप्रव्राजनं तथा । भरतस्य च तद् राज्यं राजा नैव च दत्तवान्

॥१०७॥

पितरं सत्यवाक्यं तं कुर्वन् रामो महावनम् । विवेश सीतया सार्धं तथा सौमित्रिणा सह

॥१०८॥

सतां च मानसं शुद्धं स विवेश स्वकैर् गुणैः । तस्मिन् विनिर्गते रामे वनवासाय दीक्षिते

॥१०९॥

समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते । तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम्

॥११०॥

दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् । तदा दशरथो राजा प्राणांस् तत्याज दुःखितः

॥१११॥

कृतकर्मविपाकेन राजा नीतो यमानुगैः । तस्मै राज्ञे महाप्राज्ञ यावत् स्थावरजङ्गमे

॥११२॥

यमसद्मन्य् अनेकानि तामिस्रादीनि नारद । नरकाण्य् अथ घोराणि भीषणानि बहूनि च

॥११३॥

तत्र क्षिप्तस् तदा राजा नरकेषु पृथक् पृथक् । पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा

॥११४॥

शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते । एवमादिषु घोरेषु नरकेषु स पच्यते

॥११५॥

रामोऽपि गच्छन्न् अध्वानं चित्रकूटम् अथागमत् । तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते

॥११६॥

पुनः स दक्षिणाम् आशाम् आक्रामद् दण्डकं वनम् । विख्यातं त्रिषु लोकेषु देशानां तद् धि पुण्यदम्

॥११७॥

प्राविशत् तन् महारण्यं भीषणं दैत्यसेवितम् । तद्भयाद् ऋषिभिस् त्यक्तं हत्वा दैत्यांस् तु राक्षसान्

॥११८॥

विचरन् दण्डकारण्ये ऋषिसेव्यम् अथाकरोत् । तत्रेदं वृत्तम् आख्यास्ये शृणु नारद यत्नतः

॥११९॥

तावच् छनैस् त्व् अगाद् रामो यावद् योजनपञ्चकम् । गौतमीं समनुप्राप्तो राजापि नरके स्थितः

॥१२०॥

यमः स्वकिङ्करान् आह रामो दशरथात्मजः । गौतमीम् अभितो याति पितरं तस्य धीमतः

॥१२१॥

आकर्षन्त्व् अथ राजानं नरकान् नात्र संशयः । उत्तीर्य गौतमीं याति यावद् योजनपञ्चकम्

॥१२२॥

रामस् तावत् तस्य पिता नरके नैव पच्यताम् । यद् एतन् मद्वचः पुण्यं न कुर्युर् यदि दूतकाः

॥१२३॥

ततश् च नरके घोरे यूयं सर्वे निमज्जथ । या काप्य् उक्ता परा शक्तिः शिवस्य समवायिनी

॥१२४॥

ताम् एव गौतमीं सन्तो वदन्त्य् अम्भःस्वरूपिणीम् । हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत्

॥१२५॥

निस्तीर्यते न केनापि तद् अतिक्रमजं त्व् अघम् । पापिनोऽप्य् आत्मजः कश्चिद् यश् च गङ्गाम् अनुस्मरेत्

॥१२६॥

सोऽनेकदुर्गनिरयान् निर्गतो मुक्ततां व्रजेत् । किं पुनस् तादृशः पुत्रो गौतमीनिकटे स्थितः

॥१२७॥

यस्यासौ नरके पक्तुं न कैरपि हि शक्यते । दक्षिणाशापतेर् वाक्यं निशम्य यमकिङ्कराः

॥१२८॥

नरके पच्यमानं तम् अयोध्याधिपतिं नृपम् । उत्तार्य घोरनरकाद् वचनं चेदम् अब्रुवन्

॥१२९॥

यमकिङ्करा ऊचुः:

धन्योऽसि नृपशार्दूल यस्य पुत्रः स तादृशः । इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते

॥१३०॥

ब्रह्मोवाच:

स विश्रान्तः शनै राजा किङ्करान् वाक्यम् अब्रवीत्

॥१३१॥

राजोवाच:

