मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५३

3
ब्रह्मपुराणम् · 53

अध्यायः ५३

ब्रह्मोवाच:

ततो गजकुलप्रख्यास् तडिन्मालाविभूषिताः । समुत्तस्थुर् महामेघा नभस्य् अद्भुतदर्शनाः

॥१॥

केचिन् नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः । केचित् किञ्जल्कसङ्काशाः केचित् पीताः पयोधराः

॥२॥

केचिद् धरितसङ्काशाः काकाण्डसन्निभास् तथा । केचित् कमलपत्त्राभाः केचिद् धिङ्गुलसन्निभाः

॥३॥

केचित् पुरवराकाराः केचिद् गिरिवरोपमाः । केचिद् अञ्जनसङ्काशाः केचिन् मरकतप्रभाः

॥४॥

विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर् महाघनाः । घोररूपा महाभागा घोरस्वननिनादिताः

॥५॥

ततो जलधराः सर्वे समावृण्वन् नभस्तलम् । तैर् इयं पृथिवी सर्वा सपर्वतवनाकरा

॥६॥

आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः । ततस् ते जलदा घोरा वारिणा मुनिसत्तमाः

॥७॥

सर्वतः प्लावयाम् आसुश् चोदिताः परमेष्ठिना । वर्षमाणा महातोयं पूरयन्तो वसुन्धराम्

॥८॥

सुघोरम् अशिवं रौद्रं नाशयन्ति स्म पावकम् । ततो द्वादश वर्षाणि पयोदाः समुपप्लवे

॥९॥

धाराभिः पूरयन्तो वै चोद्यमाना महात्मना । ततः समुद्राः स्वां वेलाम् अतिक्रामन्ति भो द्विजाः

॥१०॥

पर्वताश् च व्यशीर्यन्त मही चाप्सु निमज्जति । सर्वतः सुमहाभ्रान्तास् ते पयोदा नभस्तलम्

॥११॥

संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः । ततस् तं मारुतं घोरं स विष्णुर् मुनिसत्तमाः

॥१२॥

आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः । तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे

॥१३॥

नष्टे देवासुरनरे यक्षराक्षसवर्जिते । ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम्

॥१४॥

ददर्श चक्षुर् उन्मील्य जलपूर्णां वसुन्धराम् । नापश्यत् तं वटं नोर्वीं न दिगादि न भास्करम्

॥१५॥

न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् । तस्मिन्न् एकार्णवे घोरे तमोभूते निराश्रये

॥१६॥

निमज्जन् स तदा विप्राः सन्तर्तुम् उपचक्रमे । बभ्रामासौ मुनिश् चार्त इतश् चेतश् च सम्प्लवन्

॥१७॥

निममज्ज तदा विप्रास् त्रातारं नाधिगच्छति । एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः । प्रोवाच मुनिशार्दूलास् तदा ध्यानेन तोषितः

॥१८॥

श्रीभगवान् उवाच:

वत्स श्रान्तोऽसि बालस् त्वं भक्तत्र मम सुव्रत । आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम्

॥१९॥

मा त्वयैव च भेतव्यं सम्प्राप्तोऽसि ममाग्रतः । मार्कण्डेय मुने धीर बालस् त्वं श्रमपीडितः

॥२०॥

ब्रह्मोवाच:

तस्य तद् वचनं श्रुत्वा मुनिः परमकोपितः । उवाच स तदा विप्रा विस्मितश् चाभवन् मुहुः

॥२१॥

मार्कण्डेय उवाच:

कोऽयं नाम्ना कीर्तयति तपः परिभवन्न् इव । बहुवर्षसहस्राख्यं धर्षयन्न् इव मे वपुः

॥२२॥

न ह्य् एष समुदाचारो देवेष्व् अपि समाहितः । मां ब्रह्मा स च देवेशो दीर्घायुर् इति भाषते

॥२३॥

कस् तपो घोरशिरसो ममाद्य त्यक्तजीवितः । मार्कण्डेयेति चोक्त्वा मन्मृत्युं गन्तुम् इहेच्छति

॥२४॥

ब्रह्मोवाच:

एवम् उक्त्वा तदा विप्राश् चिन्ताविष्टोऽभवन् मुनिः । किं स्वप्नोऽयं मया दृष्टः किं वा मोहोऽयम् आगतः

॥२५॥

इत्थं चिन्तयतस् तस्य उत्पन्ना दुःखहा मतिः । व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम्

॥२६॥

स गत्वा शरणं देवं मुनिस् तद्गतमानसः । ददर्श तं वटं भूयो विशालं सलिलोपरि

॥२७॥

शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् । रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा

॥२८॥

वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् । पद्मरागादिभिर् जुष्टं रत्नैर् अन्यैर् अलङ्कृतम्

॥२९॥

नानास्तरणसंवीतं नानारत्नोपशोभितम् । नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम्

॥३०॥

तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् । सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम्

॥३१॥

चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् । श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम्

॥३२॥

वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् । हारभारार्पितग्रीवं दिव्यरत्नविभूषितम्

॥३३॥

दृष्ट्वा तदा मुनिर् देवं विस्मयोत्फुल्ललोचनः । रोमाञ्चिततनुर् देवं प्रणिपत्येदम् अब्रवीत्

॥३४॥

मार्कण्डेय उवाच:

अहो चैकार्णवे घोरे विनष्टे सचराचरे । कथम् एको ह्य् अयं बालस् तिष्ठत्य् अत्र सुनिर्भयः

॥३५॥

ब्रह्मोवाच:

भूतं भव्यं भविष्यं च जानन्न् अपि महामुनिः । न बुबोध तदा देवं मायया तस्य मोहितः । यदा न बुबुधे चैनं तदा खेदाद् उवाच ह

॥३६॥

मार्कण्डेय उवाच:

वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया । वृथा मे जीवितं दीर्घं वृथा मानुष्यम् एव च

॥३७॥

योऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम्

॥३८॥

ब्रह्मोवाच:

एवं सञ्चिन्तयन् विप्रः प्लवमानो विचेतनः । त्राणार्थं विह्वलश् चासौ निर्वेदं गतवांस् तदा

॥३९॥

ततो बालार्कसङ्काशं स्वमहिम्ना व्यवस्थितम् । सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम्

॥४०॥

दृष्ट्वा तं मुनिम् आयान्तं स बालः प्रहसन्न् इव । प्रोवाच मुनिशार्दूलास् तदा मेघौघनिस्वनः

॥४१॥

श्रीभगवान् उवाच:

वत्स जानामि श्रान्तं त्वां त्राणार्थं माम् उपस्थितम् । शरीरं विश मे क्षिप्रं विश्रामस् ते मयोदितः

॥४२॥

ब्रह्मोवाच:

श्रुत्वा स वचनं तस्य किञ्चिन् नोवाच मोहितः । विवेश वदनं तस्य विवृतं चावशो मुनिः

॥४३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).