अध्यायः २३
मुनय ऊचुः:
कथितं भवता सर्वम् अस्माकं सकलं तथा । भुवर्लोकादिकांल् लोकाञ् श्रोतुम् इच्छामहे वयम्
॥१॥तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । समाचक्ष्व महाभाग यथावल् लोमहर्षण
॥२॥लोमहर्षण उवाच:
रविचन्द्रमसोर् यावन् मयूखैर् अवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता
॥३॥यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला । नभस् तावत्प्रमाणं हि विस्तारपरिमण्डलम्
॥४॥भूमेर् योजनलक्षे तु सौरं विप्रास् तु मण्डलम् । लक्षे दिवाकराच् चापि मण्डलं शशिनः स्थितम्
॥५॥पूर्णे शतसहस्रे तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नम् उपरिष्टात् प्रकाशते
॥६॥द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः
॥७॥अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः
॥८॥सौरिर् बृहस्पतेर् ऊर्ध्वं द्विलक्षे समवस्थितः । सप्तर्षिमण्डलं तस्माल् लक्षम् एकं द्विजोत्तमाः
॥९॥ऋषिभ्यस् तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः । मेढीभूतः समस्तस्य ज्योतिश् चक्रस्य वै ध्रुवः
॥१०॥त्रैलोक्यम् एतत् कथितं सङ्क्षेपेण द्विजोत्तमाः । इज्याफलस्य भूर् एषा इज्या चात्र प्रतिष्ठिता
॥११॥ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः । एकयोजनकोटी तु महर्लोको विधीयते
॥१२॥द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्दनाद्याः कथिता विप्राश् चामलचेतसः
॥१३॥चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् । वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः
॥१४॥षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम्
॥१५॥पादगम्यं तु यत् किञ्चिद् वस्त्व् अस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः
॥१६॥भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् । भुवर्लोकस् तु सोऽप्य् उक्तो द्वितीयो मुनिसत्तमाः
॥१७॥ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश । स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः
॥१८॥त्रैलोक्यम् एतत् कृतकं विप्रैश् च परिपठ्यते । जनस् तपस् तथा सत्यम् इति चाकृतकं त्रयम्
॥१९॥कृतकाकृतको मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति
॥२०॥एते सप्त महालोका मया वः कथिता द्विजाः । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः
॥२१॥एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वम् अधस् तथा । कपित्थस्य यथा बीजं सर्वतो वै समावृतम्
॥२२॥दशोत्तरेण पयसा द्विजाश् चाण्डं च तद् वृतम् । स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः
॥२३॥वह्निस् तु वायुना वायुर् विप्रास् तु नभसावृतः । आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः
॥२४॥दशोत्तराण्य् अशेषाणि विप्राश् चैतानि सप्त वै । महान्तं च समावृत्य प्रधानं समवस्थितम्
॥२५॥अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते । तद् अनन्तम् असङ्ख्यातं प्रमाणेनापि वै यतः
॥२६॥हेतुभूतम् अशेषस्य प्रकृतिः सा परा द्विजाः । अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च
॥२७॥ईदृशानां तथा तत्र कोटिकोटिशतानि च । दारुण्य् अग्निर् यथा तैलं तिले तद्वत् पुमान् इह
॥२८॥प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः । प्रधानं च पुमांश् चैव सर्वभूतानुभूतया
॥२९॥विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ । तयोः सैव पृथग्भावे कारणं संश्रयस्य च
॥३०॥क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः । यथा शैत्यं जले वातो बिभर्ति कणिकागतम्
॥३१॥जगच् छक्तिस् तथा विष्णोः प्रधानपुरुषात्मकम् । यथा च पादपो मूलस्कन्धशाखादिसंयुतः
॥३२॥आद्यबीजात् प्रभवति बीजान्य् अन्यानि वै ततः । प्रभवन्ति ततस् तेभ्यो भवन्त्य् अन्ये परे द्रुमाः
॥३३॥तेऽपि तल्लक्षणद्रव्यकारणानुगता द्विजाः । एवम् अव्याकृतात् पूर्वं जायन्ते महदादयः
॥३४॥विशेषान्तास् ततस् तेभ्यः सम्भवन्ति सुरादयः । तेभ्यश् च पुत्रास् तेषां तु पुत्राणां परमे सुताः
॥३५॥बीजाद् वृक्षप्ररोहेण यथा नापचयस् तरोः । भूतानां भूतसर्गेण नैवास्त्य् अपचयस् तथा
॥३६॥सन्निधानाद् यथाकाशकालाद्याः कारणं तरोः । तथैवापरिणामेन विश्वस्य भगवान् हरिः
॥३७॥व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा । काण्डकोषास् तथा पुष्पं क्षीरं तद्वच् च तण्डुलः
॥३८॥तुषाः कणाश् च सन्तो वै यान्त्य् आविर्भावम् आत्मनः । प्ररोहहेतुसामग्र्यम् आसाद्य मुनिसत्तमाः
॥३९॥तथा कर्मस्व् अनेकेषु देवाद्यास् तनवः स्थिताः । विष्णुशक्तिं समासाद्य प्ररोहम् उपयान्ति वै
॥४०॥स च विष्णुः परं ब्रह्म यतः सर्वम् इदं जगत् । जगच् च यो यत्र चेदं यस्मिन् विलयम् एष्यति
॥४१॥तद् ब्रह्म परमं धाम सदसत् परमं पदम् । यस्य सर्वम् अभेदेन जगद् एतच् चराचरम्
॥४२॥स एव मूलप्रकृतिर् व्यक्तरूपी जगच् च सः । तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति
॥४३॥कर्ता क्रियाणां स च इज्यते क्रतुः । स एव तत्कर्मफलं च तस्य यत् । युगादि यस्माच् च भवेद् अशेषतो । हरेर् न किञ्चिद् व्यतिरिक्तम् अस्ति तत्
॥४४॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).