अध्यायः २२६
व्यास उवाच:
श्रुत्वैवं सा जगन्माता भर्तुर् वचनम् आदितः । हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः
॥१॥ये तत्रासन् मुनिवरास् त्रिपुरारेः समीपतः । तीर्थयात्राप्रसङ्गेन गतास् तस्मिन् गिरौ द्विजाः
॥२॥तेऽपि सम्पूज्य तं देवं शूलपाणिं प्रणम्य च । पप्रच्छुः संशयं चैव लोकानां हितकाम्यया
॥३॥मुनय ऊचुः:
त्रिलोचन नमस् तेऽस्तु दक्षक्रतुविनाशन । पृच्छामस् त्वां जगन्नाथ संशयं हृदि संस्थितम्
॥४॥संसारेऽस्मिन् महाघोरे भैरवे लोमहर्षणे । भ्रमन्ति सुचिरं कालं पुरुषाश् चाल्पमेधसः
॥५॥येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् । ब्रूहि तच् छ्रोतुम् इच्छामः परं कौतूहलं हि नः
॥६॥महेश्वर उवाच:
कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् । नान्योपायं प्रपश्यामि वासुदेवात् परं द्विजाः
॥७॥ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् । वाङ्मनःकर्मभिः सम्यक् ते यान्ति परमां गतिम्
॥८॥किं तेषां जीवितेनेह पशुवच् चेष्टितेन च । येषां न प्रवणं चित्तं वासुदेवे जगन्मये
॥९॥ऋषय ऊचुः:
पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत । माहात्म्यं वासुदेवस्य श्रोतुम् इच्छाम शङ्कर
॥१०॥महेश्वर उवाच:
पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः । कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः
॥११॥दशबाहुर् महातेजा देवतारिनिषूदनः । श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः
॥१२॥ब्रह्मा तस्योदरभवस् तस्याहं च शिरोभवः । शिरोरुहेभ्यो ज्योतींषि रोमभ्यश् च सुरासुराः
॥१३॥ऋषयो देहसम्भूतास् तस्य लोकाश् च शाश्वताः । पितामहगृहं साक्षात् सर्वदेवगृहं च सः
॥१४॥सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः । संहर्ता चैव भूतानां स्थावरस्य चरस्य च
॥१५॥स हि देवदेवः साक्षाद् देवनाथः परन्तपः । सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः
॥१६॥न तस्मात् परमं भूतं त्रिषु लोकेषु किञ्चन । सनातनो महाभागो गोविन्द इति विश्रुतः
॥१७॥स सर्वान् पार्थिवान् सङ्ख्ये घातयिष्यति मानदः । सुरकार्यार्थम् उत्पन्नो मानुष्यं वपुर् आस्थितः
॥१८॥नहि देवगणाः शक्तास् त्रिविक्रमविनाकृताः । भुवने देवकार्याणि कर्तुं नायकवर्जितः
॥१९॥नायकः सर्वभूतानां सर्वभूतनमस्कृतः । एतस्य देवनाथस्य कार्यस्य च परस्य च
॥२०॥ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च । ब्रह्मा वसति नाभिस्थः शरीरेऽहं च संस्थितः
॥२१॥सर्वाः सुखं संस्थिताश् च शरीरे तस्य देवताः । स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः
॥२२॥शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः । उत्तमेन सुशीलेन शौचेन च दमेन च
॥२३॥पराक्रमेण वीर्येण वपुषा दर्शनेन च । आरोहणप्रमाणेन वीर्येणार्जवसम्पदा
॥२४॥आनृशंस्येन रूपेण बलेन च समन्वितः । अस्त्रैः समुदितः सर्वैर् दिव्यैर् अद्भुतदर्शनैः
॥२५॥योगमायासहस्राक्षो विरूपाक्षो महामनाः । वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः
॥२६॥क्षमावांश् चानहंवादी स देवो ब्रह्मदायकः । भयहर्ता भयार्तानां मित्रानन्दविवर्धनः
॥२७॥शरण्यः सर्वभूतानां दीनानां पालने रतः । श्रुतवान् अथ सम्पन्नः सर्वभूतनमस्कृतः
॥२८॥समाश्रितानाम् उपकृच् छत्रूणां भयकृत् तथा । नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः
॥२९॥भवार्थम् एव देवानां बुद्ध्या परमया युतः । प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते
॥३०॥समुत्पत्स्यति गोविन्दो मनोर् वंशे महात्मनः । अंशो नाम मनोः पुत्रो ह्य् अन्तर्धामा ततः परम्
॥३१॥अन्तर्धाम्नो हविर्धामा प्रजापतिर् अनिन्दितः । प्राचीनबर्हिर् भविता हविर्धाम्नः सुतो द्विजाः
॥३२॥तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः । प्राचेतसस् तथा दक्षो भवितेह प्रजापतिः
॥३३॥दाक्षायण्यस् तथादित्यो मनुर् आदित्यतस् ततः । मनोश् च वंशज इला सुद्युम्नश् च भविष्यति
॥३४॥बुधात् पुरूरवाश् चापि तस्माद् आयुर् भविष्यति । नहुषो भविता तस्माद् ययातिस् तस्य चात्मजः
