अध्यायः १०९
ब्रह्मोवाच:
चक्रतीर्थम् इति ख्यातं ब्रह्महत्यादिनाशनम् । यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः
॥१॥यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं प्रभुः । पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम्
॥२॥यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे
॥३॥दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे । अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे
॥४॥दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे । अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी
॥५॥पितरं नाशये पापं क्षमेयं न कथञ्चन । शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि
॥६॥पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः । यादृशस् तादृशो वापि पतिः स्त्रीणां परा गतिः
॥७॥किं पुनः सकलाधीशो महादेवो जगद्गुरुः । श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम्
॥८॥तस्मात् त्यक्ष्य इमं देहम् इत्य् उक्त्वा सा महासती । कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी
॥९॥शिवैकचेतना देहं बलाद् योगाच् च तत्यजे । महेश्वरोऽपि सकलं वृत्तम् आकर्ण्य नारदात्
॥१०॥दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा । ते ऊचतुर् उभे देवं दक्षक्रतुविनाशनम्
॥११॥दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः । भीमैर् गणैः परिवृतो भूतनाथैः समं ययौ
॥१२॥मखस् तैर् वेष्टितः सर्वो देवब्रह्मपुरस्कृतः । दक्षेण यजमानेन शुद्धभावेन रक्षितः
॥१३॥वसिष्ठादिभिर् अत्युग्रैर् मुनिभिः परिवारितः । इन्द्रादित्याद्यैर् वसुभिः सर्वतःपरिपालितः
॥१४॥ऋग्यजुःसामवेदैश् च स्वाहाशब्दैर् अलङ्कृतः । श्रद्धा पुष्टिस् तथा तुष्टिः शान्तिर् लज्जा सरस्वती
॥१५॥भूमिर् द्यौः शर्वरी क्षान्तिर् उषा आशा जया मतिः । एताभिश् च तथान्याभिः सर्वतः समलङ्कृतः
॥१६॥त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा । सुरभिर् नन्दिनी धेनुः कामधुक् कामदोहिनी
॥१७॥एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् । कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः
॥१८॥यद् यद् इष्टतमं किञ्चित् तत्र तस्मिन् मखे स्थितम् । स्वयं मघवता पूष्णा हरिणा परिरक्षितः
॥१९॥दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् । एतैश् च सर्वतो वाक्यैर् दक्षस्य पूजितं मखम्
॥२०॥आदौ तु वीरभद्रोऽसौ भद्रकाल्या युतो ययौ । शोककोपपरीतात्मा पश्चाच् छूलपिनाकधृक्
॥२१॥अभ्याययौ महादेवो महाभूतैर् अलङ्कृतः । तानि भूतानि परितो मखे वेष्ट्य महेश्वरम्
॥२२॥क्रतुं विध्वंसयाम् आसुस् तत्र क्षोभो महान् अभूत् । पलायन्त ततः केचित् केचिद् गत्वा ततः शिवम्
॥२३॥केचित् स्तुवन्ति देवेशं केचित् कुप्यन्ति शङ्करम् । एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात्
॥२४॥पूष्णो दन्तान् अथोत्पाट्य इन्द्रं व्यद्रावयत् क्षणात् । भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत्
॥२५॥दिवाकरं पुनर् दोर्भ्यां परिभ्राम्य समाक्षिपत् । ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः
॥२६॥देवा ऊचुः:
त्राहि त्राहि गदापाणे भूतनाथकृताद् भयात् । महेश्वरगणः कश्चित् प्रमथानां तु नायकः । तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः
॥२७॥ब्रह्मोवाच:
हरिणा चक्रम् उत्सृष्टं भूतनाथवधं प्रति । भूतनाथोऽपि तच् चक्रम् आपतच् च तदाग्रसत्
