मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ६०

3
ब्रह्मपुराणम् · 60

अध्यायः ६०

ब्रह्मोवाच:

श्वेतमाधवम् आलोक्य समीपे मत्स्यमाधवम् । एकार्णवजले पूर्वं रोहितं रूपम् आस्थितम्

॥१॥

वेदानां हरणार्थाय रसातलतले स्थितम् । चिन्तयित्वा क्षितिं सम्यक् तस्मिन् स्थाने प्रतिष्ठितम्

॥२॥

आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् । प्रणम्य प्रणतो भूत्वा सर्वदुःखाद् विमुच्यते

॥३॥

प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् । काले पुनर् इहायातो राजा स्यात् पृथिवीतले

॥४॥

वत्समाधवम् आसाद्य दुराधर्षो भवेन् नरः । दाता भोक्ता भवेद् यज्वा वैष्णवः सत्यसङ्गरः

॥५॥

योगं प्राप्य हरेः पश्चात् ततो मोक्षम् अवाप्नुयात् । मत्स्यमाधवमाहात्म्यं मया सम्परिकीर्तितम् । यं दृष्ट्वा मुनिशार्दूलाः सर्वान् कामान् अवाप्नुयात्

॥६॥

मुनय ऊचुः:

भगवञ् श्रोतुम् इच्छामो मार्जनं वरुणालये । क्रियते स्नानदानादि तस्याशेषफलं वद

॥७॥

ब्रह्मोवाच:

शृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि । भक्त्या तु तन्मना भूत्वा सम्प्राप्य पुण्यम् उत्तमम्

॥८॥

मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते । चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम्

॥९॥

तद्वत् स्नानं समुद्रस्य सर्वकालं प्रशस्यते । पौर्णमास्यां विशेषेण हयमेधफलं लभेत्

॥१०॥

मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् । इन्द्रद्युम्नसरश् चैव पञ्चतीर्थीविधिः स्मृतः

॥११॥

पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् । तदा गच्छेद् विशेषेण तीर्थराजं परं शुभम्

॥१२॥

कायवाङ्मानसैः शुद्धस् तद्भावो नान्यमानसः । सर्वद्वन्द्वविनिर्मुक्तो वीतरागो विमत्सरः

॥१३॥

कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् । प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः

॥१४॥

यं दृष्ट्वा मुच्यते पापात् सप्तजन्मसमुद्भवात् । पुण्यं चाप्नोति विपुलं गतिम् इष्टां च भो द्विजाः

॥१५॥

तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे । यथासङ्ख्यं च भो विप्राः कृतादिषु यथाक्रमम्

॥१६॥

वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः । वटस्यैतानि नामानि कीर्तितानि कृतादिषु

॥१७॥

योजनं पादहीनं च योजनार्धं तदर्धकम् । प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम्

॥१८॥

यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् । दक्षिणाभिमुखो गच्छेद् धन्वन्तरशतत्रयम्

॥१९॥

यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् । सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम्

॥२०॥

प्रणिपत्य ततस् तं भोः परिपूज्य ततः पुनः । मुच्यते सर्वरोगाद्यैस् तथा पापैर् ग्रहादिभिः

॥२१॥

उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । गत्वाचम्य शुचिस् तत्र ध्यात्वा नारायणं परम्

॥२२॥

न्यसेद् अष्टाक्षरं मन्त्रं पश्चाद् धस्तशरीरयोः । ॐ नमो नारायणायेति यं वदन्ति मनीषिणः

॥२३॥

किं कार्यं बहुभिर् मन्त्रैर् मनोविभ्रमकारकैः । ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः

॥२४॥

आपो नरस्य सूनुत्वान् नारा इतीह कीर्तिताः । विष्णोस् तास् त्व् अयनं पूर्वं तेन नारायणः स्मृतः

॥२५॥

नारायणपरा वेदा नारायणपरा द्विजाः । नारायणपरा यज्ञा नारायणपराः क्रियाः

॥२६॥

नारायणपरा पृथ्वी नारायणपरं जलम् । नारायणपरो वह्निर् नारायणपरं नभः

॥२७॥

नारायणपरो वायुर् नारायणपरं मनः । अहङ्कारश् च बुद्धिश् च उभे नारायणात्मके

॥२८॥

भूतं भव्यं भविष्यं च यत् किञ्चिज् जीवसञ्ज्ञितम् । स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम्

॥२९॥

शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च । प्रकृतिः पुरुषश् चैव सर्वे नारायणात्मकाः

॥३०॥

जले स्थले च पाताले स्वर्गलोकेऽम्बरे नगे । अवष्टभ्य इदं सर्वम् आस्ते नारायणः प्रभुः

॥३१॥

किं चात्र बहुनोक्तेन जगद् एतच् चराचरम् । ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम्

॥३२॥

नारायणात् परं किञ्चिन् नेह पश्यामि भो द्विजाः । तेन व्याप्तम् इदं सर्वं दृश्यादृश्यं चराचरम्

