अध्यायः १४६
ब्रह्मोवाच:
यायातम् अपरं तीर्थं यत्र कालञ्जरः शिवः । सर्वपापप्रशमनं तद्वृत्तम् उच्यते मया
॥१॥ययातिर् नाहुषो राजा साक्षाद् इन्द्र इवापरः । तस्य भार्याद्वयं चासीत् कुललक्षणभूषितम्
॥२॥ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा । शर्मिष्ठेति द्वितीया सा सुता स्याद् वृषपर्वणः
॥३॥ब्राह्मण्य् अपि महाप्राज्ञा देवयानी सुमध्यमा । ययातेर् अभवद् भार्या सा तु शुक्रप्रसादतः
॥४॥शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा । देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत्
॥५॥यदुं च तुर्वसुं चैव देवपुत्रसमाव् उभौ । शर्मिष्ठा च नृपाल् लेभे त्रीन् पुत्रान् देवसन्निभान्
॥६॥द्रुह्युं चानुं च पूरुं च ययातेर् नृपसत्तमात् । देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः
॥७॥शर्मिष्ठायास् तु तनयाः शक्राग्निवरुणप्रभाः । देवयानी कदाचित् तु पितरं प्राह दुःखिता
॥८॥देवयान्य् उवाच:
मम त्व् अपत्यद्वितयम् अभाग्याया भृगूद्वह । मम दास्याः सभाग्याया अपत्यत्रितयं पितः
॥९॥तद् एतद् अनुमृश्यायं दुःखम् अत्यन्तम् आगता । मरिष्ये दानवगुरो ययातिकृतविप्रियात् । मानभङ्गाद् वरं तात मरणं हि मनस्विनाम्
॥१०॥ब्रह्मोवाच:
तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् । कुपितोऽभ्याययौ शीघ्रं ययातिम् इदम् अब्रवीत्
॥११॥शुक्र उवाच:
यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि । रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि
॥१२॥न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः । स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः
॥१३॥वृद्धत्वम् एव मरणं जीवताम् अपि देहिनाम् । तस्माच् छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम्
॥१४॥ब्रह्मोवाच:
एतच् छ्रुत्वा ययातिस् तु शापं शुक्रस्य धीमतः । कृताञ्जलिपुटो राजा ययातिः शुक्रम् अब्रवीत्
॥१५॥ययातिर् उवाच:
नापराध्ये न सङ्कुप्ये नैवाधर्मं प्रवर्तये । अधर्मकारिणः पापाः शास्या एव महात्मनाम्
॥१६॥धर्मम् एव चरन्तं वै कथं मां शप्तवान् असि । देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किञ्चन
॥१७॥तस्मान् न मम विप्रेन्द्र शापं दातुं त्वम् अर्हसि । विद्वांसोऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः । तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम्
॥१८॥ब्रह्मोवाच:
ययातिवाक्याच् छुक्रोऽपि सस्मार सुतया कृतम् । असकृद् विप्रियं तस्य दिवा रात्रौ प्रचण्डया
॥१९॥गतकोपोऽहम् इत्य् उक्त्वा काव्यो राजानम् अब्रवीत्
॥२०॥शुक्र उवाच:
ज्ञातं मयानयाकारि विप्रियं न वदेऽनृतम् । शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप
॥२१॥यस्मै पुत्राय सन्दातुं जराम् इच्छसि मानद । तस्य सा यात्व् इयं राजञ् जरा पुत्राय मद्वरात्
॥२२॥ब्रह्मोवाच:
पुनर् ययातिः श्वशुरं शुक्रं प्राह विनीतवत्
