अध्यायः २३०
मुनय ऊचुः:
अस्माभिस् तु श्रुतं व्यास यत् त्वया समुदाहृतम् । प्रादुर्भावाश्रितं पुण्यं माया विष्णोश् च दुर्विदा
॥१॥श्रोतुम् इच्छामहे त्वत्तो यथावद् उपसंहृतिम् । महाप्रलयसञ्ज्ञां च कल्पान्ते च महामुने
॥२॥व्यास उवाच:
श्रूयतां भो मुनिश्रेष्ठा यथावद् अनुसंहृतिः । कल्पान्ते प्राकृते चैव प्रलये जायते यथा
॥३॥अहोरात्रं पितॄणां तु मासोऽब्दं त्रिदिवौकसाम् । चतुर्युगसहस्रे तु ब्रह्मणोऽहर् द्विजोत्तमाः
॥४॥कृतं त्रेता द्वापरं च कलिश् चेति चतुर्युगम् । दैवैर् वर्षसहस्रैस् तु तद् द्वादशाभिर् उच्यते
॥५॥चतुर्युगाण्य् अशेषाणि सदृशानि स्वरूपतः । आद्यं कृतयुगं प्रोक्तं मुनयोऽन्त्यं तथा कलिम्
॥६॥आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः । क्रियते चोपसंहारस् तथान्तेऽपि कलौ युगे
॥७॥मुनय ऊचुः:
कलेः स्वरूपं भगवन् विस्तराद् वक्तुम् अर्हसि । धर्मश् चतुष्पाद् भगवान् यस्मिन् वैकल्यम् ऋच्छति
॥८॥व्यास उवाच:
कलिस्वरूपं भो विप्रा यत् पृच्छध्वं ममानघाः । निबोधध्वं समासेन वर्तते यन् महत्तरम्
॥९॥वर्णाश्रमाचारवती प्रवृत्तिर् न कलौ नृणाम् । न साम+ऋग्यजुर्वेदविनिष्पादनहैतुकी
॥१०॥विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः । न पुत्रा धार्मिकाश् चैव न च वह्निक्रियाक्रमः
॥११॥यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ । सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः
॥१२॥येन तेनैव योगेन द्विजातिर् दीक्षितः कलौ । यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ
॥१३॥सर्वम् एव कलौ शास्त्रं यस्य यद् वचनं द्विजाः । देवताश् च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः
॥१४॥उपवासस् तथायासो वित्तोत्सर्गस् तथा कलौ । धर्मो यथाभिरुचितैर् अनुष्ठानैर् अनुष्ठितः
॥१५॥वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ । स्त्रीणां रूपमदश् चैव केशैर् एव भविष्यति
॥१६॥सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते । कलौ स्त्रियो भविष्यन्ति तदा केशैर् अलङ्कृताः
॥१७॥परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः । भर्ता भविष्यति कलौ वित्तवान् एव योषिताम्
॥१८॥यो यो ददाति बहुलं स स स्वामी तदा नृणाम् । स्वामित्वहेतुसम्बन्धो भविताभिजनस् तदा
॥१९॥गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः । अर्थाश् चाथोपभोगान्ता भविष्यन्ति तदा कलौ
॥२०॥स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः
॥२१॥अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं तु मानवः । पणस्यार्धार्धमात्रेऽपि करिष्यति तदा द्विजाः
॥२२॥सदा सपौरुषं चेतो भावि विप्र तदा कलौ । क्षीरप्रदानसम्बन्धि भाति गोषु च गौरवम्
॥२३॥अनावृष्टिभयात् प्रायः प्रजाः क्षुद्भयकातराः । भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः
॥२४॥मूलपर्णफलाहारास् तापसा इव मानवाः । आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः
॥२५॥दुर्भिक्षम् एव सततं सदा क्लेशम् अनीश्वराः । प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ
॥२६॥अस्नातभोजिनो नाग्निदेवतातिथिपूजनम् । करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम्
॥२७॥लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः । बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः
॥२८॥उभाभ्याम् अथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः । कुर्वत्यो गुरुभर्तॄणाम् आज्ञां भेत्स्यन्त्य् अनावृताः
॥२९॥स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः । परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः
॥३०॥दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् । असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः
॥३१॥वेदादानं करिष्यन्ति वडवाश् च तथाव्रताः । गृहस्थाश् च न होष्यन्ति न दास्यन्त्य् उचितान्य् अपि
॥३२॥भवेयुर् वनवासा वै ग्राम्याहारपरिग्रहाः । भिक्षवश् चापि पुत्रा हि स्नेहसम्बन्धयन्त्रकाः
॥३३॥अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः । हारिणो जनवित्तानां सम्प्राप्ते च कलौ युगे
॥३४॥यो योऽश्वरथनागाढ्यः स स राजा भविष्यति । यश् च यश् चाबलः सर्वः स स भृत्यः कलौ युगे
॥३५॥वैश्याः कृषिवणिज्यादि सन्त्यज्य निजकर्म यत् । शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः
॥३६॥भैक्ष्यव्रतास् तथा शूद्राः प्रव्रज्यालिङ्गिनोऽधमाः । पाखण्डसंश्रयां वृत्तिम् आश्रयिष्यन्त्य् असंस्कृताः
॥३७॥दुर्भिक्षकरपीडाभिर् अतीवोपद्रुता जनाः । गोधूमान्नयवान्नाद्यान् देशान् यास्यन्ति दुःखिताः
॥३८॥वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने । अधर्मवृद्ध्या लोकानाम् अल्पम् आयुर् भविष्यति
॥३९॥अशास्त्रविहितं घोरं तप्यमानेषु वै तपः । नरेषु नृपदोषेण बालमृत्युर् भविष्यति
॥४०॥भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी । नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ
