मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २१४

3
ब्रह्मपुराणम् · 214

अध्यायः २१४

मुनय ऊचुः:

न तृप्तिम् अधिगच्छामः पुण्यधर्मामृतस्य च । मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः

॥१॥

उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् । वेत्सि सर्वं मुने तेन पृच्छामस् त्वां महामतिम्

॥२॥

श्रूयते यमलोकस्य मार्गः परमदुर्गमः । दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः

॥३॥

कथं तेन नरा यान्ति मार्गेण यमसादनम् । प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर

॥४॥

मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वम् अशेषतः । कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने

॥५॥

केनोपायेन दानेन धर्मेण नियमेन च । मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम्

॥६॥

कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा । स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च

॥७॥

कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः । किं रूपं किं प्रमाणं वा को वर्णस् तूभयोर् अपि । जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः

॥८॥

व्यास उवाच:

शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः । संसारचक्रम् अजरं स्थितिर् यस्य न विद्यते

॥९॥

सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् । उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति

॥१०॥

स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः । यमलोकस्य चाध्वानम् अन्तरं मानुषस्य च

॥११॥

योजनानां सहस्राणि षडशीतिस् तद् अन्तरम् । तप्तताम्रम् इवातप्तं तद् अध्वानम् उदाहृतम्

॥१२॥

तद् अवश्यं हि गन्तव्यं प्राणिभिर् जीवसञ्ज्ञकैः । पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतोऽधमाः

॥१३॥

द्वाविंशतिश् च नरका यमस्य विषये स्थिताः । येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक्

॥१४॥

नरको रौरवो रौद्रः शूकरस् ताल एव च । कुम्भीपाको महाघोरः शाल्मलोऽथ विमोहनः

॥१५॥

कीटादः कृमिभक्षश् च नालाभक्षो भ्रमस् तथा । नद्यः पूयवहाश् चान्या रुधिराम्भस् तथैव च

॥१६॥

अग्निज्वालो महाघोरः सन्दंशः शुनभोजनः । घोरा वैतरणी चैव असिपत्त्रवनं तथा

॥१७॥

न तत्र वृक्षच्छाया वा न तडागाः सरांसि च । न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा

॥१८॥

न मण्डपो नायतनं न नद्यो न च पर्वताः । न किञ्चिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि

॥१९॥

यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः । अवश्यम् एव गन्तव्यः स सर्वैस् तु महापथः

॥२०॥

प्राप्ते काले तु सन्त्यज्य सुहृद्बन्धुधनादिकम् । जरायुजाण्डजाश् चैव स्वेदजाश् चोद्भिजास् तथा

॥२१॥

जङ्गमाजङ्गमाश् चैव गमिष्यन्ति महापथम् । देवासुरमनुष्यैश् च वैवस्वतवशानुगैः

॥२२॥

स्त्रीपुन्नपुंसकैश् चैव पृथिव्यां जीवसञ्ज्ञितैः । पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः

॥२३॥

सन्ध्याकालेऽर्धरात्रे वा प्रत्यूषे वाप्य् उपस्थिते । वृद्धैर् वा मध्यमैर् वापि यौवनस्थैस् तथैव च

॥२४॥

गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः । प्रवासस्थैर् गृहस्थैर् वा पर्वतस्थैः स्थलेऽपि वा

॥२५॥

क्षेत्रस्थैर् वा जलस्थैर् वा गृहमध्यगतैस् तथा । आसीनैश् चास्थितैर् वापि शयनीयगतैस् तथा

॥२६॥

जाग्रद्भिर् वा प्रसुप्तैर् वा गन्तव्यः स महापथः । इहानुभूय निर्दिष्टम् आयुर् जन्तुः स्वयं तदा

॥२७॥

तस्यान्ते च स्वयं प्राणैर् अनिच्छन्न् अपि मुच्यते । जलम् अग्निर् विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः

॥२८॥

निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते । विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम्