॥३३॥

आपो ह्य् आयतनं विष्णोः स च एवाम्भसां पतिः । तस्माद् अप्सु स्मरेन् नित्यं नारायणम् अघापहम्

॥३४॥

स्नानकाले विशेषेण चोपस्थाय जले शुचिः । स्मरेन् नारायणं ध्यायेद् धस्ते काये च विन्यसेत्

॥३५॥

ओङ्कारं च नकारं च अङ्गुष्ठे हस्तयोर् न्यसेत् । शेषैर् हस्ततलं यावत् तर्जन्यादिषु विन्यसेत्

॥३६॥

ओङ्कारं वामपादे तु नकारं दक्षिणे न्यसेत् । मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत्

॥३७॥

राकारं नाभिदेशे तु यकारं वामबाहुके । णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत्

॥३८॥

अधश् चोर्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः । ध्यात्वा नारायणं पश्चाद् आरभेत् कवचं बुधः

॥३९॥

पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः । पश्चिमे श्रीधरो देवः केशवस् तु तथोत्तरे

॥४०॥

पातु विष्णुस् तथाग्नेये नैरृते माधवोऽव्ययः । वायव्ये तु हृषीकेशस् तथेशाने च वामनः

॥४१॥

भूतले पातु वाराहस् तथोर्ध्वं च त्रिविक्रमः । कृत्वैवं कवचं पश्चाद् आत्मानं चिन्तयेत् ततः

॥४२॥

अहं नारायणो देवः शङ्खचक्रगदाधरः । एवं ध्यात्वा तदात्मानम् इमं मन्त्रम् उदीरयेत्

॥४३॥

त्वम् अग्निर् द्विपदां नाथ रेतोधाः कामदीपनः । प्रधानः सर्वभूतानां जीवानां प्रभुर् अव्ययः

॥४४॥

अमृतस्यारणिस् त्वं हि देवयोनिर् अपां पते । वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते

॥४५॥

एवम् उच्चार्य विधिवत् ततः स्नानं समाचरेत् । अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते

॥४६॥

कृत्वा तु वैदिकैर् मन्त्रैर् अभिषेकं च मार्जनम् । अन्तर् जले जपेत् पश्चात् त्रिर् आवृत्त्याघमर्षणम्

॥४७॥

हयमेधो यथा विप्राः सर्वपापहरः क्रतुः । तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम्

॥४८॥

उत्तीर्य वाससी धौते निर्मले परिधाय वै । प्राणान् आयम्य चाचम्य सन्ध्यां चोपास्य भास्करम्

॥४९॥

उपतिष्ठेत् ततश् चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् । उपस्थायोर्ध्वबाहुश् च तल्लिङ्गैर् भास्करं ततः

॥५०॥

गायत्रीं पावनीं देवीं जपेद् अष्टोत्तरं शतम् । अन्यांश् च सौरमन्त्रांश् च जप्त्वा तिष्ठन् समाहितः

॥५१॥

कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च । स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद् दैवतान्य् ऋषीन्

॥५२॥

मनुष्यांश् च पितॄंश् चान्यान् नामगोत्रेण मन्त्रवित् । तोयेन तिलमिश्रेण विधिवत् सुसमाहितः

॥५३॥

तर्पणं देवतानां च पूर्वं कृत्वा समाहितः । अधिकारी भवेत् पश्चात् पितॄणां तर्पणे द्विजः

॥५४॥

श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् । तर्पणे तूभयं कुर्याद् एष एव विधिः सदा

॥५५॥

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । तृप्यताम् इति सिञ्चेत् तु नामगोत्रेण वाग्यतः

॥५६॥

कायस्थैर् यस् तिलैर् मोहात् करोति पितृतर्पणम् । तर्पितास् तेन पितरस् त्वङ्मांसरुधिरास्थिभिः

॥५७॥

अङ्गस्थैर् न तिलैः कुर्याद् देवतापितृतर्पणम् । रुधिरं तद् भवेत् तोयं प्रदाता किल्बिषी भवेत्

॥५८॥

भूम्यां यद् दीयते तोयं दाता चैव जले स्थितः । वृथा तन् मुनिशार्दूला नोपतिष्ठति कस्यचित्

॥५९॥

स्थले स्थित्वा जले यस् तु प्रयच्छेद् उदकं नरः । पितॄणां नोपतिष्ठेत सलिलं तन् निरर्थकम्

॥६०॥

उदके नोदकं कुर्यात् पितृभ्यश् च कदाचन । उत्तीर्य तु शुचौ देशे कुर्याद् उदकतर्पणम्

॥६१॥

नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते

॥६२॥

पितॄणाम् अक्षयं स्थानं मही दत्ता मया द्विजाः । तस्मात् तत्रैव दातव्यं पितॄणां प्रीतिम् इच्छता

॥६३॥

भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः । भूम्यां चैव लयं याता भूमौ दद्यात् ततो जलम्

॥६४॥

आस्तीर्य च कुशान् साग्रांस् तान् आवाह्य स्वमन्त्रतः । प्राचीनाग्रेषु वै देवान् याम्याग्रेषु तथा पितॄन्

॥६५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).