नरकेष्व् अथ घोरेषु पच्यमानः पुनः पुनः । कथं त्व् आकर्षितः शीघ्रं तन् मे वक्तुम् इहार्हथ

॥१३२॥

ब्रह्मोवाच:

तत्र कश्चिच् छान्तमना राजानम् इदम् अब्रवीत्

॥१३३॥

यमदूत उवाच:

वेदशास्त्रपुराणादाव् एतद् गोप्यं प्रयत्नतः । प्रकाश्यते तद् अपि ते सामर्थ्यं पुत्रतीर्थयोः

॥१३४॥

रामस् तव सुतः श्रीमान् गौतमीतीरम् आगतः । तस्मात् त्वं नरकाद् घोराद् आकृष्टोऽसि नरोत्तम

॥१३५॥

यदि त्वां तत्र गौतम्यां स्मरेद् रामः सलक्ष्मणः । स्नानं कृत्वाथ पिण्डादि ते दद्यात् स नृपोत्तम । ततस् त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम्

॥१३६॥

राजोवाच:

तत्र गत्वा भवद्वाक्यम् आख्यास्ये स्वसुतौ प्रति । भवन्त एव शरणम् अनुज्ञां दातुम् अर्हथ

॥१३७॥

ब्रह्मोवाच:

तद् राजवचनं श्रुत्वा कृपया यमकिङ्कराः । आज्ञां च प्रददुस् तस्मै राजा प्रागात् सुतौ प्रति

॥१३८॥

भीषणं यातनादेहम् आपन्नो निःश्वसन् मुहुः । निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन्

॥१३९॥

स्वेच्छया विहरन् गङ्गाम् आससाद च राघवः । गौतम्यास् तटम् आश्रित्य रामो लक्ष्मण एव च

॥१४०॥

सीतया सह वैदेह्या सस्नौ चैव यथाविधि । नैव तत्राभवद् भोज्यं भक्ष्यं वा गौतमीतटे

॥१४१॥

तद्दिने तत्र वसतां गौतमीतीरवासिनाम् । तद् दृष्ट्वा दुःखितो भ्राता लक्ष्मणो रामम् अब्रवीत्

॥१४२॥

लक्ष्मण उवाच:

पुत्रौ दशरथस्यावां तवापि बलम् ईदृशम् । नास्ति भोज्यम् अथास्माकं गङ्गातीरनिवासिनाम्

॥१४३॥

राम उवाच:

भ्रातर् यद् विहितं कर्म नैव तच् चान्यथा भवेत् । पृथिव्याम् अन्नपूर्णायां वयम् अन्नाभिलाषिणः

॥१४४॥

सौमित्रे नूनम् अस्माभिर् न ब्राह्मणमुखे हुतम् । अवज्ञया महीदेवांस् तर्पयन्त्य् अर्चयन्ति न

॥१४५॥

ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः । स्नात्वा देवान् अथाभ्यर्च्य होतव्यश् च हुताशनः । ततः स्वसमये देवो विधास्यत्य् अशनं तु नौ

॥१४६॥

ब्रह्मोवाच:

भ्रात्रोः सञ्जल्पतोर् एवं पश्यतोः कर्मणो गतिम् । शनैर् दशरथो राजा तं देशम् उपजग्मिवान्

॥१४७॥

तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् । धनुर् आकृष्य कोपेन रक्षस् त्वं दानवोऽथवा

॥१४८॥

आसन्नं च पुनर् दृष्ट्वा याहि याह्य् अत्र पुण्यभाक् । रामो दाशरथी राजा धर्मभाक् पश्य वर्तते

॥१४९॥

गुरुभक्तः सत्यसन्धो देवब्राह्मणसेवकः । त्रैलोक्यरक्षादक्षोऽसौ वर्तते यत्र राघवः

॥१५०॥

न तत्र त्वादृशाम् अस्ति प्रवेशः पापकर्मणाम् । यदि प्रविशसे पाप ततो वधम् अवाप्स्यसि

॥१५१॥

तत् पुत्रवचनं श्रुत्वा शनैर् आहूय वाचया । उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः । मुहुर् अन्तर् विनिध्यायन् गतिं दुष्कृतकर्मणः

