मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ६

3
ब्रह्मपुराणम् · 6

अध्यायः ६

लोमहर्षण उवाच:

विवस्वान् कश्यपाज् जज्ञे दाक्षायण्यां द्विजोत्तमाः । तस्य भार्याभवत् सञ्ज्ञा त्वाष्ट्री देवी विवस्वतः

॥१॥

सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी । सा वै भार्या भगवतो मार्तण्डस्य महात्मनः

॥२॥

भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी । सञ्ज्ञा नाम सुतपसा सुदीप्तेन समन्विता

॥३॥

आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा । गात्रेषु परिदग्धं वै नातिकान्तम् इवाभवत्

॥४॥

न खल्व् अयं मृतोऽण्डस्य इति स्नेहाद् अभाषत । अजानन् काश्यपस् तस्मान् मार्तण्ड इति चोच्यते

॥५॥

तेजस् त्व् अभ्यधिकं तस्य नित्यम् एव विवस्वतः । येनातितापयाम् आस त्रींल् लोकान् कश्यपात्मजः

॥६॥

त्रीण्य् अपत्यानि भो विप्राः सञ्ज्ञायां तपतां वरः । आदित्यो जनयाम् आस कन्यां द्वौ च प्रजापती

॥७॥

मनुर् वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः । यमश् च यमुना चैव यमजौ सम्बभूवतुः

॥८॥

श्यामवर्णं तु तद् रूपं सञ्ज्ञा दृष्ट्वा विवस्वतः । असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः

॥९॥

मायामयी तु सा सञ्ज्ञा तस्यां छायासमुत्थिताम् । प्राञ्जलिः प्रणता भूत्वा छाया सञ्ज्ञां द्विजोत्तमाः

॥१०॥

उवाच किं मया कार्यं कथयस्व शुचिस्मिते । स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि

॥११॥

सञ्ज्ञोवाच:

अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः । त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया

॥१२॥

इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । सम्भाव्यास् ते न चाख्येयम् इदं भगवते क्वचित्

॥१३॥

सवर्णोवाच:

आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् । आख्यास्यामि नमस् तुभ्यं गच्छ देवि यथासुखम्

॥१४॥

लोमहर्षण उवाच:

समादिश्य सवर्णां तु तथेत्य् उक्ता तया च सा । त्वष्टुः समीपम् अगमद् व्रीडितेव तपस्विनी

॥१५॥

पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा । भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः

॥१६॥

आगच्छद् वडवा भूत्वा आच्छाद्य रूपम् अनिन्दिता । कुरून् अथोत्तरान् गत्वा तृणान्य् अथ चचार ह

॥१७॥

द्वितीयायां तु सञ्ज्ञायां सञ्ज्ञेयम् इति चिन्तयन् । आदित्यो जनयाम् आस पुत्रम् आत्मसमं तदा

॥१८॥

पूर्वजस्य मनोर् विप्राः सदृशोऽयम् इति प्रभुः । मनुर् एवाभवन् नाम्ना सावर्ण इति चोच्यते

॥१९॥

द्वितीयो यः सुतस् तस्याः स विज्ञेयः शनैश्चरः । सञ्ज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा

॥२०॥

चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै । मनुस् तस्याः क्षमत् तत् तु यमस् तस्या न चक्षमे

॥२१॥

स वै रोषाच् च बाल्याच् च भाविनोऽर्थस्य वानघ । पदा सन्तर्जयाम् आस सञ्ज्ञां वैवस्वतो यमः

॥२२॥

तं शशाप ततः क्रोधात् सावर्णजननी तदा । चरणः पतताम् एष तवेति भृशदुःखिता

॥२३॥

यमस् तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् । भृशं शापभयोद्विग्नः सञ्ज्ञावाक्यैर् विशङ्कितः

॥२४॥

शापोऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः । मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै

॥२५॥

सेयम् अस्मान् अपास्येह विवस्वन् सम्बुभूषति । तस्यां मयोद्यतः पादो न तु देहे निपातितः

॥२६॥

बाल्याद् वा यदि वा लौल्यान् मोहात् तत् क्षन्तुम् अर्हसि । शप्तोऽहम् अस्मि लोकेश जनन्या तपतां वर । तव प्रसादाच् चरणो न पतेन् मम गोपते

॥२७॥

विवस्वान् उवाच:

असंशयं पुत्र महद् भविष्यत्य् अत्र कारणम् । येन त्वाम् आविशत् क्रोधो धर्मज्ञं सत्यवादिनम्

