मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २४१

3
ब्रह्मपुराणम् · 241

अध्यायः २४१

मुनय ऊचुः:

किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः । किंस्वित् तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः

॥१॥

अक्षराक्षरयोर् व्यक्तिं पृच्छामस् त्वां महामुने । उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुङ्गव

॥२॥

त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः । ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः

॥३॥

तद् एतच् छ्रोतुम् इच्छामस् त्वत्तः सर्वं महामते । न तृप्तिम् अधिगच्छामः शृण्वन्तोऽमृतम् उत्तमम्

॥४॥

व्यास उवाच:

अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् । वसिष्ठस्य च संवादं करालजनकस्य च

॥५॥

वसिष्ठं श्रेष्ठम् आसीनम् ऋषीणां भास्करद्युतिम् । पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्

॥६॥

परमात्मनि कुशलम् अध्यात्मगतिनिश्चयम् । मैत्रावरुणिम् आसीनम् अभिवाद्य कृताञ्जलिः

॥७॥

स्वच्छन्दं सुकृतं चैव मधुरं चाप्य् अनुल्बणम् । पप्रच्छर्षिवरं राजा करालजनकः पुरा

॥८॥

करालजनक उवाच:

भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम् । यस्मिन् न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः

॥९॥

यच् च तत् क्षरम् इत्य् उक्तं यत्रेदं क्षरते जगत् । यच् चाक्षरम् इति प्रोक्तं शिवं क्षेमम् अनामयम्

॥१०॥

वसिष्ठ उवाच:

श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् । यत्र क्षरति पूर्वेण यावत्कालेन चाप्य् अथ

॥११॥

युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् । दशकल्पशतावर्तम् अहस् तद् ब्राह्मम् उच्यते

॥१२॥

रात्रिश् चैतावती राजन् यस्यान्ते प्रतिबुध्यते । सृजत्य् अनन्तकर्माणि महान्तं भूतम् अग्रजम्

॥१३॥

मूर्तिमन्तम् अमूर्तात्मा विश्वं शम्भुः स्वयम्भुवः । यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम

॥१४॥

अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम् । सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्

॥१५॥

सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति । हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतिः

॥१६॥

महान् इति च योगेषु विरिञ्चिर् इति चाप्य् अथ । साङ्ख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः

॥१७॥

विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः । धृतम् एकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना

॥१८॥

तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः । एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना

॥१९॥

प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम् । अहङ्कारं महातेजाः प्रजापतिनमस्कृतम्

॥२०॥

अव्यक्ताद् व्यक्तिम् आपन्नं विद्यासर्गं वदन्ति तम् । महान्तं चाप्य् अहङ्कारम् अविद्यासर्ग एव च

॥२१॥

अचरश् च चरश् चैव समुत्पन्नौ तथैकतः । विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः

॥२२॥

भूतसर्गम् अहङ्कारात् तृतीयं विद्धि पार्थिव । अहङ्कारेषु नृपते चतुर्थं विद्धि वैकृतम्

॥२३॥

वायुर् ज्योतिर् अथाकाशम् आपोऽथ पृथिवी तथा । शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च

॥२४॥

एवं युगपद् उत्पन्नं दशवर्गम् असंशयम् । पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थकृत्

॥२५॥

श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् । वाग् हस्तौ चैव पादौ च पायुर् मेढ्रं तथैव च

॥२६॥

बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । सम्भूतानीह युगपन् मनसा सह पार्थिव

॥२७॥

एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते । यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास् तत्त्वदर्शिनः

॥२८॥

एवम् एतत् समुत्पन्नं त्रैलोक्यम् इदम् उत्तमम् । वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे

॥२९॥

सयक्षभूतगन्धर्वे सकिन्नरमहोरगे । सचारणपिशाचे वै सदेवर्षिनिशाचरे

॥३०॥

सदंशकीटमशके सपूतिकृमिमूषके । शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे

॥३१॥

हस्त्यश्वखरशार्दूले सवृके गवि चैव ह । या च मूर्तिश् च यत् किञ्चित् सर्वत्रैतन् निदर्शनम्

॥३२॥

जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः । स्थानं देहवताम् आसीद् इत्य् एवम् अनुशुश्रुम

॥३३॥

कृत्स्नम् एतावतस् तात क्षरते व्यक्तसञ्ज्ञकः । अहन्य् अहनि भूतात्मा यच् चाक्षर इति स्मृतम्

॥३४॥

ततस् तत् क्षरम् इत्य् उक्तं क्षरतीदं यथा जगत् । जगन् मोहात्मकं चाहुर् अव्यक्ताद् व्यक्तसञ्ज्ञकम्

॥३५॥

महांश् चैवाक्षरो नित्यम् एतत् क्षरविवर्जनम् । कथितं ते महाराज यस्मान् नावर्तते पुनः

॥३६॥

पञ्चविंशतिकोऽमूर्तः स नित्यस् तत्त्वसञ्ज्ञकः । सत्त्वसंश्रयणात् तत्त्वं सत्त्वम् आहुर् मनीषिणः

॥३७॥

यद् अमूर्तिः सृजद् व्यक्तं तन् मूर्तिम् अधितिष्ठति । चतुर्विंशतिमो व्यक्तो ह्य् अमूर्तिः पञ्चविंशकः

॥३८॥

स एव हृदि सर्वासु मूर्तिष्व् आतिष्ठतात्मवान् । चेतयंश् चेतनो नित्यं सर्वमूर्तिर् अमूर्तिमान्

॥३९॥

सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः । गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञितः

॥४०॥

एवम् एष महात्मा च सर्गप्रलयकोटिशः । विकुर्वाणः प्रकृतिमान् नाभिमन्येत बुद्धिमान्

॥४१॥

तमःसत्त्वरजोयुक्तस् तासु तास्व् इह योनिषु । लीयते प्रतिबुद्धत्वाद् अबुद्धजनसेवनात्

॥४२॥

सहवासनिवासत्वाद् बालोऽहम् इति मन्यते । योऽहं न सोऽहम् इत्य् उक्तो गुणान् एवानुवर्तते

॥४३॥

तमसा तामसान् भावान् विविधान् प्रतिपद्यते । रजसा राजसांश् चैव सात्त्विकान् सत्त्वसंश्रयात्

॥४४॥

शुक्ललोहितकृष्णानि रूपाण्य् एतानि त्रीणि तु । सर्वाण्य् एतानि रूपाणि जानीहि प्राकृतानि तु

॥४५॥

तामसा निरयं यान्ति राजसा मानुषान् अथ । सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः

॥४६॥

निष्केवलेन पापेन तिर्यग्योनिम् अवाप्नुयात् । पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः

॥४७॥

एवम् अव्यक्तविषयं मोक्षम् आहुर् मनीषिणः । पञ्चविंशतिमो योऽयं ज्ञानाद् एव प्रवर्तते

॥४८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).