मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २१

3
ब्रह्मपुराणम् · 21

अध्यायः २१

लोमहर्षण उवाच:

विस्तार एष कथितः पृथिव्या मुनिसत्तमाः । सप्ततिस् तु सहस्राणि तदुच्छ्रायोऽपि कथ्यते

॥१॥

दशसाहस्रम् एकैकं पातालं मुनिसत्तमाः । अतलं वितलं चैव नितलं सुतलं तथा

॥२॥

तलातलं रसातलं पातालं चापि सप्तमम् । कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी

॥३॥

भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः । तेषु दानवदैतेयजातयः शतशः स्थिताः

॥४॥

नागानां च महाङ्गानां ज्ञातयश् च द्विजोत्तमाः । स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः

॥५॥

प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् । आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः

॥६॥

नागाभरणभूषाश् च पातालं केन तत्समम् । दैत्यदानवकन्याभिर् इतश् चेतश् च शोभिते

॥७॥

पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते । दिवार्करश्मयो यत्र प्रभास् तन्वन्ति नातपम्

॥८॥

शशिनश् च न शीताय निशि द्योताय केवलम् । भक्ष्यभोज्यमहापानमदमत्तैश् च भोगिभिः

॥९॥

यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः । वनानि नद्यो रम्याणि सरांसि कमलाकराः

॥१०॥

पुंस्कोकिलादिलापाश् च मनोज्ञान्य् अम्बराणि च । भूषणान्य् अतिरम्याणि गन्धाद्यं चानुलेपनम्

॥११॥

वीणावेणुमृदङ्गानां निःस्वनाश् च सदा द्विजाः । एतान्य् अन्यानि रम्याणि भाग्यभोग्यानि दानवैः

॥१२॥

दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः । पातालानाम् अधश् चास्ते विष्णोर् या तामसी तनुः

॥१३॥

शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः । योऽनन्तः पठ्यते सिद्धैर् देवदेवर्षिपूजितः

॥१४॥

सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । फणामणिसहस्रेण यः स विद्योतयन् दिशः

॥१५॥

सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान् । मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः

॥१६॥

किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः । नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः

॥१७॥

साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिर् इवोत्तमः । लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलम् उत्तमम्

॥१८॥

उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया । कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः

॥१९॥

सङ्कर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् । स बिभ्रच्छिखरीभूतम् अशेषं क्षितिमण्डलम्

॥२०॥

आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः । तस्य वीर्यं प्रभावश् च स्वरूपं रूपम् एव च

॥२१॥

नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैर् अपि । यस्यैषा सकला पृथ्वी फणामणिशिखारुणा

॥२२॥

आस्ते कुसुममालेव कस् तद्वीर्यं वदिष्यति । यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः

॥२३॥

तदा चलति भूर् एषा साद्रितोयाधिकानना । गन्धर्वाप्सरसः सिद्धाः किन्नरोरगवारणाः

॥२४॥

नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयम् अव्ययः । यस्य नागवधूहस्तैर् लापितं हरिचन्दनम्

॥२५॥

मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् । यम् आराध्य पुराणर्षिर् गर्गो ज्योतींषि तत्त्वतः

॥२६॥

ज्ञातवान् सकलं चैव निमित्तपठितं फलम् । तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति सकलांल् लोकान् सदेवासुरमानुषान्

॥२७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).