अध्यायः २०१
व्यास उवाच:
चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् । सुषेणं चारुगुप्तं च भद्रचारुं तथापरम्
॥१॥चारुविन्दं सुचारुं च चारुं च बलिनां वरम् । रुक्मिण्य् अजनयत् पुत्रान् कन्यां चारुमतीं तथा
॥२॥अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा
॥३॥देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी । मद्रराजसुता चान्या सुशीला शीलमण्डला
॥४॥सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । षोडशात्र सहस्राणि स्त्रीणाम् अन्यानि चक्रिणः
॥५॥प्रद्युम्नोऽपि महावीर्यो रुक्मिणस् तनयां शुभाम् । स्वयंवरस्थां जग्राह सापि तं तनयं हरेः
॥६॥तस्याम् अस्याभवत् पुत्रो महाबलपराक्रमः । अनिरुद्धो रणे रुद्धो वीर्योदधिर् अरिन्दमः
॥७॥तस्यापि रुक्मिणः पौत्रीं वरयाम् आस केशवः । दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा
॥८॥तस्या विवाहे रामाद्या यादवा हरिणा सह । रुक्मिणो नगरं जग्मुर् नाम्ना भोजकटं द्विजाः
॥९॥विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः । कलिङ्गराजप्रमुखा रुक्मिणं वाक्यम् अब्रुवन्
॥१०॥कलिङ्गादय ऊचुः:
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते
॥११॥व्यास उवाच:
तथेति तान् आह नृपान् रुक्मी बलसमन्वितः । सभायां सह रामेण चक्रे द्यूतं च वै तदा
॥१२॥सहस्रम् एकं निष्काणां रुक्मिणा विजितो बलः । द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः
॥१३॥ततो दश सहस्राणि निष्काणां पणम् आददे । बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः
॥१४॥ततो जहासाथ बलं कलिङ्गाधिपतिर् द्विजाः । दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः
॥१५॥रुक्म्य् उवाच:
अविद्योऽयं महाद्यूते बलभद्रः पराजितः । मृषैवाक्षावलेपत्वाद् योऽयं मेनेऽक्षकोविदम्
॥१६॥दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् । रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः
॥१७॥व्यास उवाच:
ततः कोपपरीतात्मा निष्ककोटिं हलायुधः । ग्लहं जग्राह रुक्मी च ततस् त्व् अक्षान् अपातयत्
॥१८॥अजयद् बलदेवोऽथ प्राहोच्चैस् तं जितं मया । ममेति रुक्मी प्राहोच्चैर् अलीकोक्तैर् अलं बलम्
॥१९॥त्वयोक्तोऽयं ग्लहः सत्यं न ममैषोऽनुमोदितः । एवं त्वया चेद् विजितं न मया विजितं कथम्
॥२०॥ततोऽन्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी । बलदेवस्य तं कोपं वर्धयन्ती महात्मनः
॥२१॥आकाशवाग् उवाच:
जितं तु बलदेवेन रुक्मिणा भाषितं मृषा । अनुक्त्वा वचनं किञ्चित् कृतं भवति कर्मणा
॥२२॥व्यास उवाच:
ततो बलः समुत्थाय क्रोधसंरक्तलोचनः । जघानाष्टापदेनैव रुक्मिणं स महाबलः
॥२३॥कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः । बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः
॥२४॥आकृष्य च महास्तम्भं जातरूपमयं बलः । जघान ये तत्पक्षास् तान् भूभृतः कुपितो बलः
॥२५॥ततो हाहाकृतं सर्वं पलायनपरं द्विजाः । तद् राजमण्डलं सर्वं बभूव कुपिते बले
॥२६॥बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः । नोवाच वचनं किञ्चिद् रुक्मिणीबलयोर् भयात्
॥२७॥ततोऽनिरुद्धम् आदाय कृतोद्वाहं द्विजोत्तमाः । द्वारकाम् आजगामाथ यदुचक्रं सकेशवम्
॥२८॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).