अध्यायः १९
लोमहर्षण उवाच:
उत्तरेण समुद्रस्य हिमाद्रेश् चैव दक्षिणे । वर्षं तद् भारतं नाम भारती यत्र सन्ततिः
॥१॥नवयोजनसाहस्रो विस्तारश् च द्विजोत्तमाः । कर्मभूमिर् इयं स्वर्गम् अपवर्गं च पृच्छताम्
॥२॥महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश् च पारियात्रश् च सप्तात्र कुलपर्वताः
॥३॥अतः सम्प्राप्यते स्वर्गो मुक्तिम् अस्मात् प्रयाति वै । तिर्यक्त्वं नरकं चापि यान्त्य् अतः पुरुषा द्विजाः
॥४॥इतः स्वर्गश् च मोक्षश् च मध्यं चान्ते च गच्छति । न खल्व् अन्यत्र मर्त्यानां कर्म भूमौ विधीयते
॥५॥भारतस्यास्य वर्षस्य नव भेदान् निशामय । इन्द्रद्वीपः कसेतुमांस् ताम्रपर्णो गभस्तिमान्
॥६॥नागद्वीपस् तथा सौम्यो गन्धर्वस् त्व् अथ वारुणः । अयं तु नवमस् तेषां द्वीपः सागरसंवृतः
॥७॥योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् । पूर्वे किरातास् तिष्ठन्ति पश्चिमे यवनाः स्थिताः
॥८॥ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च भागशः । इज्यायुद्धवणिज्याद्यवृत्तिमन्तो व्यवस्थिताः
॥९॥शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः । वेदस्मृतिमुखाश् चान्याः पारियात्रोद्भवा मुने
॥१०॥नर्मदासुरमाद्याश् च नद्यो विन्ध्यविनिःसृताः । तापीपयोष्णीनिर्विन्ध्याकावेरीप्रमुखा नदीः
॥११॥ऋक्षपादोद्भवा ह्य् एताः श्रुताः पापं हरन्ति याः । गोदावरीभीमरथीकृष्णवेण्यादिकास् तथा
॥१२॥सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः
॥१३॥त्रिसान्ध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः
॥१४॥आसां नद्युपनद्यश् च सन्त्य् अन्यास् तु सहस्रशः । तास्व् इमे कुरुपञ्चालमध्यदेशादयो जनाः
॥१५॥पूर्वदेशादिकाश् चैव कामरूपनिवासिनः । पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश् च सर्वशः
॥१६॥तथा परान्त्याः सौराष्ट्राः शूद्राभीरास् तथार्बुदाः । मारुका मालवाश् चैव पारियात्रनिवासिनः
॥१७॥सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः । मद्रारामास् तथाम्बष्ठाः पारसीकादयस् तथा
॥१८॥आसां पिबन्ति सलिलं वसन्ति सरितां सदा । समोपेता महाभाग हृष्टपुष्टजनाकुलाः
॥१९॥वसन्ति भारते वर्षे युगान्य् अत्र महामुने । कृतं त्रेता द्वापरं च कलिश् चान्यत्र न क्वचित्
॥२०॥तपस् तप्यन्ति यतयो जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थम् आदरात्
॥२१॥पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा
॥२२॥अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । यतो हि कर्मभूर् एषा यतोऽन्या भोगभूमयः
॥२३॥अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम । कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसञ्चयन्
॥२४॥गायन्ति देवाः किल गीतकानि । धन्यास् तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदहेतुभूते । भवन्ति भूयः पुरुषा मनुष्याः
॥२५॥कर्माण्य् असङ्कल्पिततत्फलानि । सन्न्यस्य विष्णौ परमात्मरूपे । अवाप्य तां कर्ममहीम् अनन्ते । तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति
॥२६॥जानीम नो तत्कूवयं विलीने । स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्यन्ति धन्याः खलु ते मनुष्या । ये भारतेनेन्द्रियविप्रहीनाः
॥२७॥नववर्षं च भो विप्रा जम्बूद्वीपम् इदं मया । लक्षयोजनविस्तारं सङ्क्षेपात् कथितं द्विजाः
॥२८॥जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । भो द्विजा वलयाकारः स्थितः क्षीरोदधिर् बहिः
॥२९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).