मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ८०

3
ब्रह्मपुराणम् · 80

अध्यायः ८०

ब्रह्मोवाच:

कुशावर्तस्य माहात्म्यम् अहं वक्तुं न ते क्षमः । तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः

॥१॥

कुशावर्तम् इति ख्यातं नराणां सर्वकामदम् । कुशेनावर्तितं यत्र गौतमेन महात्मना

॥२॥

कुशेनावर्तयित्वा तु आनयाम् आस तां मुनिः । तत्र स्नानं च दानं च पितॄणां तृप्तिदायकम्

॥३॥

नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् । तत्र स्नानादि यत् किञ्चित् करोति प्रयतो नरः

॥४॥

सर्वं तद् अक्षयं विद्यात् पितॄणां तृप्तिदायकम् । विश्रुतं त्रिषु लोकेषु कपोतं तीर्थम् उत्तमम्

॥५॥

तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् । तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः

॥६॥

हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान् । एवम्भूतः स पापात्मा क्रोधनोऽनृतभाषणः

॥७॥

भीषणाकृतिर् अत्युग्रो नीलाक्षो ह्रस्वबाहुकः । दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः

॥८॥

ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः । पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा

॥९॥

तस्य भार्या तथाभूता अपत्यान्य् अपि नारद । तया तु प्रेर्यमाणोऽसौ विवेश गहनं वनम्

॥१०॥

स जघान मृगान् पापः पक्षिणो बहुरूपिणः । पञ्जरे प्राक्षिपत् कांश्चिज् जीवमानांस् तथेतरान्

॥११॥

क्षुधया परितप्ताङ्गो विह्वलस् तृषया तथा । भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति

॥१२॥

ततोऽपराह्णे सम्प्राप्ते निवृत्ते मधुमाधवे । क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा

॥१३॥

ववौ वायुः साश्मवर्षो वारिधारातिभीषणः । स गच्छंल् लुब्धकः श्रान्तः पन्थानं नावबुध्यत

॥१४॥

जलं स्थलं गर्तम् अथो पन्थानम् अथवा दिशः । न बुबोध तदा पापः श्रान्तः शरणम् अप्य् अथ

॥१५॥

क्व गच्छामि क्व तिष्ठेयं किं करोमीत्य् अचिन्तयत् । सर्वेषां प्राणिनां प्राणान् आहर्ताहं यथान्तकः

॥१६॥

ममाप्य् अन्तकरं भूतं सम्प्राप्तं चाश्मवर्षणम् । त्रातारं नैव पश्यामि शिलां वा वृक्षम् अन्तिके

॥१७॥

एवं बहुविधं व्याधो विचिन्त्यापश्यद् अन्तिके । वने वनस्पतिम् इव नक्षत्राणां यथात्रिजम्

॥१८॥

मृगाणां च यथा सिंहम् आश्रमाणां गृहाधिपम् । इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम्

॥१९॥

श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् । तम् आश्रित्योपविष्टोऽभूत् क्लिन्नवासा स लुब्धकः

॥२०॥

स्मरन् भार्याम् अपत्यानि जीवेयुर् अथवा न वा । एतस्मिन्न् अन्तरे तत्र चास्तं प्राप्तो दिवाकरः

॥२१॥

तम् एव नगम् आश्रित्य कपोतो भार्यया सह । पुत्रपौत्रैः परिवृतो ह्य् आस्ते तत्र नगोत्तमे

॥२२॥

सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च । बहवो वत्सरा याता वसतस् तस्य पक्षिणः

॥२३॥

पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि । कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते

॥२४॥

भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः । तस्मिन् दिने दैववशात् कपोतश् च कपोतकी

॥२५॥

भक्ष्यार्थं तु उभौ यातौ कपोतो नगम् अभ्यगात् । सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते

॥२६॥

गृहीता लुब्धकेनाथ जीवमानेव वर्तते । कपोतकोऽप्य् अपत्यानि मातृहीनान्य् उदीक्ष्य च

॥२७॥

वर्षं च भीषणं प्राप्तम् अस्तं यातो दिवाकरः । स्वकोटरं तया हीनम् आलोक्य विललाप सः

॥२८॥

तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् । अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम्

॥२९॥

नाद्याप्य् आयाति कल्याणी मम हर्षविवर्धिनी । मम धर्मस्य जननी मम देहस्य चेश्वरी

॥३०॥

धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी । तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी

॥३१॥

सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा । नाद्याप्य् आयाति कल्याणी सम्प्रयातेऽपि भास्करे

॥३२॥

न जानाति व्रतं मन्त्रं दैवं धर्मार्थम् एव च । पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया

॥३३॥

नाद्याप्य् आयाति कल्याणी किं करोमि क्व यामि वा । किं मे गृहं काननं च तया हीनं हि दृश्यते