॥२३॥ययातिर् उवाच:
यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः । स राजा स्याद् दैत्यगुरो तद् एतद् अनुमन्यताम्
॥२४॥यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम् । तं शपेयम् अनुज्ञात्र दातव्यैव त्वया गुरो
॥२५॥ब्रह्मोवाच:
एवम् अस्त्व् इति राजानम् उवाच भृगुनन्दनः । ततो ययातिः स्वं पुत्रम् आहूयेदं वचोऽब्रवीत्
॥२६॥ययातिर् उवाच:
यदो गृहाण मे शापाज् जरां जातां सुतो भवान् । ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः । पुत्री तेनैव जनको यस् तदाज्ञावशे स्थितः
॥२७॥ब्रह्मोवाच:
नेत्य् उवाच यदुस् तातं ययातिं भूरिदक्षिणम् । ययातिश् च यदुं शप्त्वा तुर्वसुं कामम् अब्रवीत्
॥२८॥नागृह्णात् तुर्वसुश् चापि पित्रा दत्तां जरां तदा । तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम
॥२९॥द्रुह्युश् च नैच्छत् तां दत्तां जरां रूपविनाशिनीम् । अनुम् अप्य् अब्रवीद् राजा गृहाणेमां जरां मम
॥३०॥अनुर् नेति तदोवाच शप्त्वा तं पूरुम् अब्रवीत् । अभिनन्द्य तदा पूरुर् जरां तां जगृहे पितुः
॥३१॥सहस्रम् एकं वर्षाणां यावत् प्रीतोऽभवत् पिता । यौवने यानि भोग्यानि वस्तूनि विविधानि च
॥३२॥पुत्रयौवनसन्तुष्टो ययातिर् बुभुजे सुखम् । ततस् तृप्तोऽभवद् राजा सर्वभोगेषु नाहुषः । ततो हर्षात् समाहूय पूरुं पुत्रम् अथाब्रवीत्
॥३३॥ययातिर् उवाच:
तृप्तोऽस्मि सर्वभोगेषु यौवनेन तवानघ । गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम्
॥३४॥ब्रह्मोवाच:
नेत्य् उवाच तदा पूरुर् जरया क्षीयते मया । विकारास् तात भावानां दुर्निवाराः शरीरिणाम्
॥३५॥बलात् कालागता सह्या जराप्य् अखिलदेहिभिः । सा चेद् गुरूपकाराय गृहीता त्यज्यते कथम्
॥३६॥स्वीकृतत्यागपापाद् धि देहिनां मरणं वरम् । अथवा तु जरां राजंस् तपसा नाशयाम्य् अहम्
॥३७॥ब्रह्मोवाच:
एवम् उक्त्वा तु पितरं ययौ गङ्गाम् अनुत्तमाम् । गौतम्या दक्षिणे पारे ततस् तेपे तपो महत्
॥३८॥ततः प्रीतोऽभवद् देवः कालेन महता शिवः । लोकातीतमहोदारगुणसन्मणिभूषितम् । किं ददामीति तं प्राह पूरुं स सुरसत्तमः
॥३९॥पूरुर् उवाच:
शापप्राप्तां जरां नाथ पितुर् मम सुराधिप । तां नाशयस्व देवेश पितृशप्तांश् च कोपतः । मद्भ्रातॄञ् शापतो मुक्तान् कुरुष्व सुरपूजित
॥४०॥ब्रह्मोवाच:
तथेत्य् उक्त्वा जगन्नाथः शापाज् जातां जरां तथा । अनाशयज् जगन्नाथो भ्रातॄंश् चक्रे विशापिनः
॥४१॥ततः प्रभृति तत् तीर्थं जरारोगविनाशनम् । अकालजजरादीनां स्मरणाद् अपि नाशनम्
॥४२॥तन्नाम्ना चापि विख्यातं कालञ्जरम् उदाहृतम् । यायातं नाहुषं पौरं शौक्रं शार्मिष्ठम् एव च
॥४३॥एवमादीनि तीर्थानि तत्राष्टोत्तरम् एव च । शतं विद्यान् महाबुद्धे सर्वसिद्धिकरं तथा
॥४४॥तेषु स्नानं च दानं च श्रवणं पठनं तथा । सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत्
॥४५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).