॥१५२॥

राजोवाच:

अहं दशरथो राजा पुत्रौ मे शृणुतं वचः । तिसृभिर् ब्रह्महत्याभिर् वृतोऽहं दुःखम् आगतः । छिन्नं पश्यत मे देहं नरकेषु च पातितम्

॥१५३॥

ब्रह्मोवाच:

ततः कृताञ्जली रामः सीतया लक्ष्मणेन च । भूमौ प्रणेमुस् ते सर्वे वचनं चैतद् अब्रुवन्

॥१५४॥

सीतारामलक्ष्मणा ऊचुः:

कस्येदं कर्मणस् तात फलं नृपतिसत्तम

॥१५५॥

ब्रह्मोवाच:

स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा

॥१५६॥

राजोवाच:

निष्कृतिर् ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते

॥१५७॥

ब्रह्मोवाच:

ततो दुःखेन महता आवृताः सर्वे भुवं गताः । राजानं वनवासं च मातरं पितरं तथा

॥१५८॥

दुःखागमं कर्मगतिं नरके पातनं तथा । एवमाद्य् अथ संस्मृत्य मुमोह नृपतेः सुतः । विसञ्ज्ञं नृपतिं दृष्ट्वा सीता वाक्यम् अथाब्रवीत्

॥१५९॥

सीतोवाच:

न शोचन्ति महात्मानस् त्वादृशा व्यसनागमे । चिन्तयन्ति प्रतीकारं दैव्यम् अप्य् अथ मानुषम्

॥१६०॥

शोचद्भिर् युगसाहस्रं विपत्तिर् नैव तीर्यते । व्यामोहम् आप्नुवन्तीह न कदाचिद् विचक्षणाः

॥१६१॥

किम् अनेनात्र दुःखेन निष्फलेन जनेश्वर । देहि हत्यां प्रथमतो या जाता ह्य् अतिभीषणा

॥१६२॥

पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः । अनागा यो हतो विप्रस् तत्पापस्यात्र निष्कृतिम्

॥१६३॥

आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम् । द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्व् अपरां भवान्

॥१६४॥

ब्रह्मोवाच:

एतद् धर्मयुतं वाक्यं सीतया भाषितं दृढम् । तथेति चाहतुर् उभौ ततो दशरथोऽब्रवीत्

॥१६५॥

दशरथ उवाच:

त्वं हि ब्रह्मविदः कन्या जनकस्य त्व् अयोनिजा । भार्या रामस्य किं चित्रं यद् युक्तम् अनुभाषसे

॥१६६॥

न कोपि भवतां किन्तु श्रमः स्वल्पोऽपि विद्यते । गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च

॥१६७॥

तिसृभिर् ब्रह्महत्याभिर् मुक्तो यामि त्रिविष्टपम् । त्वया जनकसम्भूते स्वकुलोचितम् ईरितम्

॥१६८॥

प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः । गोदावर्याः प्रसादेन किं नामास्त्य् अत्र दुर्लभम्

॥१६९॥

ब्रह्मोवाच:

तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा । नैवापश्यद् भक्ष्यभोज्यं ततो लक्ष्मणम् अब्रवीत्

॥१७०॥

लक्ष्मणः प्राह विनयाद् इङ्गुद्याश् च फलानि च । सन्ति तेषां च पिण्याकम् आनीतं तत्क्षणाद् इव

॥१७१॥

पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः । मनः कुर्वंस् ततो रामो मन्दोऽभूद् दुःखितस् तदा

॥१७२॥

दैवी वाग् अभवत् तत्र दुःखं त्यज नृपात्मज । राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किञ्चनो भवान्

॥१७३॥

अशठो धर्मनिरतो न शोचितुम् इहार्हसि । वित्तशाठ्येन यो धर्मं करोति स तु पातकी

॥१७४॥

श्रूयते सर्वशास्त्रेषु यद् राम शृणु यत्नतः । यदन्नः पुरुषो राजंस् तदन्नास् तस्य देवताः

