मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५०

3
ब्रह्मपुराणम् · 50

अध्यायः ५०

ब्रह्मोवाच:

स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् । वासुदेवं जगन्नाथं सर्वकामफलप्रदम्

॥१॥

चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले । वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले

॥२॥

कथं प्रत्यक्षम् अभ्येति देवदेवो जनार्दनः । मम चार्तिहरो देवस् तदासाव् इति चिन्तयन्

॥३॥

सुप्तस्य तस्य नृपतेर् वासुदेवो जगद्गुरुः । आत्मानं दर्शयाम् आस शङ्खचक्रगदाभृतम्

॥४॥

स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् । शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम्

॥५॥

शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् । युगान्तादित्यवर्णाभं नीलवैदूर्यसन्निभम्

॥६॥

सुपर्णांसे तम् आसीनं षोडशार्धभुजं शुभम् । स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते

॥७॥

क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया । तुष्टोऽस्मि ते महीपाल वृथा किम् अनुशोचसि

॥८॥

यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी । यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते

॥९॥

गतायाम् अद्य शर्वर्यां निर्मले भास्करोदिते । सागरस्य जलस्यान्ते नानाद्रुमविभूषिते

॥१०॥

जलं तथैव वेलायां दृश्यते तत्र वै महत् । लवणस्योदधे राजंस् तरङ्गैः समभिप्लुतम्

॥११॥

कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च । वेलाभिर् हन्यमानश् च न चासौ कम्पते द्रुमः

॥१२॥

परशुम् आदाय हस्तेन ऊर्मेर् अन्तस् ततो व्रज । एकाकी विहरन् राजन् स त्वं पश्यसि पादपम्

॥१३॥

ईदृक् चिह्नं समालोक्य छेदय त्वम् अशङ्कितः । छेद्यमानं तु तं वृक्षं प्रातर् अद्भुतदर्शनम्

॥१४॥

दृष्ट्वा तेनैव सञ्चिन्त्य ततो भूपाल दर्शनात् । कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम्

॥१५॥

ब्रह्मोवाच:

एवम् उक्त्वा महाभागो जगामादर्शनं हरिः । स चापि स्वप्नम् आलोक्य परं विस्मयम् आगतः

॥१६॥

तां निशां स समुद्वीक्ष्य स्थितस् तद्गतमानसः । व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम्

॥१७॥

प्रगतायां रजन्यां तु उत्थितो नान्यमानसः । स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः

॥१८॥

दत्त्वा दानं च विप्रेभ्यो ग्रामांश् च नगराणि च । कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः

॥१९॥

न चाश्वो न पदातिश् च न गजो न च सारथिः । एकाकी स महावेलां प्रविवेश महीपतिः

॥२०॥

तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् । महातिगमहारोहं पुण्यं विपुलम् एव च

॥२१॥

महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके । सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम्

॥२२॥

नरनाथस् तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः । परशुना शातयाम् आस निशितेन दृढेन च

॥२३॥

द्वैधीकर्तुमनास् तत्र बभूवेन्द्रसखः स च । निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम्

॥२४॥

विश्वकर्मा च विष्णुश् च विप्ररूपधराव् उभौ । आजग्मतुर् महाभागौ तदा तुल्याग्रजन्मनौ

॥२५॥

ज्वलमानौ स्वतेजोभिर् दिव्यस्रगनुलेपनौ । अथ तौ तं समागम्य नृपम् इन्द्रसखं तदा

॥२६॥

ताव् ऊचतुर् महाराज किम् अत्र त्वं करिष्यसि । किमर्थं च महाबाहो शातितश् च वनस्पतिः

॥२७॥

असहायो महादुर्गे निर्जने गहने वने । महासिन्धुतटे चैव कथं वै शातितो द्रुमः

॥२८॥

ब्रह्मोवाच:

तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः । बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा

॥२९॥

दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याव् इवागतौ । नमस्कृत्य जगन्नाथाव् अवाङ्मुखम् अवस्थितः

