अध्यायः ७१
नारद उवाच:
त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्य् उक्तम् उत्तमम् । तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे
॥१॥ब्रह्मोवाच:
तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः । तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते
॥२॥गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी । त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिम् अतः शृणु
॥३॥वर्षाणाम् अयुतात् पूर्वं देवकार्य उपस्थिते । तारको बलवान् आसीन् मद्वराद् अतिगर्वितः
॥४॥देवानां परमैश्वर्यं हृतं तेन बलीयसा । ततस् ते शरणं जग्मुर् देवाः सेन्द्रपुरोगमाः
॥५॥क्षीरोदशायिनं देवं जगतां प्रपितामहम् । कृताञ्जलिपुटा देवा विष्णुम् ऊचुर् अनन्यगाः
॥६॥देवा ऊचुः:
त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन । सर्वेश्वर जगद्योने त्रयीमूर्ते नमोऽस्तु ते
॥७॥लोकस्रष्टासुरान् हन्ता त्वम् एव जगतां पतिः । स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय
॥८॥त्राता न कोप्य् अस्ति जगत्त्रयेऽपि । शरीरिणां सर्वविपद्गतानाम् । त्वया विना वारिजपत्त्रनेत्र । तापत्रयाणां शरणं न चान्यत्
॥९॥पिता च माता जगतोऽखिलस्य । त्वम् एव सेवासुलभोऽसि विष्णो । प्रसीद पाहीश महाभयेभ्यो ।ऽस्मदार्तिहन्ता वद कस् त्वदन्यः
॥१०॥आदिकर्ता वराहस् त्वं मत्स्यः कूर्मस् तथैव च । इत्यादिरूपभेदैर् नो रक्षसे भय आगते
॥११॥हृतस्वाम्यान् सुरगणान् हृतदारान् गतापदः । कस्मान् न रक्षसे देव अनन्यशरणान् हरे
॥१२॥ब्रह्मोवाच:
ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः । कस्माच् च भयम् आपन्नं तद् ब्रुवन्तु गतज्वराः । ततः श्रियः पतिं प्राहुस् तं तारकवधं प्रति
॥१३॥देवा ऊचुः:
तारकाद् भयम् आपन्नं भीषणं रोमहर्षणम् । न युद्धैस् तपसा शापैर् हन्तुं नैव क्षमा वयम्
॥१४॥अर्वाग्दशाहाद् यो बालस् तस्मान् मृत्युम् अवाप्स्यति । तस्माद् देव न चान्येभ्यस् तत्र नीतिर् विधीयताम्
॥१५॥ब्रह्मोवाच:
पुनर् नारायणः प्राह नाहं बलोत्कटः सुराः । न मत्तो मदपत्याच् च न देवेभ्यो वधो भवेत्
॥१६॥ईश्वराद् यदि जायेत अपत्यं बहुशक्तिकम् । तस्माद् वधम् अवाप्नोति तारको लोकदारुणः
॥१७॥तद् गच्छामः सुराः सर्वे यतितुम् ऋषिभिः सह । भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः
॥१८॥तथेत्य् उक्त्वा सुरगणा जग्मुस् ते च नगोत्तमम् । हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम्
॥१९॥इदम् ऊचुः सर्व एव सभार्यं तुहिनं गिरिम्
॥२०॥देवा ऊचुः:
दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ । बुद्धिः प्रज्ञा धृतिर् मेधा लज्जा पुष्टिः सरस्वती
॥२१॥एवं त्व् अनेकधा लोके या स्थिता लोकपावनी । देवानां कार्यसिद्ध्यर्थं युवयोर् गर्भम् आविशत्
॥२२॥समुत्पन्ना जगन्माता शम्भोः पत्नी भविष्यति । अस्माकं भवतां चापि पालनी च भविष्यति
॥२३॥ब्रह्मोवाच:
हिमवान् अपि तद् वाक्यं सुराणाम् अभिनन्द्य च । मेना चापि महोत्साहा अस्त्व् इत्य् एवं वचोऽब्रवीत्
॥२४॥तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे । शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता
॥२५॥तां वै प्रोचुः सुरगणा ईशार्थे तप आविश । तथा हिमवतः पृष्ठे गौरी तेपे तपो महत्
॥२६॥पुनः सम्मन्त्रयाम् आसुर् ईशो ध्यायति तां शिवाम् । आत्मानं वा तथान्यद् वा न जानीमः कथं भवः
॥२७॥मेनकायाः सुतायां तु चित्तं दध्यात् सुरेश्वरः । तत्र नीतिर् विधातव्या ततः श्रैष्ठ्यम् अवाप्स्यथ । ततः प्राह महाबुद्धिर् वाचस्पतिर् उदारधीः
॥२८॥बृहस्पतिर् उवाच:
यस् त्व् अयं मदनो धीमान् कन्दर्पः पुष्पचापधृक् । स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः
॥२९॥तेन विद्धस् त्रिनेत्रोऽपि ईशायां बुद्धिम् आदधेत् । परिणेष्यत्य् असौ नूनं तदा तां गिरिजां हरः
॥३०॥जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः । तथोढायां जगद्धात्र्यां शम्भोः पुत्रो भविष्यति
॥३१॥जातः पुत्रस् त्रिनेत्रस्य तारकं स हनिष्यति । वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम्
॥३२॥आह्लादनं च मनसा कामायैनं प्रयच्छथ
॥३३॥ब्रह्मोवाच:
तथेत्य् उक्त्वा सुरगणा मदनं कुसुमाकरम् । प्रेषयाम् आसुर् अव्यग्राः शिवान्तिकम् अरिन्दमाः
॥३४॥स जगाम त्वरा कामो धृतचापो समाधवः । रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम्
॥३५॥गृहीत्वा सशरं चापम् इदं तस्य मनोऽभवत् । मया वेध्यस् त्व् अवेध्यो वै शम्भुर् लोकगुरुः प्रभुः
॥३६॥त्रैलोक्यजयिनो बाणाः शम्भौ मे किं दृढा न वा । तेनासौ चाग्निनेत्रेण भस्मशेषस् तदा कृतः
॥३७॥तद् एव कर्म सुदृढम् ईक्षितुं सुरसत्तमाः । आजग्मुस् तत्र यद् वृत्तं शृणु विस्मयकारकम्
॥३८॥शम्भुं दृष्ट्वा सुरगणा यावत् पश्यन्ति मन्मथम् । तावच् च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः । तुष्टुवुस् त्रिदशेशानं कृताञ्जलिपुटाः सुराः
॥३९॥देवा ऊचुः:
तारकाद् भयम् आपन्नं कुरु पत्नीं गिरेः सुताम्
॥४०॥ब्रह्मोवाच:
विद्धचित्तो हरोऽप्य् आशु मेने वाक्यं सुरोदितम् । अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा
॥४१॥प्रेषयाम् आसुर् अमरा विवाहाय परस्परम् । सम्बन्धोऽपि तथाप्य् आसीद् धिमवल्लोकनाथयोः
॥४२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).