॥१७५॥

पिण्डे निपतिते भूमौ नापश्यत् पितरं तदा । शवं च पतितं यत्र शवतीर्थम् अनुत्तमम्

॥१७६॥

महापातकसङ्घातविघातकृद् अनुस्मृतिः । तत्रागच्छंल् लोकपाला रुद्रादित्यास् तथाश्विनौ

॥१७७॥

स्वं स्वं विमानम् आरूढास् तेषां मध्येऽतिदीप्तिमान् । विमानवरम् आरूढः स्तूयमानश् च किन्नरैः

॥१७८॥

आदित्यसदृशाकारस् तेषां मध्ये बभौ पिता । तम् अदृष्ट्वा स्वपितरं देवान् दृष्ट्वा विमानिनः

॥१७९॥

कृताञ्जलिपुटो रामः पिता मे क्वेत्य् अभाषत । इति दिव्याभवद् वाणी रामं सम्बोध्य सीतया

॥१८०॥

तिसृभिर् ब्रह्महत्याभिर् मुक्तो दशरथो नृपः । वृतं पश्य सुरैस् तात देवा अप्य् ऊचिरे च तम्

॥१८१॥

देवा ऊचुः:

धन्योऽसि कृतकृत्योऽसि राम स्वर्गं गतः पिता । नानानिरयसङ्घातात् पूर्वजान् उद्धरेत् तु यः

॥१८२॥

स धन्योऽलङ्कृतं तेन कृतिना भुवनत्रयम् । एनं पश्य महाबाहो मुक्तपापं रविप्रभम्

॥१८३॥

सर्वसम्पत्तियुक्तोऽपि पापी दग्धद्रुमोपमः । निष्किञ्चनोऽपि सुकृती दृश्यते चन्द्रमौलिवत्

॥१८४॥

ब्रह्मोवाच:

दृष्ट्वाब्रवीत् सुतं राजा आशीर्भिर् अभिनन्द्य च

॥१८५॥

राजोवाच:

कृतकृत्योऽसि भद्रं ते तारितोऽहं त्वयानघ । धन्यः स पुत्रो लोकेऽस्मिन् पितॄणां यस् तु तारकः

॥१८६॥

ब्रह्मोवाच:

ततः सुरगणाः प्रोचुर् देवानां कार्यसिद्धये । रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् । ततस् तद्वचनं श्रुत्वा रामस् तान् अब्रवीत् सुरान्

॥१८७॥

राम उवाच:

गुरौ पितरि मे देवाः किं कृत्यम् अवशिष्यते

॥१८८॥

देवा ऊचुः:

नदी न गङ्गया तुल्या न त्वया सदृशः सुतः । न शिवेन समो देवो न तारेण समो मनुः

॥१८९॥

त्वया राम गुरूणां च कार्यं सर्वम् अनुष्ठितम् । तारिताः पितरो राम त्वया पुत्रेण मानद । गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम्

॥१९०॥

ब्रह्मोवाच:

तद् देववचनाद् धृष्टः सीतया लक्ष्मणाग्रजः । तद् दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यम् अब्रवीत्

॥१९१॥

राम उवाच:

अहो गङ्गाप्रभावोऽयं त्रैलोक्ये नोपमीयते । वयं धन्या यतो गङ्गा दृष्टास्माभिस् त्रिपावनी

॥१९२॥

ब्रह्मोवाच:

हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् । तं षोडशभिर् ईशानम् उपचारैः प्रयत्नतः

॥१९३॥

सम्पूज्यावरणैर् युक्तं षट्त्रिंशत्कलम् ईश्वरम् । कृताञ्जलिपुटो भूत्वा रामस् तुष्टाव शङ्करम्

॥१९४॥

राम उवाच:

नमामि शम्भुं पुरुषं पुराणं । नमामि सर्वज्ञम् अपारभावम् । नमामि रुद्रं प्रभुम् अक्षयं तं । नमामि शर्वं शिरसा नमामि

॥१९५॥

नमामि देवं परम् अव्ययं तम् । उमापतिं लोकगुरुं नमामि । नमामि दारिद्र्यविदारणं तं । नमामि रोगापहरं नमामि

॥१९६॥

नमामि कल्याणम् अचिन्त्यरूपं । नमामि विश्वोद्भवबीजरूपम् । नमामि विश्वस्थितिकारणं तं । नमामि संहारकरं नमामि