॥२९॥

अन्यच् छरीरम् आदत्ते यातनीयं स्वकर्मजम् । दृढं शरीरम् आप्नोति सुखदुःखोपभुक्तये

॥३०॥

तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् । सुखानि धार्मिको हृष्ट इह नीतो यमक्षये

॥३१॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः

॥३२॥

उदानो नाम पवनस् ततश् चोर्ध्वं प्रवर्तते । भुज्यताम् अम्बुभक्ष्याणाम् अधोगतिनिरोधकृत्

॥३३॥

ततो येनाम्बुदानानि कृतान्य् अन्नरसास् तथा । दत्ताः स तस्याम् आह्लादम् आपदि प्रतिपद्यते

॥३४॥

अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । सोऽपि तृप्तिम् अवाप्नोति विनाप्य् अन्नेन वै तदा

॥३५॥

येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । आस्तिकः श्रद्दधानश् च सुखमृत्युं स गच्छति

॥३६॥

देवब्राह्मणपूजायां निरताश् चानसूयकाः । शुक्ला वदान्या ह्रीमन्तस् ते नराः सुखमृत्यवः

॥३७॥

यः कामान् नापि संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत् । यथोक्तकारी सौम्यश् च स सुखं मृत्युम् ऋच्छति

॥३८॥

वारिदास् तृषितानां ये क्षुधितान्नप्रदायिनः । प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम्

॥३९॥

शीतं जयन्ति धनदास् तापं चन्दनदायिनः । प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः

॥४०॥

मोहं ज्ञानप्रदातारस् तथा दीपप्रदास् तमः । कूटसाक्षी मृषावादी यो गुरुर् नानुशास्ति वै

॥४१॥

ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः । विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः

॥४२॥

आगच्छन्ति दुरात्मानो यमस्य पुरुषास् तथा । प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः

॥४३॥

क्रन्दत्य् अविरतः सोऽथ भ्रातृमातृपितृंस् तथा । सा तु वाग् अस्फुटा विप्रा एकवर्णा विभाव्यते

॥४४॥

दृष्टिर् विभ्राम्यते त्रासात् कासावृष्ट्य् अत्य् अथाननम् । ततः स वेदनाविष्टं तच् छरीरं विमुञ्चति

॥४५॥

वाय्वग्रसारी तद्रूपदेहम् अन्यत् प्रपद्यते । तत्कर्मयातनार्थे च न मातृपितृसम्भवम्

॥४६॥

तत्प्रमाणवयोवस्थासंस्थानैः प्राप्यते व्यथा । ततो दूतो यमस्याथ पाशैर् बध्नाति दारुणैः

॥४७॥

जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् । भूतैः सन्त्यक्तदेहस्य कण्ठप्राप्तानिलस्य च

॥४८॥

शरीराच् च्यावितो जीवो रोरवीति तथोल्बणम् । निर्गतो वायुभूतस् तु षाट्कौशिककलेवरे

॥४९॥

मातृभिः पितृभिश् चैव भ्रातृभिर् मातुलैस् तथा । दारैः पुत्रैर् वयस्यैश् च गुरुभिस् त्यज्यते भुवि

॥५०॥

दृश्यमानश् च तैर् दीनैर् अश्रुपूर्णेक्षणैर् भृशम् । स्वशरीरं समुत्सृज्य वायुभूतस् तु गच्छति

॥५१॥

अन्धकारम् अपारं च महाघोरं तमोवृतम् । सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम्

॥५२॥

दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् । दुरापम् अतिदुर्गं च पापिष्ठानां सदाहितम्

॥५३॥

कृष्यमाणाश् च तैर् भूतैर् याम्यैः पाशैस् तु संयताः । मुद्गरैस् ताड्यमानाश् च नीयन्ते तं महापथम्

॥५४॥

क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये । निनीषवः समायान्ति यमदूता भयङ्कराः