॥३४॥

तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् । नाद्याप्य् आयाति मे कान्ता यया गृहम् उदीरितम्

॥३५॥

विनानया न जीविष्ये त्यजे वापि प्रियां तनुम् । किं कुर्वन्तु त्व् अपत्यानि लुप्तधर्मस् त्व् अहं पुनः

॥३६॥

एवं विलपतस् तस्य भर्तुर् वाक्यं निशम्य सा । पञ्जरस्थैव सा वाक्यं भर्तारम् इदम् अब्रवीत्

॥३७॥

कपोतक्य् उवाच:

अत्राहम् अस्मि बद्धैव विवशास्मि खगोत्तम । आनीताहं लुब्धकेन बद्धा पाशैर् महामते

॥३८॥

धन्यास्म्य् अनुगृहीतास्मि पतिर् वक्ति गुणान् मम । सतो वाप्य् असतो वापि कृतार्थाहं न संशयः

॥३९॥

तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः । विपर्यये तु नारीणाम् अवश्यं नाशम् आप्नुयात्

॥४०॥

त्वं दैवं त्वं प्रभुर् मह्यं त्वं सुहृत् त्वं परायणम् । त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस् त्वम् एव च

॥४१॥

मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु । त्वत्प्रसादाच् च भुक्ता हि भोगाश् च विविधा मया । अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम्

॥४३॥

ब्रह्मोवाच:

इति श्रुत्वा प्रियावाक्यम् उत्ततार नगोत्तमात् । यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम्

॥४४॥

ताम् आगत्य प्रियां दृष्ट्वा मृतवच् चापि लुब्धकम् । मोचयामीति ताम् आह निश्चेष्टो लुब्धकोऽधुना

॥४५॥

मा मुञ्चस्व महाभाग ज्ञात्वा सम्बन्धम् अस्थिरम् । लुब्धानां खेचरा ह्य् अन्नं जीवो जीवस्य चाशनम्

॥४६॥

नापराधं स्मराम्य् अस्य धर्मबुद्धिं स्थिरां कुरु । गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः

॥४७॥

पतिर् एव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः । अभ्यागतम् अनुप्राप्तं वचनैस् तोषयन्ति ये

॥४८॥

तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् । तस्यान्नस्य प्रदानेन शक्रस् तृप्तिम् अवाप्नुयात्

॥४९॥

पितरः पादशौचेन अन्नाद्येन प्रजापतिः । तस्योपचाराद् वै लक्ष्मीर् विष्णुना प्रीतिम् आप्नुयात्

॥५०॥

शयने सर्वदेवास् तु तस्मात् पूज्यतमोऽतिथिः । अभ्यागतम् अनुश्रान्तं सूर्योढं गृहम् आगतम् । तं विद्याद् देवरूपेण सर्वक्रतुफलो ह्य् असौ

॥५१॥

अभ्यागतं श्रान्तम् अनुव्रजन्ति । देवाश् च सर्वे पितरोऽग्नयश् च । तस्मिन् हि तृप्ते मुदम् आप्नुवन्ति । गते निराशेऽपि च ते निराशाः

॥५२॥

तस्मात् सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज । कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर

॥५३॥

उपकारोऽपकारश् च प्रवराव् इति सम्मतौ । उपकारिषु सर्वोऽपि करोत्य् उपकृतिं पुनः

॥५४॥

अपकारिषु यः साधुः पुण्यभाक् स उदाहृतः

॥५५॥

कपोत उवाच:

आवयोर् अनुरूपं च त्वयोक्तं साधु मन्यसे । किन्तु वक्तव्यम् अप्य् अस्ति तच् छृणुष्व वरानने

॥५६॥

सहस्रं भरते कश्चिच् छतम् अन्यो दशापरः । आत्मानं च सुखेनान्यो वयं कष्टोदरम्भराः

॥५७॥

गर्तधान्यधनाः केचित् कुशूलधनिनोऽपरे । घटक्षिप्तधनाः केचिच् चञ्चुक्षिप्तधना वयम्

॥५८॥

पूजयामि कथं श्रान्तम् अभ्यागतम् इमं शुभे

॥५९॥

कपोत्य् उवाच:

अग्निर् आपः शुभा वाणी तृणकाष्ठादिकं च यत् । एतद् अप्य् अर्थिने देयं शीतार्तो लुब्धकस् त्व् अयम्

॥६०॥

ब्रह्मोवाच:

एतच् छ्रुत्वा प्रियावाक्यं वृक्षम् आरुह्य पक्षिराट् । आलोकयाम् आस तदा वह्निं दूरं ददर्श ह

॥६१॥

स तु गत्वा वह्निदेशं चञ्चुनोल्मुकम् आहरत् । पुरोऽग्निं ज्वालयाम् आस लुब्धकस्य कपोतकः

