अध्यायः २०२
व्यास उवाच:
द्वारवत्यां ततः शौरिं शक्रस् त्रिभुवनेश्वरः । आजगामाथ मुनयो मत्तैरावतपृष्ठगः
॥१॥प्रविश्य द्वारकां सोऽथ समीपे च हरेस् तदा । कथयाम् आस दैत्यस्य नरकस्य विचेष्टितम्
॥२॥इन्द्र उवाच:
त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता । प्रशमं सर्वदुःखानि नीतानि मधुसूदन
॥३॥तपस्विजनरक्षायै सोऽरिष्टो धेनुकस् तथा । प्रलम्बाद्यास् तथा केशी ते सर्वे निहतास् त्वया
॥४॥कंसः कुवलयापीडः पूतना बालघातिनी । नाशं नीतास् त्वया सर्वे येऽन्ये जगदुपद्रवाः
॥५॥युष्मद्दोर्दण्डसम्बुद्धिपरित्राते जगत्त्रये । यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः
॥६॥सोऽहं साम्प्रतम् आयातो यन्निमित्तं जनार्दन । तच् छ्रुत्वा तत्प्रतीकारप्रयत्नं कर्तुम् अर्हसि
॥७॥भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । करोति सर्वभूतानाम् अपघातम् अरिन्दम
॥८॥देवसिद्धसुरादीनां नृपाणां च जनार्दन । हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे
॥९॥छत्त्रं यत् सलिलस्रावि तज् जहार प्रचेतसः । मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम्
॥१०॥अमृतस्राविणी दिव्ये मातुर् मेऽमृतकुण्डले । जहार सोऽसुरोऽदित्या वाञ्छत्य् ऐरावतं द्विपम्
॥११॥दुर्नीतम् एतद् गोविन्द मया तस्य तवोदितम् । यद् अत्र प्रतिकर्तव्यं तत् स्वयं परिमृश्यताम्
॥१२॥व्यास उवाच:
इति श्रुत्वा स्मितं कृत्वा भगवान् देवकीसुतः । गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात्
॥१३॥सञ्चिन्तितम् उपारुह्य गरुडं गगनेचरम् । सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम्
॥१४॥आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम् । ततो जगाम सुमनाः पश्यतां द्वारकौकसाम्
॥१५॥प्राग्ज्योतिषपुरस्यास्य समन्ताच् छतयोजनम् । आचितं भैरवैः पाशैः परसैन्यनिवारणे
॥१६॥तांश् चिच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् । ततो मुरः समुत्तस्थौ तं जघान च केशवः
॥१७॥मुरोस् तु तनयान् सप्त सहस्रास् तांस् ततो हरिः । चक्रधाराग्निनिर्दग्धांश् चकार शलभान् इव
॥१८॥हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः । प्राग्ज्योतिषपुरं धीमांस् त्वरावान् समुपाद्रवत्
॥१९॥नरकेनास्य तत्राभून् महासैन्येन संयुगः । कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्रशः
॥२०॥शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली । क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा
॥२१॥हते तु नरके भूमिर् गृहीत्वादितिकुण्डले । उपतस्थे जगन्नाथं वाक्यं चेदम् अथाब्रवीत्
॥२२॥धरण्य् उवाच:
यदाहम् उद्धृता नाथ त्वया शूकरमूर्तिना । त्वत्संस्पर्शभवः पुत्रस् तदायं मय्य् अजायत
॥२३॥सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः । गृहाण कुण्डले चेमे पालयास्य च सन्ततिम्
॥२४॥भारावतरणार्थाय ममैव भगवान् इमम् । अंशेन लोकम् आयातः प्रसादसुमुख प्रभो
॥२५॥त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽव्ययः । जगत्स्वरूपो यश् च त्वं स्तूयसेऽच्युत किं मया
॥२६॥व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान् सदा । सर्वभूतात्मभूतात्मा स्तूयसेऽच्युत किं मया
॥२७॥परमात्मा त्वम् आत्मा च भूतात्मा चाव्ययो भवान् । यदा तदा स्तुतिर् नास्ति किमर्थं ते प्रवर्तताम्
॥२८॥प्रसीद सर्वभूतात्मन् नरकेन कृतं च यत् । तत् क्षम्यताम् अदोषाय मत्सुतः स निपातितः
॥२९॥व्यास उवाच:
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः । रत्नानि नरकावासाज् जग्राह मुनिसत्तमाः
॥३०॥कन्यापुरे स कन्यानां षोडशातुलविक्रमः । शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः
॥३१॥चतुर्दंष्ट्रान् गजांश् चोग्रान् षट् सहस्राणि दृष्टवान् । काम्बोजानां तथाश्वानां नियुतान्य् एकविंशतिम्
॥३२॥कन्यास् ताश् च तथा नागांस् तान् अश्वान् द्वारकां पुरीम् । प्रापयाम् आस गोविन्दः सद्यो नरककिङ्करैः
॥३३॥ददृशे वारुणं छत्त्रं तथैव मणिपर्वतम् । आरोपयाम् आस हरिर् गरुडे पतगेश्वरे
॥३४॥आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् । अदित्याः कुण्डले दातुं जगाम त्रिदशालयम्
॥३५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).