अध्यायः ६४
ब्रह्मोवाच:
यदा भवेन् महाज्यैष्ठी राशिनक्षत्रयोगतः । प्रयत्नेन तदा मर्त्यैर् गन्तव्यं पुरुषोत्तमम्
॥१॥कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः । नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम्
॥२॥प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये । गङ्गाद्वारे कुशावर्ते गङ्गासागरसङ्गमे
॥३॥कोकामुखे शूकरे च मथुरायां मरुस्थले । शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे
॥४॥पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः । शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे
॥५॥लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने । कामालये कोटितीर्थे तथा चामरकण्टके
॥६॥लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके । उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके
॥७॥एकाम्रके च केदारे काश्यां च विरजे द्विजाः । कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने
॥८॥महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये । सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा
॥९॥गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः । सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु
॥१०॥गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा । तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः
॥११॥वितस्ता चन्द्रभागा च शतद्रुर् बाहुदा तथा । ऋषिकुल्या कुमारी च विपाशा च दृषद्वती
॥१२॥शरयूर् नाकगङ्गा च गण्डकी च महानदी । कौशिकी करतोया च त्रिस्रोता मधुवाहिनी
॥१३॥महानदी वैतरणी याश् चान्या नानुकीर्तिताः । अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः
॥१४॥पृथिव्यां सर्वतीर्थेषु सर्वेष्व् आयतनेषु च । सागरेषु च शैलेषु नदीषु च सरःसु च
॥१५॥यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे । तत् फलं कृष्णम् आलोक्य महाज्यैष्ठ्यां लभेन् नरः
॥१६॥तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे । महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः
॥१७॥दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह । विष्णुलोकं नरो याति समुद्धृत्य समं कुलम्
॥१८॥भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् । पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत्
॥१९॥स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः । वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्
॥२०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).