अध्यायः १५
लोमहर्षण उवाच:
क्रोष्टोर् अथाभवत् पुत्रो वृजिनीवान् महायशाः । वार्जिनीवतम् इच्छन्ति स्वाहिं स्वाहाकृतां वरम्
॥१॥स्वाहिपुत्रोऽभवद् राजा उषद्गुर् वदतां वरः । महाक्रतुभिर् ईजे यो विविधैर् भूरिदक्षिणैः
॥२॥ततः प्रसूतिम् इच्छन् वै उषद्गुः सोऽग्र्यम् आत्मजम् । जज्ञे चित्ररथस् तस्य पुत्रः कर्मभिर् अन्वितः
॥३॥आसीच् चैत्ररथिर् वीरो यज्वा विपुलदक्षिणः । शशबिन्दुः परं वृत्तं राजर्षीणाम् अनुष्ठितः
॥४॥पृथुश्रवाः पृथुयशा राजासीच् छाशिबिन्दवः । शंसन्ति च पुराणज्ञाः पार्थश्रवसम् अन्तरम्
॥५॥अन्तरस्य सुयज्ञस् तु सुयज्ञतनयोऽभवत् । उषतो यज्ञम् अखिलं स्वधर्मे च कृतादरः
॥६॥शिनेयुर् अभवत् पुत्र उषतः शत्रुतापनः । मरुतस् तस्य तनयो राजर्षिर् अभवन् नृपः
॥७॥मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् । चचार विपुलं धर्मम् अमर्षात् प्रत्यभाग् अपि
॥८॥स सत्प्रसूतिम् इच्छन् वै सुतं कम्बलबर्हिषः । बभूव रुक्मकवचः शतप्रसवतः सुतः
॥९॥निहत्य रुक्मकवचः शतं कवचिनां रणे । धन्विनां निशितैर् बाणैर् अवाप श्रियम् उत्तमाम्
॥१०॥जज्ञे च रुक्मकवचात् परजित् परवीरहा । जज्ञिरे पञ्च पुत्रास् तु महावीर्याः पराजिताः
॥११॥रुक्मेषुः पृथुरुक्मश् च ज्यामघः पालितो हरिः । पालितं च हरिं चैव विदेहेभ्यः पिता ददौ
॥१२॥रुक्मेषुर् अभवद् राजा पृथुरुक्मस्य संश्रयात् । ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसद् आश्रमे
॥१३॥प्रशान्तश् च तदा राजा ब्राह्मणैश् चावबोधितः । जगाम धनुर् आदाय देशम् अन्यं ध्वजी रथी
॥१४॥नर्मदाकूलम् एकाकीम् एकलां मृत्तिकावतीम् । ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्याम् उवास सः
॥१५॥ज्यामघस्याभवद् भार्या शैब्या बलवती सती । अपुत्रोऽपि स राजा वै नान्यां भार्याम् अविन्दत
॥१६॥तस्यासीद् विजयो युद्धे तत्र कन्याम् अवाप सः । भार्याम् उवाच सन्त्रस्तः स्नुषेति स जनेश्वरः
॥१७॥एतच् छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै । अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः
॥१८॥राजोवाच:
यस् ते जनिष्यते पुत्रस् तस्य भार्योपपादिता
॥१९॥लोमहर्षण उवाच:
उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत । पुत्रं विदर्भं सुभागा शैब्या परिणता सती
॥२०॥राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ । पश्चाद् विदर्भोऽजनयच् छूरौ रणविशारदौ
॥२१॥भीमो विदर्भस्य सुतः कुन्तिस् तस्यात्मजोऽभवत् । कुन्तेर् धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान्
॥२२॥धृष्टस्य जज्ञिरे शूरास् त्रयः परमधार्मिकाः । आवन्तश् च दशार्हश् च बली विषहरश् च सः
॥२३॥दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते । जीमूतपुत्रो विकृतिस् तस्य भीमरथः स्मृतः
॥२४॥अथ भीमरथस्यासीत् पुत्रो नवरथस् तथा । तस्य चासीद् दशरथः शकुनिस् तस्य चात्मजः
॥२५॥तस्मात् करम्भः कारम्भिर् देवरातोऽभवन् नृपः । देवक्षत्रोऽभवत् तस्य वृद्धक्षत्रो महायशाः
॥२६॥देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः । मधूनां वंशकृद् राजा मधुर् मधुरवाग् अपि
॥२७॥मधोर् जज्ञेऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः । ऐक्ष्वाकी चाभवद् भार्या मधोस् तस्यां व्यजायत
॥२८॥सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः । इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । युज्यते परमप्रीत्या प्रजावांश् च भवेत् सदा
॥२९॥लोमहर्षण उवाच:
सत्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् । भागिनं भजमानं च दिव्यं देवावृधं नृपम्
॥३०॥अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् । तेषां विसर्गाश् चत्वारो विस्तरेणेह कीर्तिताः
