मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १०१

3
ब्रह्मपुराणम् · 101

अध्यायः १०१

ब्रह्मोवाच:

पुरूरवसम् आख्यातं तीर्थं वेदविदो विदुः । स्मरणाद् एव पापानां नाशनं किं तु दर्शनात्

॥१॥

पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् । यदृच्छया देवनदीं हसन्तीं ब्रह्मणोऽन्तिके । तां दृष्ट्वा रूपसम्पन्नाम् उर्वशीं प्राह भूपतिः

॥२॥

राजोवाच:

केयं रूपवती साध्वी स्थितेयं ब्रह्मणोऽन्तिके । सर्वासाम् उत्तमा योषिद् दीपयन्ती सभाम् इमाम्

॥३॥

ब्रह्मोवाच:

उर्वशी प्राह राजानम् इयं देवनदी शुभा । सरस्वती ब्रह्मसुता नित्यम् एति च याति च । तच् छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम्

॥४॥

ब्रह्मोवाच:

उर्वशी पुनर् अप्य् आह राजानं भूरिदक्षिणम्

॥५॥

उर्वश्य् उवाच:

आनीयते महाराज तस्याः सर्वं निवेद्य च

॥६॥

ब्रह्मोवाच:

ततस् तां प्राहिणोत् तत्र राजा प्रीत्या तदोर्वशीम् । सा गत्वा राजवचनं न्यवेदयद् अथोर्वशी

॥७॥

सरस्वत्य् अपि तन् मेने उर्वश्या यन् निवेदितम् । सा तथेति प्रतिज्ञाय प्रायाद् यत्र पुरूरवाः

॥८॥

सरस्वत्यास् ततस् तीरे स रेमे बहुलाः समाः । सरस्वान् अभवत् पुत्रो यस्य पुत्रो बृहद्रथः

॥९॥

तां गच्छन्तीं नृपगृहं नित्यम् एव सरस्वतीम् । सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम्

॥१०॥

तस्यै ददाव् अहं शापं भूया इति महानदी । मच्छापभीता वागीशा प्रागाद् देवीं च गौतमीम्

॥११॥

कमण्डलुभवां पूतां मातरं लोकपावनीम् । तापत्रयोपशमनीम् ऐहिकामुष्मिकप्रदाम्

॥१२॥

सा गत्वा गौतमीं देवीं प्राह मच्छापम् आदितः । गङ्गापि माम् उवाचेदं विशापां कर्तुम् अर्हसि

॥१३॥

न युक्तं यत् सरस्वत्याः शापं त्वं दत्तवान् असि । स्त्रीणाम् एष स्वभावो वै पुंस्कामा योषितो यतः

॥१४॥

स्वभावचपला ब्रह्मन् योषितः सकला अपि । त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन

॥१५॥

विडम्बयति कं वा न कामो वापि स्वभावतः । ततो विशापम् अवदं दृश्यापि स्यात् सरस्वती

॥१६॥

तस्माच् छापान् नदी मर्त्ये दृश्यादृश्या सरस्वती । यत्रैषा सङ्गता देवी गङ्गायां शापविह्वला

॥१७॥

तत्र प्रायान् नृपवरो धार्मिकः स पुरूरवाः । तपस् तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम्

॥१८॥

सर्वान् कामान् अथावाप गङ्गायाश् च प्रसादतः । ततः प्रभृति तत् तीर्थं पुरूरवसम् उच्यते

॥१९॥

सरस्वतीसङ्गमं च ब्रह्मतीर्थं तद् उच्यते । सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत्

॥२०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).