॥५५॥

आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च । उष्ट्रेषु वानरेष्व् अन्ये वृश्चिकेषु वृकेषु च

॥५६॥

उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः । श्येनशृगालम् आरूढाः सरघाकङ्कवाहनाः

॥५७॥

वराहपशुवेतालमहिषास्यास् तथा परे । नानारूपधरा घोराः सर्वप्राणिभयङ्कराः

॥५८॥

दीर्घमुष्काः करालास्या वक्रनासास् त्रिलोचनाः । महाहनुकपोलास्याः प्रलम्बदशनच्छदाः

॥५९॥

निर्गतैर् विकृताकारैर् दशनैर् अङ्कुरोपमैः । मांसशोणितदिग्धाङ्गा दंष्ट्राभिर् भृशम् उल्बणैः

॥६०॥

मुखैः पातालसदृशैर् ज्वलज्जिह्वैर् भयङ्करैः । नेत्रैः सुविकृताकारैर् ज्वलत्पिङ्गलचञ्चलैः

॥६१॥

मार्जारोलूकखद्योतशक्रगोपवद् उद्धतैः । केकरैः सङ्कुलैस् स्तब्धैर् लोचनैः पावकोपमैः

॥६२॥

भृशम् आभरणैर् भीमैर् आबद्धैर् भुजगोपमैः । शोणासरलगात्रैश् च मुण्डमालाविभूषितैः

॥६३॥

कण्ठस्थकृष्णसर्पैश् च फूत्काररवभीषणैः । वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर् भयङ्करैः

॥६४॥

बभ्रुपिङ्गललोलैश् च कद्रुश्मश्रुभिर् आवृताः । भुजदण्डैर् महाघोरैः प्रलम्बैः परिघोपमैः

॥६५॥

केचिद् द्विबाहवस् तत्र तथान्ये च चतुर्भुजाः । द्विरष्टबाहवश् चान्ये दशविंशभुजास् तथा

॥६६॥

असङ्ख्यातभुजाश् चान्ये केचिद् बाहुसहस्रिणः । आयुधैर् विकृताकारैः प्रज्वलद्भिर् भयानकैः

॥६७॥

शक्तितोमरचक्राद्यैः सुदीप्तैर् विविधायुधैः । पाशशृङ्खलदण्डैश् च भीषयन्तो महाबलाः

॥६८॥

आगच्छन्ति महारौद्रा मर्त्यानाम् आयुषः क्षये । ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास् तथा

॥६९॥

यत् तच् छरीरम् आदत्ते यातनीयं स्वकर्मजम् । तद् अस्य नीयते जन्तोर् यमस्य सदनं प्रति

॥७०॥

बद्ध्वा तत् कालपाशैश् च निगडैर् वज्रशृङ्खलैः । ताडयित्वा भृशं क्रुद्धैर् नीयते यमकिङ्करैः

॥७१॥

प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर् मुहुः । हा तात मातः पुत्रेति वदन्तं कर्मदूषितम्

॥७२॥

आहत्य निशितैः शूलैर् मुद्गरैर् निशितैर् घनैः । खड्गशक्तिप्रहारैश् च वज्रदण्डैः सुदारुणैः

॥७३॥

भर्त्स्यमानो महारावैर् वज्रशक्तिसमन्वितैः । एकैकशो भृशं क्रुद्धैस् ताडयद्भिः समन्ततः

॥७४॥

स मुह्यमानो दुःखार्तः प्रतपंश् च इतस् ततः । आकृष्य नीयते जन्तुर् अध्वानं सुभयङ्करैः

॥७५॥

कुशकण्टकवल्मीकशङ्कुपाषाणशर्करे । तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे

॥७६॥

प्रदीप्तादित्यतप्तेन दह्यमानस् तदंशुभिः । कृष्यते यमदूतैश् च शिवासन्नादभीषणैः

॥७७॥

विकृष्यमाणस् तैर् घोरैर् भक्ष्यमाणः शिवाशतैः । प्रयाति दारुणे मार्गे पापकर्मा यमालयम्