॥६२॥

शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः । अग्नौ निक्षेपयाम् आस निशीथे स कपोतराट्

॥६३॥

तम् अग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः । अवशानि स्वकाङ्गानि प्रताप्य सुखम् आप्तवान्

॥६४॥

क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी । मा मुञ्चस्व महाभाग इति भर्तारम् अब्रवीत्

॥६५॥

स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् । इष्टातिथीनां ये लोकास् तांस् त्वं प्राप्नुहि सुव्रत

॥६६॥

कपोत उवाच:

मयि तिष्ठति नैवायं तव धर्मो विधीयते । इष्टातिथिर् भवामीह अनुजानीहि मां शुभे

॥६७॥

ब्रह्मोवाच:

इत्य् उक्त्वाग्निं त्रिर् आवर्त्य स्मरन् देवं चतुर्भुजम् । विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम्

॥६८॥

यथासुखं जुषस्वेति वदन्न् अग्निं तथाविशत् । तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यम् अब्रवीत्

॥६९॥

लुब्धक उवाच:

अहो मानुषदेहस्य धिग् जीवितम् इदं मम । यद् इदं पक्षिराजेन मदर्थे साहसं कृतम्

॥७०॥

ब्रह्मोवाच:

एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यम् अब्रवीत्

॥७१॥

कपोतक्य् उवाच:

मां त्वं मुञ्च महाभाग दूरं यात्य् एष मे पतिः

॥७२॥

ब्रह्मोवाच:

तस्यास् तद् वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् । लुब्धको मोचयाम् आस तरसा भीतवत् तदा

॥७३॥

सापि प्रदक्षिणं कृत्वा पतिम् अग्निं तदा जगौ

॥७४॥

कपोत्य् उवाच:

स्त्रीणाम् अयं परो धर्मो यद् भर्तुर् अनुवेशनम् । वेदे च विहितो मार्गः सर्वलोकेषु पूजितः

॥७५॥

व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् । एवं त्व् अनुगता नारी सह भर्त्रा दिवं व्रजेत्

॥७६॥

तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति

॥७७॥

नमस्कृत्वा भुवं देवान् गङ्गां चापि वनस्पतीन् । आश्वास्य तान्य् अपत्यानि लुब्धकं वाक्यम् अब्रवीत्

॥७८॥

कपोत्य् उवाच:

त्वत्प्रसादान् महाभाग उपपन्नं ममेदृशम् । अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम्

॥७९॥

ब्रह्मोवाच:

इत्य् उक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् । प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत

॥८०॥

गगने सूर्यसङ्काशं विमानम् अतिशोभनम् । तदारूढौ सुरनिभौ दम्पती ददृशे ततः

॥८१॥

हर्षेण प्रोचतुर् उभौ लुब्धकं विस्मयान्वितम्

॥८२॥

दम्पती ऊचतुः:

गच्छावस् त्रिदशस्थानम् आपृष्टोऽसि महामते । आवयोः स्वर्गसोपानम् अतिथिस् त्वं नमोऽस्तु ते

॥८३॥

ब्रह्मोवाच:

विमानवरम् आरूढौ तौ दृष्ट्वा लुब्धकोऽपि सः । सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिर् अभाषत

॥८४॥

लुब्धक उवाच:

न त्यक्तव्यो महाभागौ देयं किञ्चिद् अजानते । अहम् अत्रातिथिर् मान्यो निष्कृतिं वक्तुम् अर्हथः

॥८५॥

दम्पती ऊचतुः:

गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय । तत्रैवाप्लवनात् पक्षं सर्वपापैर् विमोक्ष्यसे

॥८६॥

मुक्तपापः पुनस् तत्र गङ्गायाम् अवगाहने । अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि

॥८७॥

सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसम्भुवि । पुनर् आप्लवनाद् एव त्यक्त्वा देहं मलीमसम्

॥८८॥

विमानवरम् आरूढः स्वर्गं गन्तास्य् असंशयम्

॥८९॥

ब्रह्मोवाच:

तच् छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः । विमानवरम् आरूढो दिव्यरूपधरोऽभवत्

॥९०॥

दिव्यमाल्याम्बरधरः पूज्यमानोऽप्सरोगणैः । कपोतश् च कपोती च तृतीयो लुब्धकस् तथा । गङ्गायाश् च प्रभावेण सर्वे वै दिवम् आक्रमन्

॥९१॥

ततः प्रभृति तत् तीर्थं कापोतम् इति विश्रुतम् । तत्र स्नानं च दानं च पितृपूजनम् एव च

॥९२॥

जपयज्ञादिकं कर्म तद् आनन्त्याय कल्पते

॥९३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).