॥१९७॥

नमामि गौरीप्रियम् अव्ययं तं । नमामि नित्यं क्षरम् अक्षरं तम् । नमामि चिद्रूपम् अमेयभावं । त्रिलोचनं तं शिरसा नमामि

॥१९८॥

नमामि कारुण्यकरं भवस्य । भयङ्करं वापि सदा नमामि । नमामि दातारम् अभीप्सितानां । नमामि सोमेशम् उमेशम् आदौ

॥१९९॥

नमामि वेदत्रयलोचनं तं । नमामि मूर्तित्रयवर्जितं तम् । नमामि पुण्यं सदसद्व्यतीतं । नमामि तं पापहरं नमामि

॥२००॥

नमामि विश्वस्य हिते रतं तं । नमामि रूपाणि बहूनि धत्ते । यो विश्वगोप्ता सदसत्प्रणेता । नमामि तं विश्वपतिं नमामि

॥२०१॥

यज्ञेश्वरं सम्प्रति हव्यकव्यं । तथा गतिं लोकसदाशिवो यः । आराधितो यश् च ददाति सर्वं । नमामि दानप्रियम् इष्टदेवम्

॥२०२॥

नमामि सोमेश्वरम् अस्वतन्त्रम् । उमापतिं तं विजयं नमामि । नमामि विघ्नेश्वरनन्दिनाथं । पुत्रप्रियं तं शिरसा नमामि

॥२०३॥

विनाशनं चन्द्रधरं नमामि । नमामि गङ्गाधरम् ईशम् ईड्यम् । उमाधवं देववरं नमामि

॥२०४॥

सुरासुरैर् अर्चितपादपद्मम् । नमामि देवीमुखवादनानाम् । ईक्षार्थम् अक्षित्रितयं य ऐच्छत्

॥२०५॥

पञ्चामृतैर् गन्धसुधूपदीपैर् । विचित्रपुष्पैर् विविधैश् च मन्त्रैः । अन्नप्रकारैः सकलोपचारैः । सम्पूजितं सोमम् अहं नमामि

॥२०६॥

ब्रह्मोवाच:

ततः स भगवान् आह रामं शम्भुः सलक्ष्मणम् । वरान् वृणीष्व भद्रं ते रामः प्राह वृषध्वजम्

॥२०७॥

राम उवाच:

स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम । तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर

॥२०८॥

येषां च पितरः शम्भो पतिता नरकार्णवे । तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम्

॥२०९॥

जन्मप्रभृति पापानि मनोवाक्कायिकं त्व् अघम् । अत्र तु स्नानमात्रेण तत् सद्यो नाशम् आप्नुयात्

॥२१०॥

अत्र ये भक्तितः शम्भो ददत्य् अर्थिभ्य अण्व् अपि । सर्वं तद् अक्षयं शम्भो दातॄणां फलकृद् भवेत्

॥२११॥

ब्रह्मोवाच:

एवम् अस्त्व् इति तं रामं शङ्करो हृषितोऽब्रवीत् । गते तस्मिन् सुरश्रेष्ठे रामोऽप्य् अनुचरैः सह

॥२१२॥

गौतमी यत्र चोत्पन्ना शनैस् तं देशम् अभ्यगात् । ततः प्रभृति तत् तीर्थं रामतीर्थम् उदाहृतम्

॥२१३॥

दयालोर् अपतत् तत्र लक्ष्मणस्य कराच् छरः । तद् बाणतीर्थम् अभवत् सर्वापद्विनिवारणम्

॥२१४॥

यत्र सौमित्रिणा स्नानं शङ्करस्यार्चनं कृतम् । तत् तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम्

॥२१५॥

नानाविधाशेषपापसङ्घनिर्मूलनक्षमम् । यद् अङ्घ्रिसङ्गाद् अभवद् गङ्गा त्रैलोक्यपावनी

॥२१६॥

स यत्र स्नानम् अकरोत् तद् वैशिष्ट्यं किम् उच्यते । तद् रामतीर्थसदृशं तीर्थं क्वापि न विद्यते

॥२१७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).