॥७८॥

क्वचिद् भीतैः क्वचित् त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित् । दुःखेनाक्रन्दमानैश् च गन्तव्यः स महापथः

॥७९॥

निर्भर्त्स्यमानैर् उद्विग्नैर् विद्रुतैर् भयविह्वलैः । कम्पमानशरीरैस् तु गन्तव्यं जीवसञ्ज्ञकैः

॥८०॥

कण्टकाकीर्णमार्गेण सन्तप्तसिकतेन च । दह्यमानैस् तु गन्तव्यं नरैर् दानविवर्जितैः

॥८१॥

मेदःशोणितदुर्गन्धैर् बस्तगात्रैश् च पूगशः । दग्धस्फुटत्वचाकीर्णैर् गन्तव्यं जीवघातकैः

॥८२॥

कूजद्भिः क्रन्दमानैश् च विक्रोशद्भिश् च विस्वरम् । वेदनार्तैश् च सद्भिश् च गन्तव्यं जीवघातकैः

॥८३॥

शक्तिभिर् भिन्दिपालैश् च खड्गतोमरसायकैः । भिद्यद्भिस् तीक्ष्णशूलाग्रैर् गन्तव्यं जीवघातकैः

॥८४॥

श्वानैर् व्याघ्रैर् वृकैः कङ्कैर् भक्ष्यमाणैश् च पापिभिः

॥८५॥

कृन्तद्भिः क्रकचाघातैर् गन्तव्यं मांसखादिभिः । महिषर्षभशृङ्गाग्रैर् भिद्यमानैः समन्ततः

॥८६॥

उल्लिखद्भिः शूकरैश् च गन्तव्यं मांसखादकैः । सूचीभ्रमरकाकोलमक्षिकाभिश् च सङ्घशः

॥८७॥

भुज्यमानैश् च गन्तव्यं पापिष्ठैर् मधुघातकैः । विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस् तु घातयेत्

॥८८॥

शस्त्रैर् निकृत्यमानैश् च गन्तव्यं चातुरैर् नरैः । घातयन्ति च ये जन्तूंस् ताडयन्ति निरागसः

॥८९॥

राक्षसैर् भक्ष्यमाणास् ते यान्ति याम्यपथं नराः । ये हरन्ति परस्त्रीणां वरप्रावरणानि च

॥९०॥

ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् । वासो धान्यं हिरण्यं वा गृहक्षेत्रम् अथापि वा

॥९१॥

ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः । पाषाणैर् लगुडैर् दण्डैस् ताड्यमानैस् तु जर्जरैः

॥९२॥

वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् । ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः

॥९३॥

ताडयन्ति तथा विप्रान् आक्रोशन्ति नराधमाः । शुष्ककाष्ठनिबद्धास् ते छिन्नकर्णाक्षिनासिकाः

॥९४॥

पूयशोणितदिग्धास् ते कालगृध्रैश् च जम्बुकैः । किङ्करैर् भीषणैश् चण्डैस् ताड्यमानाश् च दारुणैः

॥९५॥

विक्रोशमाना गच्छन्ति पापिनस् ते यमालयम् । एवं परमदुर्धर्षम् अध्वानं ज्वलनप्रभम्

॥९६॥

रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च । प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत्

॥९७॥

कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः । शक्तिवज्रैश् च सङ्कीर्णम् उज्ज्वलं तीव्रकण्टकम्

॥९८॥

अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् । ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम्

॥९९॥

अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः । यदैव क्रन्दते जन्तुर् दुःखार्तः पतितः क्वचित्

॥१००॥

तदैवाहन्यते सर्वैर् आयुधैर् यमकिङ्करैः । एवं सन्ताड्यमानश् च लुब्धः पापेषु योऽनयः

॥१०१॥

अवशो नीयते जन्तुर् दुर्धरैर् यमकिङ्करैः । सर्वैर् एव हि गन्तव्यम् अध्वानं तत् सुदुर्गमम्