॥३०॥

राजोवाच:

देवदेवम् अनाद्यन्तम् अनन्तं जगतां पतिम् । आराधयितुं प्रतिमां करोमीति मतिर् मम

॥३१॥

अहं स देवदेवेन परमेण महात्मना । स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया

॥३२॥

ब्रह्मोवाच:

राज्ञस् तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च । प्रहस्य तस्मै विश्वेशस् तुष्टो वचनम् अब्रवीत्

॥३३॥

विष्णुर् उवाच:

साधु साधु महीपाल यद् एतन् मतम् उत्तमम् । संसारसागरे घोरे कदलीदलसन्निभे

॥३४॥

निःसारे दुःखबहुले कामक्रोधसमाकुले । इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे

॥३५॥

नानाव्याधिशतावर्ते जलबुद्बुदसन्निभे । यतस् ते मतिर् उत्पन्ना विष्णोर् आराधनाय वै

॥३६॥

धन्यस् त्वं नृपशार्दूल गुणैः सर्वैर् अलङ्कृतः । सप्रजा पृथिवी धन्या सशैलवनकानना

॥३७॥

सपुरग्रामनगरा चतुर्वर्णैर् अलङ्कृता । यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः

॥३८॥

एह्य् एहि सुमहाभाग द्रुमेऽस्मिन् सुखशीतले । आवाभ्यां सह तिष्ठ त्वं कथाभिर् धर्मसंश्रितः

॥३९॥

अयं मम सहायस् तु आगतः शिल्पिनां वरः । विश्वकर्मसमः साक्षान् निपुणः सर्वकर्मसु । मयोद्दिष्टां तु प्रतिमां करोत्य् एष तटं त्यज

॥४०॥

ब्रह्मोवाच:

श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः । सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः

॥४१॥

तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले । ततस् तस्मै स विश्वात्मा ददाव् आज्ञां द्विजाकृतिः

॥४२॥

शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति । कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम्

॥४३॥

श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् । गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम्

॥४४॥

लाङ्गलास्त्रधरं देवम् अनन्ताख्यं महाबलम् । देवदानवगन्धर्वयक्षविद्याधरोरगैः

॥४५॥

न विज्ञातो हि तस्यान्तस् तेनानन्त इति स्मृतः । भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम्

॥४६॥

तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम्

॥४७॥

ब्रह्मोवाच:

श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत् । तत्क्षणात् कारयाम् आस प्रतिमाः शुभलक्षणाः

॥४८॥

प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् । आरक्ताक्षं महाकायं स्फटाविकटमस्तकम्

॥४९॥

नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् । कुण्डलैकधरं दिव्यं गदामुशलधारिणम्

॥५०॥

द्वितीयं पुण्डरीकाक्षं नीलजीमूतसन्निभम् । अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम्

॥५१॥

पीतवाससम् अत्युग्रं शुभं श्रीवत्सलक्षणम् । चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम्

॥५२॥

तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् । विचित्रवस्त्रसञ्छन्नां हारकेयूरभूषिताम्

॥५३॥

विचित्राभरणोपेतां रत्नहारावलम्बिताम् । पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे

॥५४॥

स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः । दिव्यवस्त्रयुगच्छन्ना नानारत्नैर् अलङ्कृताः

॥५५॥

सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः । विस्मयं परमं गत्वा इदं वचनम् अब्रवीत्

॥५६॥

इन्द्रद्युम्न उवाच:

किं देवौ समनुप्राप्तौ द्विजरूपधराव् उभौ । उभौ चाद्भुतकर्माणौ देववृत्ताव् अमानुषौ

॥५७॥

देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् । किं नु ब्रह्महृषीकेशौ किं वसू किम् उताश्विनौ

॥५८॥

न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ । युवां गतोऽस्मि शरणम् आत्मा तु मे प्रकाश्यताम्

॥५९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).