॥३५॥यदुस् तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति । क्रोष्टुश् चैव महान् पुत्रो वृजिनीवान् भविष्यति
॥३६॥वृजिनीवतश् च भविता उषङ्गुर् अपराजितः । उषङ्गोर् भविता पुत्रः शूरश् चित्ररथस् तथा
॥३७॥तस्य त्व् अवरजः पुत्रः शूरो नाम भविष्यति । तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम्
॥३८॥यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः । स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः
॥३९॥स्ववंशविस्तारकरं जनयिष्यति मानदम् । वसुदेवम् इति ख्यातं पुत्रम् आनकदुन्दुभिम्
॥४०॥तस्य पुत्रश् चतुर्बाहुर् वासुदेवो भविष्यति । दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः
॥४१॥राज्ञो बद्धान् स सर्वान् वै मोक्षयिष्यति यादवः । जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे
॥४२॥सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् । पृथिव्याम् अप्रतिहतो वीर्येणापि भविष्यति
॥४३॥विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः । शूरः संहननो भूतो द्वारकायां वसन् प्रभुः
॥४४॥पालयिष्यति गां देवीं विनिर्जित्य दुराशयान् । तं भवन्तः समासाद्य ब्राह्मणैर् अर्हणैर् वरैः
॥४५॥अर्चयन्तु यथान्यायं ब्रह्माणम् इव शाश्वतम् । यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं च पितामहम्
॥४६॥द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् । दृष्टे तस्मिन्न् अहं दृष्टो न मेऽत्रास्ति विचारणा
॥४७॥पितामहो वासुदेव इति वित्त तपोधनाः । स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति
॥४८॥तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति । यस् तु तं मानवो लोके संश्रयिष्यति केशवम्
॥४९॥तस्य कीर्तिर् यशश् चैव स्वर्गश् चैव भविष्यति । धर्माणां देशिकः साक्षाद् भविष्यति स धर्मवान्
॥५०॥धर्मविद्भिः स देवेशो नमस्कार्यः सदाच्युतः । धर्म एव सदा हि स्याद् अस्मिन्न् अभ्यर्चिते विभौ
॥५१॥स हि देवो महातेजाः प्रजाहितचिकीर्षया । धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज च
॥५२॥ताः सृष्टास् तेन विधिना पर्वते गन्धमादने । सनत्कुमारप्रमुखास् तिष्ठन्ति तपसान्विताः
॥५३॥तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः । वन्दितो हि स वन्देत मानितो मानयीत च
॥५४॥दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् । अर्चितश् चार्चयेन् नित्यं स देवो द्विजसत्तमाः
॥५५॥एवं तस्यानवद्यस्य विष्णोर् वै परमं तपः । आदिदेवस्य महतः सज्जनाचरितं सदा
॥५६॥भुवनेऽभ्यर्चितो नित्यं देवैर् अपि सनातनः । अभयेनानुरूपेण प्रपद्य तम् अनुव्रताः
॥५७॥कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा । यत्नवद्भिर् उपस्थाय द्रष्टव्यो देवकीसुतः
॥५८॥एष वै विहितो मार्गो मया वै मुनिसत्तमाः । तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः
॥५९॥महावराहं तं देवं सर्वलोकपितामहम् । अहं चैव नमस्यामि नित्यम् एव जगत्पतिम्
॥६०॥तत्र च त्रितयं दृष्टं भविष्यति न संशयः । समस्ता हि वयं देवास् तस्य देहे वसामहे
॥६१॥तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः । हली बल इति ख्यातो भविष्यति धराधरः
॥६२॥त्रिशिरास् तस्य देवस्य दृष्टोऽनन्त इति प्रभोः । सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली
॥६३॥अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः । स च शेषो विचरते परया वै मुदा युतः
॥६४॥अन्तर्वसति भोगेन परिरभ्य वसुन्धराम् । य एष विष्णुः सोऽनन्तो भगवान् वसुधाधरः
॥६५॥यो रामः स हृषीकेशोऽच्युतः सर्वधराधरः । ताव् उभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ
॥६६॥द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ । एष वोऽनुग्रहः प्रोक्तो मया पुण्यस् तपोधनाः । तद् भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः
॥६७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).