॥१०२॥

नीयते विविधैर् घोरैर् यमदूतैर् अवज्ञया । नीत्वा सुदारुणं मार्गं प्राणिनं यमकिङ्करैः

॥१०३॥

प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः । सा पुरी विपुलाकारा लक्षयोजनम् आयता

॥१०४॥

चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा । प्राकाराः काञ्चनास् तस्या योजनायुतम् उच्छ्रिताः

॥१०५॥

इन्द्रनीलमहानीलपद्मरागोपशोभिता । सा पुरी विविधैः सङ्घैर् घोरा घोरैः समाकुला

॥१०६॥

देवदानवगन्धर्वैर् यक्षराक्षसपन्नगैः । पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम्

॥१०७॥

वज्रेन्द्रनीलवैदूर्यमुक्ताफलविभूषितम् । गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः

॥१०८॥

प्रवेशस् तेन देवानाम् ऋषीणां योगिनां तथा । गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम्

॥१०९॥

उत्तरं नगरद्वारं घण्टाचामरभूषितम् । छत्त्रचामरविन्यासं नानारत्नैर् अलङ्कृतम्

॥११०॥

वीणारेणुरवै रम्यैर् गीतमङ्गलनादितैः । ऋग्यजुःसामनिर्घोषैर् मुनिवृन्दसमाकुलम्

॥१११॥

विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः । ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः

॥११२॥

श्रान्तसंवाहका ये च प्रियवादरताश् च ये । ये च दानरताः शूरा मातापितृपराश् च ये

॥११३॥

द्विजशुश्रूषणे युक्ता नित्यं येऽतिथिपूजकाः । पश्चिमं तु महाद्वारं पुर्या रत्नैर् विभूषितम्

॥११४॥

विचित्रमणिसोपानं तोमरैः समलङ्कृतम् । भेरीमृदङ्गसन्नादैः शङ्खकाहलनादितम्

॥११५॥

सिद्धवृन्दैः सदा हृष्टैर् मङ्गलैः प्रणिनादितम् । प्रवेशस् तेन हृष्टानां शिवभक्तिमतां नृणाम्

॥११६॥

सर्वतीर्थप्लुता ये च पञ्चाग्नेर् ये च सेवकाः । प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ

॥११७॥

अग्नौ विपन्ना ये वीराः साधितं यैर् अनाशकम् । ये स्वामिमित्रलोकार्थे गोग्रहे सङ्कुले हताः

॥११८॥

ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः । पुर्यां तस्या महाघोरं सर्वसत्त्वभयङ्करम्

॥११९॥

हाहाकारसमाक्रुष्टं दक्षिणं द्वारम् ईदृशम् । अन्धकारसमायुक्तं तीक्ष्णशृङ्गैः समन्वितम्

॥१२०॥

कण्टकैर् वृश्चिकैः सर्पैर् वज्रकीटैः सुदुर्गमैः । विलुम्पद्भिर् वृकैर् व्याघ्रैर् ऋक्षैः सिंहैः सजम्बुकैः

॥१२१॥

श्वानमार्जारगृध्रैश् च सज्वालकवलैर् मुखैः । प्रवेशस् तेन वै नित्यं सर्वेषाम् अपकारिणाम्

॥१२२॥

ये घातयन्ति विप्रान् गा बालं वृद्धं तथातुरम् । शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम्

॥१२३॥

येऽगम्यागामिनो मूढाः परद्रव्यापहारिणः । निक्षेपस्यापहर्तारो विषवह्निप्रदाश् च ये

॥१२४॥

परभूमिं गृहं शय्यां वस्त्रालङ्कारहारिणः । पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः

॥१२५॥

ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये । कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः

॥१२६॥

अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् । मातरं पितरं चैव ये वदन्ति च पौरुषम्

॥१२७॥

अन्ये ये चैव निर्दिष्टा महापातककारिणः । दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै

॥१२८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).