॥४१॥पलितोद्गमश् च भविता तदा द्वादशवार्षिकः । न जीविष्यति वै कश्चित् कलौ वर्षाणि विंशतिम्
॥४२॥अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ । यतस् ततो विनश्यन्ति कालेनाल्पेन मानवाः
॥४३॥यदा यदा हि पाखण्डवृत्तिर् अत्रोपलक्ष्यते । तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः
॥४४॥यदा यदा सतां हानिर् वेदमार्गानुसारिणाम् । तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः
॥४५॥प्रारम्भाश् चावसीदन्ति यदा धर्मकृतां नृणाम् । तदानुमेयं प्राधान्यं कलेर् विप्रा विचक्षणैः
॥४६॥यदा यदा न यज्ञानाम् ईश्वरः पुरुषोत्तमः । इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम्
॥४७॥न प्रीतिर् वेदवादेषु पाखण्डेषु यदा रतिः । कलेर् वृद्धिस् तदा प्राज्ञैर् अनुमेया द्विजोत्तमाः
॥४८॥कलौ जगत्पतिं विष्णुं सर्वस्रष्टारम् ईश्वरम् । नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः
॥४९॥किं देवैः किं द्विजैर् वेदैः किं शौचेनाम्बुजल्पना । इत्य् एवं प्रलपिष्यन्ति पाखण्डोपहता नराः
॥५०॥अल्पवृष्टिश् च पर्जन्यः स्वल्पं सस्यफलं तथा । फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे
॥५१॥जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे
॥५२॥अणुप्रायाणि धान्यानि आजप्रायं तथा पयः । भविष्यति कलौ प्राप्त औशीरं चानुलेपनम्
॥५३॥श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ । शालाद्याहारिभार्याश् च सुहृदो मुनिसत्तमाः
॥५४॥कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् । इति चोदाहरिष्यन्ति श्वशुरानुगता नराः
॥५५॥वाङ्मनःकायजैर् दोषैर् अभिभूताः पुनः पुनः । नराः पापान्य् अनुदिनं करिष्यन्त्य् अल्पमेधसः
॥५६॥निःसत्यानाम् अशौचानां निर्ह्रीकाणां तथा द्विजाः । यद् यद् दुःखाय तत् सर्वं कलिकाले भविष्यति
॥५७॥निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते । तदा प्रविरलो विप्रः कश्चिल् लोके भविष्यति
॥५८॥तत्राल्पेनैव कालेन पुण्यस्कन्धम् अनुत्तमम् । करोति यः कृतयुगे क्रियते तपसा हि यः
॥५९॥मुनय ऊचुः:
कस्मिन् कालेऽल्पको धर्मो ददाति सुमहाफलम् । वक्तुम् अर्हस्य् अशेषेण श्रोतुं वाञ्छा प्रवर्तते
॥६०॥व्यास उवाच:
धन्ये कलौ भवेद् विप्रास् त्व् अल्पक्लेशैर् महत् फलम् । तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन् निबोधत
॥६१॥यत् कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत् । द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ
॥६२॥तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजाः । प्राप्नोति पुरुषस् तेन कलौ साध्व् इति भाषितुम्
॥६३॥ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् । यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम्
॥६४॥धर्मोत्कर्षम् अतीवात्र प्राप्नोति पुरुषः कलौ । स्वल्पायासेन धर्मज्ञास् तेन तुष्टोऽस्म्य् अहं कलौ
॥६५॥व्रतचर्यापरैर् ग्राह्या वेदाः पूर्वं द्विजातिभिः । ततस् तु धर्मसम्प्राप्तैर् यष्टव्यं विधिवद् धनैः
॥६६॥वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् । पतनाय तथा भाव्यं तैस् तु संयतिभिः सह
॥६७॥असम्यक्करणे दोषास् तेषां सर्वेषु वस्तुषु । भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः
॥६८॥पारतन्त्र्यात् समस्तेषु तेषां कार्येषु वै ततः । लोकान् क्लेशेन महता यजन्ति विनयान्विताः
॥६९॥द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् । निजं जयति वै लोकं शूद्रो धन्यतरस् ततः
॥७०॥भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः । नियमो मुनिशार्दूलास् तेनासौ साध्व् इतीरितम्
॥७१॥स्वधर्मस्याविरोधेन नरैर् लभ्यं धनं सदा । प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि
॥७२॥तस्यार्जने महान् क्लेशः पालनेन द्विजोत्तमाः । तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम्
॥७३॥एभिर् अन्यैस् तथा क्लेशैः पुरुषा द्विजसत्तमाः । निजाञ् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात्
॥७४॥योषिच् छुश्रूषणाद् भर्तुः कर्मणा मनसा गिरा । एतद् विषयम् आप्नोति तत्सालोक्यं यतो द्विजाः
॥७५॥नातिक्लेशेन महता तान् एव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्व् इति योषितः
॥७६॥एतद् वः कथितं विप्रा यन्निमित्तम् इहागताः । तत् पृच्छध्वं यथाकामम् अहं वक्ष्यामि वः स्फुटम्
॥७७॥अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ । नरैर् आत्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः
॥७८॥शूद्रैश् च द्विजशुश्रूषातत्परैर् मुनिसत्तमाः । तथा स्त्रीभिर् अनायासात् पतिशुश्रूषयैव हि
॥७९॥ततस् त्रितयम् अप्य् एतन् मम धन्यतमं मतम् । धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु
॥८०॥तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः । धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः
॥८१॥भवद्भिर् यद् अभिप्रेतं तद् एतत् कथितं मया । अपृष्टेनापि धर्मज्ञाः किम् अन्यत् क्रियतां द्विजाः
॥८२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).