॥२८॥

न शक्यम् एतन् मिथ्या तु कर्तुं मातृवचस् तव । कृमयो मांसम् आदाय यास्यन्त्य् अवनिम् एव च

॥२९॥

कृतम् एवं वचस् तथ्यं मातुस् तव भविष्यति । शापस्य परिहारेण त्वं च त्रातो भविष्यसि

॥३०॥

आदित्यश् चाब्रवीत् सञ्ज्ञां किमर्थं तनयेषु वै । तुल्येष्व् अभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया

॥३१॥

सा तत् परिहरन्ती तु नाचचक्षे विवस्वते । स चात्मानं समाधाय योगात् तथ्यम् अपश्यत

॥३२॥

तां शप्तुकामो भगवान् नाशपन् मुनिसत्तमाः । मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः

॥३३॥

ततः सर्वं यथावृत्तम् आचचक्षे विवस्वते । विवस्वान् अथ तच् छ्रुत्वा क्रुद्धस् त्वष्टारम् अभ्यगात्

॥३४॥

दृष्ट्वा तु तं यथान्यायम् अर्चयित्वा विभावसुम् । निर्दग्धुकामं रोषेण सान्त्वयाम् आस वै तदा

॥३५॥

त्वष्टोवाच:

तवातितेजसाविष्टम् इदं रूपं न शोभते । असहन्ती च सञ्ज्ञा सा वने चरति शाड्वले

॥३६॥

द्रष्टा हि तां भवान् अद्य स्वां भार्यां शुभचारिणीम् । श्लाघ्यां योगबलोपेतां योगम् आस्थाय गोपते

॥३७॥

अनुकूलं तु ते देव यदि स्यान् मम सम्मतम् । रूपं निर्वर्तयाम्य् अद्य तव कान्तम् अरिन्दम

॥३८॥

ततोऽभ्युपगमात् त्वष्टा मार्तण्डस्य विवस्वतः । भ्रमिम् आरोप्य तत् तेजः शातयाम् आस भो द्विजाः

॥३९॥

ततो निर्भासितं रूपं तेजसा संहतेन वै । कान्तात् कान्ततरं द्रष्टुम् अधिकं शुशुभे तदा

॥४०॥

ददर्श योगम् आस्थाय स्वां भार्यां वडवां ततः । अधृष्यां सर्वभूतानां तेजसा नियमेन च

॥४१॥

वडवावपुषा विप्राश् चरन्तीम् अकुतोभयाम् । सोऽश्वरूपेण भगवांस् तां मुखे समभावयत्

॥४२॥

मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया । सा तन् निरवमच् छुक्रं नासिकाभ्यां विवस्वतः

॥४३॥

देवौ तस्याम् अजायेताम् अश्विनौ भिषजां वरौ । नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् इति

॥४४॥

मार्तण्डस्यात्मजाव् एताव् अष्टमस्य प्रजापतेः । तां तु रूपेण कान्तेन दर्शयाम् आस भास्करः

॥४५॥

सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः । यमस् तु कर्मणा तेन भृशं पीडितमानसः

॥४६॥

धर्मेण रञ्जयाम् आस धर्मराज इमाः प्रजाः । स लेभे कर्मणा तेन शुभेन परमद्युतिः

॥४७॥

पितॄणाम् आधिपत्यं च लोकपालत्वम् एव च । मनुः प्रजापतिस् त्व् आसीत् सावर्णिः स तपोधनाः

॥४८॥

भाव्यः समागते तस्मिन् मनुः सावर्णिकेऽन्तरे । मेरुपृष्ठे तपो नित्यम् अद्यापि स चरत्य् उत

॥४९॥

भ्राता शनैश्चरस् तस्य ग्रहत्वं स तु लब्धवान् । त्वष्टा तु तेजसा तेन विष्णोश् चक्रम् अकल्पयत्

॥५०॥

तद् अप्रतिहतं युद्धे दानवान्तचिकीर्षया । यवीयसी तु साप्य् आसीद् यमी कन्या यशस्विनी

॥५१॥

अभवच् च सरिच्छ्रेष्ठा यमुना लोकपावनी । मनुर् इत्य् उच्यते लोके सावर्ण इति चोच्यते

॥५२॥

द्वितीयो यः सुतस् तस्य मनोर् भ्राता शनैश्चरः । ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः

॥५३॥

य इदं जन्म देवानां शृणुयान् नरसत्तमः । आपदं प्राप्य मुच्येत प्राप्नुयाच् च महद् यशः

॥५४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).