॥३१॥भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका । आस्तां भार्ये तयोस् तस्माज् जज्ञिरे बहवः सुताः
॥३२॥क्रिमिश् च क्रमणश् चैव धृष्टः शूरः पुरञ्जयः । एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे
॥३३॥आयुताजित् सहस्राजिच् छताजित् त्व् अथ दासकः । उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे
॥३४॥यज्वा देवावृधो राजा चचार विपुलं तपः । पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः
॥३५॥संयुज्यमानस् तपसा पर्णाशाया जलं स्पृशन् । सदोपस्पृशतस् तस्य चकार प्रियम् आपगा
॥३६॥चिन्तयाभिपरीता सा न जगामैव निश्चयम् । कल्याणत्वान् नरपतेस् तस्य सा निम्नगोत्तमा
॥३७॥नाध्यगच्छत् तु तां नारीं यस्याम् एवंविधः सुतः । भवेत् तस्मात् स्वयं गत्वा भवाम्य् अस्य सहानुगा
॥३८॥अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । वरयाम् आस नृपतिं ताम् इयेष च स प्रभुः
॥३९॥तस्याम् आधत्त गर्भं स तेजस्विनम् उदारधीः । अथ सा दशमे मासि सुषुवे सरितां वरा
॥४०॥पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः । अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम्
॥४१॥गुणान् देवावृधस्यापि कीर्तयन्तो महात्मनः । यथैवाग्रे तथा दूरात् पश्यामस् तावद् अन्तिकात्
॥४२॥बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः । षष्टिश् च षट् च पुरुषाः सहस्राणि च सप्त च
॥४३॥एतेऽमृतत्वं प्राप्ता वै बभ्रोर् देवावृधाद् अपि । यज्वा दानपतिर् धीमान् ब्रह्मण्यः सुदृढायुधः
॥४४॥तस्यान्ववायः सुमहान् भोजा ये सार्तिकावताः । अन्धकात् काश्यदुहिता चतुरोऽलभतात्मजान्
॥४५॥कुकुरं भजमानं च ससकं बलबर्हिषम् । कुकुरस्य सुतो वृष्टिर् वृष्टेस् तु तनयस् तथा
॥४६॥कपोतरोमा तस्याथ तिलिरिस् तनयोऽभवत् । जज्ञे पुनर् वसुस् तस्माद् अभिजिच् च पुनर् वसोः
॥४७॥तथा वै पुत्रमिथुनं बभूवाभिजितः किल । आहुकः श्राहुकश् चैव ख्यातौ ख्यातिमतां वरौ
॥४८॥इमां चोदाहरन्त्य् अत्र गाथां प्रति तम् आहुकम् । श्वेतेन परिवारेण किशोरप्रतिमो महान्
॥४९॥अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् । नापुत्रवान् नाशतदो नासहस्रशतायुषः
॥५०॥नाशुद्धकर्मा नायज्वा यो भोजम् अभितो व्रजेत् । पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल
॥५१॥सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् । रथानां मेघघोषाणां सहस्राणि दशैव तु
॥५२॥रौप्यकाञ्चनकक्षाणां सहस्राण्य् एकविंशतिः । तावत्य् एव सहस्राणि उत्तरस्यां तथा दिशि
॥५३॥आभूमिपाला भोजास् तु सन्ति ज्याकिङ्किणीकिनः । आहुः किं चाप्य् अवन्तिभ्यः स्वसारं ददुर् अन्धकाः
॥५४॥आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः । देवकश् चोग्रसेनश् च देवगर्भसमाव् उभौ
॥५५॥देवकस्याभवन् पुत्राश् चत्वारस् त्रिदशोपमाः । देववान् उपदेवश् च सन्देवो देवरक्षितः
॥५६॥कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ । देवकी शान्तिदेवा च सुदेवा देवरक्षिता
॥५७॥वृकदेव्य् उपदेवी च सुनाम्नी चैव सप्तमी । नवोग्रसेनस्य सुतास् तेषां कंसस् तु पूर्वजः
॥५८॥न्यग्रोधश् च सुनामा च तथा कङ्कः सुभूषणः । राष्ट्रपालोऽथ सुतनुर् अनावृष्टिस् तु पुष्टिमान्
॥५९॥तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा । सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना
॥६०॥उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः । कुकुराणाम् इमं वंशं धारयन्न् अमितौजसाम्
॥६१॥आत्मनो विपुलं वंशं प्रजावान् आप्नुयान् नरः
॥६२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).