अध्यायः १३६
ब्रह्मोवाच:
विष्णुतीर्थम् इति ख्यातं तत्र वृत्तम् इदं शृणु । मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः
॥१॥तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी । पिता ऋषिस् तथा वृद्धो मुद्गलो लोकविश्रुतः
॥२॥तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा । स मौद्गल्यः प्रातर् एव गङ्गां स्नाति यतव्रतः
॥३॥नित्यम् एव त्व् इदं कर्म तस्यासीन् मुनिसत्तम । गङ्गातीरे कुशैर् मृद्भिः शमीपुष्पैर् अहर्निशम्
॥४॥गुरूदितेन मार्गेण स्वमानससरोरुहे । आवाहनं नित्यम् एव विष्णोश् चक्रे स मौद्गलिः
॥५॥तेनाहूतस् त्वरन्न् एति लक्ष्मीभर्ता जगत्पतिः । वैनतेयम् अथारुह्य शङ्खचक्रगदाधरः
॥६॥पूजितस् तेन ऋषिणा स मौद्गल्येन यत्नतः । प्रब्रूते च कथाश् चित्रा मौद्गल्याय जगत्प्रभुः
॥७॥ततोऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् । याहि वत्स स्वभवनं श्रान्तोऽसीति पुनः पुनः
॥८॥एवम् उक्तः स देवेन विष्णुना याति स द्विजः । जगत्प्रभुस् ततो याति देवैर् युक्तः स्वमन्दिरम्
॥९॥मौद्गल्योऽपि तथाभ्येत्य किञ्चिद् आदाय नित्यशः । स्वम् एव भवनं विद्वान् भार्यायै स्वार्जितं धनम्
॥१०॥ददाति स महाविष्णुचरणाब्जपरायणः । मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा
॥११॥शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः । सुसंस्कृत्याप्य् अतिथीनां बालानां भर्तुर् एव च
॥१२॥दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता । भुक्तवत्स्व् अथ सर्वेषु रात्रौ नित्यं स मौद्गलिः
॥१३॥विष्णोः श्रुताः कथाश् चित्रास् तेभ्यो वक्त्य् अथ हर्षितः । एवं बहुतिथे काले व्यतीते चातिविस्मिता । मौद्गल्यस्य रहो भार्या भर्तारं वाक्यम् अब्रवीत्
॥१४॥जाबालोवाच:
यदि ते विष्णुर् अभ्येति समीपं त्रिदशार्चितः । तथापि कष्टम् अस्माकं कस्माद् इति जगत्प्रभुम्
॥१५॥तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुर् एति च । यस्मिंश् च स्मृतमात्रे तु जराजन्मरुजो मृतिः । नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम्
॥१६॥ब्रह्मोवाच:
तथेत्य् उक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम् । पूजयित्वा विनीतश् च पप्रच्छ स कृताञ्जलिः
॥१७॥मौद्गल्य उवाच:
त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् । नाशं याति विपत्तिर् मे त्वयि दृष्टे कथं स्थिता
॥१८॥श्रीविष्णुर् उवाच:
स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा । न कोपि कस्यचित् किञ्चित् करोत्य् अत्र हिताहिते
॥१९॥यादृशं चोप्यते बीजं फलं भवति तादृशम् । रसालः स्यान् न निम्बस्य बीजाज् जात्व् अपि कुत्रचित्
॥२०॥न कृता गौतमीसेवा नार्चितौ हरिशङ्करौ । न दत्तं यैश् च विप्रेभ्यस् ते कथं भाजनं श्रियः
॥२१॥त्वया न दत्तं किञ्चिच् च ब्राह्मणेभ्यो ममापि च । यद् दीयते तद् एवेह परस्मिंश् चोपतिष्ठति
॥२२॥मृद्भिर् वार्भिः कुशैर् मन्त्रैः शुचिकर्म सदैव यत् । करोति तस्मात् पूतात्मा शरीरस्य च शोषणात्
॥२३॥विना दानेन न क्वापि भोगावाप्तिर् नृणां भवेत् । सत्कर्माचरणाच् छुद्धो विरक्तः स्यात् ततो नरः
॥२४॥ततोऽप्रतिहतज्ञानो जीवन्मुक्तस् ततो भवेत् । सर्वेषां सुलभा मुक्तिर् मद्भक्त्या चेह पूर्ततः
॥२५॥भुक्तिर् दानादिना सर्वभूतदुःखनिबर्हणात् । अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे
॥२६॥मौद्गल्य उवाच:
भक्त्या मुक्तिः कथं भूयाद् भुक्तेर् मुक्तिः सुदुर्लभा । जाता चेद् देहिनां मुक्तिः किम् अन्येन प्रयोजनम्
॥२७॥भक्त्या मुक्तिः सर्वपूज्या ताम् इच्छेयं जगन्मय
॥२८॥विष्णुर् उवाच:
एतद् एवान्तरं ब्रह्मन् दीयते माम् अनुस्मरन् । ब्राह्मणायाथवार्थिभ्यस् तद् एवाक्षयतां व्रजेत्
॥२९॥माम् अध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम् । तत् पुनर् दत्तम् एवेह न भोगायात्र कल्पते
॥३०॥तस्माद् देहि महाबुद्धे भोज्यं किञ्चिन् मम ध्रुवम् । अथवा विप्रमुख्याय गौतमीतीरम् आश्रितः
॥३१॥ब्रह्मोवाच:
मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते । नान्यत् किञ्चन देहादि यत् तत् त्वयि समर्पितम्
॥३२॥ततो विष्णुर् गरुत्मन्तं प्राह शीघ्रं जगत्पतिः । इहानयस्व कणिशं ममायं चार्पयिष्यति
॥३३॥ततो योग्यान् अयं भोगान् प्राप्स्यते मनसः प्रियान् । आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट्
॥३४॥विष्णुहस्ते कणान् प्रादात् स मौद्गल्यो यतव्रतः । एतस्मिन्न् अन्तरे विष्णुर् विश्वकर्माणम् अब्रवीत्
॥३५॥विष्णुर् उवाच:
यावच् चास्य कुले सप्त पुरुषास् तावद् एव तु । भवितारो महाबुद्धे तावत् कामा मनीषिताः । गावो हिरण्यं धान्यानि वस्त्राण्य् आभरणानि च
॥३६॥ब्रह्मोवाच:
यच् च किञ्चिन् मनःप्रीत्यै लोके भवति भूषणम् । तत् सर्वम् आप मौद्गल्यो विष्णुगङ्गाप्रभावतः
॥३७॥गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस् ततो ययौ । आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिर् अभाषत
॥३८॥ऋषिर् उवाच:
अहो दानप्रभावोऽयम् अहो विष्णोर् अनुस्मृतिः । अहो गङ्गाप्रभावश् च कैर् विचार्यो महान् अयम्
॥३९॥ब्रह्मोवाच:
मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश् च बन्धुभिः । पितृभ्यां बुभुजे भोगान् भुक्तिं मुक्तिम् अवाप च
॥४०॥ततः प्रभृति तत् तीर्थं मौद्गल्यं वैष्णवं तथा । तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम्
॥४१॥तत्र श्रुतिः स्मृतिर् वापि तीर्थस्य स्यात् कथञ्चन । तस्य विष्णुर् भवेत् प्रीतः पापैर् मुक्तः सुखी भवेत्
॥४२॥एकादश सहस्राणि तीर्थानां तीरयोर् द्वयोः । सर्वार्थदायिनां तत्र स्नानदानजपादिभिः
॥४३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).