॥२८॥ग्रस्ते चक्रे ततो विष्णोर् लोकपाला भयाद् ययुः । तथा स्थितान् अवेक्ष्याथ दक्षो यज्ञं सुरान् अपि । तुष्टाव शङ्करं देवं दक्षो भक्त्या प्रजापतिः
॥२९॥दक्ष उवाच:
जय शङ्कर सोमेश जय सर्वज्ञ शम्भवे । जय कल्याणभृच् छम्भो जय कालात्मने नमः
॥३०॥आदिकर्तर् नमस् तेऽस्तु नीलकण्ठ नमोऽस्तु ते । ब्रह्मप्रिय नमस् तेऽस्तु ब्रह्मरूप नमोऽस्तु ते
॥३१॥त्रिमूर्तये नमो देव त्रिधाम परमेश्वर । सर्वमूर्ते नमस् तेऽस्तु त्रैलोक्याधार कामद
॥३२॥नमो वेदान्तवेद्याय नमस् ते परमात्मने । यज्ञरूप नमस् तेऽस्तु यज्ञधाम नमोऽस्तु ते
॥३३॥यज्ञदान नमस् तेऽस्तु हव्यवाह नमोऽस्तु ते । यज्ञहर्त्रे नमस् तेऽस्तु फलदाय नमोऽस्तु ते
॥३४॥त्राहि त्राहि जगन्नाथ शरणागतवत्सल । भक्तानाम् अप्य् अभक्तानां त्वम् एव शरणं प्रभो
॥३५॥ब्रह्मोवाच:
एवं तु स्तुवतस् तस्य प्रसन्नोऽभून् महेश्वरः । किं ददामीति तं प्राह क्रतुः पूर्णोऽस्तु मे प्रभो
॥३६॥तथेत्य् उवाच भगवान् देवदेवो महेश्वरः । शङ्करः सर्वभूतात्मा करुणावरुणालयः
॥३७॥क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने । एवम् उक्त्वा स भगवान् भूतैर् अन्तरधीयत
॥३८॥यथागतं सुरा जग्मुः स्वम् एव सदनं प्रति । ततः कदाचिद् देवानां दैत्यानां विग्रहो महान्
॥३९॥बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् । तुष्टुवुः सर्वभावेन वचोभिस् तं जनार्दनम्
॥४०॥देवा ऊचुः:
शक्रादयोऽपि त्रिदशाः कटाक्षम् । अवेक्ष्य यस्यास् तप आचरन्ति । सा चापि यत्पादरता च लक्ष्मीस् । तं ब्रह्मभूतं शरणं प्रपद्ये
॥४१॥यस्मात् त्रिलोक्यां न परः समानो । न चाधिकस् तार्क्ष्यरथान् नृसिंहात् । स देवदेवोऽवतु नः समस्तान् । महाभयेभ्यः कृपया प्रपन्नान्
॥४२॥ब्रह्मोवाच:
ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः । किमर्थम् आगताः सर्वे तत्कर्तास्मीत्य् उवाच तान्
॥४३॥देवा ऊचुः:
भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन । ततस् त्राणाय देवानां मतिं कुरु जनार्दन
॥४४॥ब्रह्मोवाच:
तान् आगतान् हरिः प्राह ग्रस्तं चक्रं हरेण मे । किं करोमि गतं चक्रं भवन्तश् चार्तिम् आगताः । यान्तु सर्वे देवगणा रक्षा वः क्रियते मया
॥४६॥ब्रह्मोवाच:
ततो गतेषु देवेषु विष्णुश् चक्रार्थम् उद्यतः । गोदावरीं ततो गत्वा शम्भोः पूजां प्रचक्रमे
॥४७॥सुवर्णकमलैर् दिव्यैः सुगन्धैर् दशभिः शतैः । भक्तितो नित्यवत् पूजां चक्रे विष्णुर् उमापतेः
॥४८॥एवं सम्पूज्यमाने तु तयोस् तत्त्वम् इदं शृणु । कमलानां सहस्रे तु यदैकं नैव पूर्यते
॥४९॥तदासुरारिः स्वं नेत्रम् उत्पाट्यार्घ्यम् अकल्पयत् । अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् । ध्यात्वा शम्भुं ददाव् अर्घ्यम् अनन्यशरणो हरिः
॥५०॥विष्णुर् उवाच:
त्वम् एव देव जानीषे भावम् अन्तर्गतं नृणाम् । त्वम् एव शरणोऽधीशोऽत्र का भवेद् विचारणा
॥५१॥ब्रह्मोवाच:
वदन्न् उदश्रुनयनो निलिल्येऽसाव् इतीश्वरे । भवानीसहितः शम्भुः पुरस्ताद् अभवत् तदा
॥५२॥गाढम् आलिङ्ग्य विविधैर् वरैर् आपूरयद् धरिम् । तद् एव चक्रम् अभवन् नेत्रं चापि यथा पुरा
॥५३॥ततः सुरगणाः सर्वे तुष्टुवुर् हरिशङ्करौ । गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम्
॥५४॥ततः प्रभृति तत् तीर्थं चक्रतीर्थम् इति स्मृतम् । यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः
॥५५॥तत्र स्नानं च दानं च यः कुर्यात् पितृतर्पणम् । सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग् भवेत् । तत् तु चक्राङ्कितं तीर्थम् अद्यापि परिदृश्यते
॥५६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).