अध्यायः १९४
व्यास उवाच:
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर् हरिः
॥१॥मोहाय यदुचक्रस्य विततान स वैष्णवीम् । उवाच चाम्ब भोस् तात चिराद् उत्कण्ठितेन तु
॥२॥भवन्तौ कंसभीतेन दृष्टौ सङ्कर्षणेन च । कुर्वतां याति यः कालो मातापित्रोर् अपूजनम्
॥३॥स वृथा क्लेशकारी वै साधूनाम् उपजायते । गुरुदेवद्विजातीनां मातापित्रोश् च पूजनम्
॥४॥कुर्वतः सफलं जन्म देहिनस् तात जायते । तत् क्षन्तव्यम् इदं सर्वम् अतिक्रमकृतं पितः । कंसवीर्यप्रतापाभ्याम् आवयोः परवश्ययोः
॥५॥व्यास उवाच:
इत्य् उक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात् । पादानतिभिः सस्नेहं चक्रतुः पौरमानसम्
॥६॥कंसपत्न्यस् ततः कंसं परिवार्य हतं भुवि । विलेपुर् मातरश् चास्य शोकदुःखपरिप्लुताः
॥७॥बहुप्रकारम् अस्वस्थाः पश्चात्तापातुरा हरिः । ताः समाश्वासयाम् आस स्वयम् अस्राविलेक्षणः
॥८॥उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः । अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम्
॥९॥राज्येऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः । चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः
॥१०॥कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः । उवाचाज्ञापय विभो यत् कार्यम् अविशङ्कया
॥११॥ययातिशापाद् वंशोऽयम् अराज्यार्होऽपि साम्प्रतम् । मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः
॥१२॥इत्य् उक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह । नृवाचा चैव भगवान् केशवः कार्यमानुषः
॥१३॥श्रीकृष्ण उवाच:
गच्छेन्द्रं ब्रूहि वायो त्वम् अलं गर्वेण वासव । दीयताम् उग्रसेनाय सुधर्मा भवता सभा
॥१४॥कृष्णो ब्रवीति राजार्हम् एतद् रत्नम् अनुत्तमम् । सुधर्माख्या सभा युक्तम् अस्यां यदुभिर् आसितुम्
॥१५॥व्यास उवाच:
इत्य् उक्तः पवनो गत्वा सर्वम् आह शचीपतिम् । ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरन्दरः
॥१६॥वायुना चाहृतां दिव्यां ते सभां यदुपुङ्गवाः । बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः
॥१७॥विदिताखिलविज्ञानौ सर्वज्ञानमयाव् अपि । शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ
॥१८॥ततः सान्दीपनिं काश्यम् अवन्तिपुरवासिनम् । अस्त्रार्थं जग्मतुर् वीरौ बलदेवजनार्दनौ
॥१९॥तस्य शिष्यत्वम् अभ्येत्य गुरुवृत्तिपरौ हि तौ । दर्शयां चक्रतुर् वीराव् आचारम् अखिले जने
॥२०॥सरहस्यं धनुर्वेदं ससङ्ग्रहम् अधीयताम् । अहोरात्रैश् चतुःषष्ट्या तद् अद्भुतम् अभूद् द्विजाः
॥२१॥सान्दीपनिर् असम्भाव्यं तयोः कर्मातिमानुषम् । विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ
॥२२॥अस्त्रग्रामम् अशेषं च प्रोक्तमात्रम् अवाप्य तौ । ऊचतुर् व्रियतां या ते दातव्या गुरुदक्षिणा
॥२३॥सोऽप्य् अतीन्द्रियम् आलोक्य तयोः कर्म महामतिः । अयाचत मृतं पुत्रं प्रभासे लवणार्णवे
॥२४॥गृहीतास्त्रौ ततस् तौ तु गत्वा तं लवणोदधिम् । ऊचुतुश् च गुरोः पुत्रो दीयताम् इति सागरम्
॥२५॥कृताञ्जलिपुटश् चाब्धिस् ताव् अथ द्विजसत्तमाः । उवाच न मया पुत्रो हृतः सान्दीपनेर् इति
॥२६॥दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । जग्राह सोऽस्ति सलिले ममैवासुरसूदन
॥२७॥इत्य् उक्तोऽन्तर् जलं गत्वा हत्वा पञ्चजनं तथा । कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खम् उत्तमम्
॥२८॥यस्य नादेन दैत्यानां बलहानिः प्रजायते । देवानां वर्धते तेजो यात्य् अधर्मश् च सङ्क्षयम्
॥२९॥तं पाञ्चजन्यम् आपूर्य गत्वा यमपुरीं हरिः । बलदेवश् च बलवाञ् जित्वा वैवस्वतं यमम्
॥३०॥तं बालं यातनासंस्थं यथापूर्वशरीरिणम् । पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः
॥३१॥मथुरां च पुनः प्राप्ताव् उग्रसेनेन पालिताम् । प्रहृष्टपुरुषस्त्रीकाव् उभौ रामजनार्दनौ
॥३२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).