मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २४

3
ब्रह्मपुराणम् · 24

अध्यायः २४

लोमहर्षण उवाच:

तारामयं भगवतः शिशुमाराकृति प्रभोः । दिवि रूपं हरेर् यत् तु तस्य पुच्छे स्थितो ध्रुवः

॥१॥

सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तम् अनु तं यान्ति नक्षत्राणि च चक्रवत्

॥२॥

सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै

॥३॥

शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि । नारायणः परं धाम तस्याधारः स्वयं हृदि

॥४॥

उत्तानपादतनयस् तम् आराध्य प्रजापतिम् । स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः

॥५॥

आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ध्रुवस्य शिशुमारश् च ध्रुवे भानुर् व्यवस्थितः

॥६॥

तद् आधारं जगच् चेदं सदेवासुरमानुषम् । येन विप्रा विधानेन तन् मे शृणुत साम्प्रतम्

॥७॥

विवस्वान् अष्टभिर् मासैर् ग्रसत्य् अपो रसात्मिकाः । वर्षत्य् अम्बु ततश् चान्नम् अन्नादम् अखिलं जगत्

॥८॥

विवस्वान् अंशुभिस् तीक्ष्णैर् आदाय जगतो जलम् । सोमं पुष्यत्य् अथेन्दुश् च वायुनाडीमयैर् दिवि

॥९॥

जलैर् विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु । न भ्रश्यन्ति यतस् तेभ्यो जलान्य् अभ्राणि तान्य् अतः

॥१०॥

अभ्रस्थाः प्रपतन्त्य् आपो वायुना समुदीरिताः । संस्कारं कालजनितं विप्राश् चासाद्य निर्मलाः

॥११॥

सरित्समुद्रा भौमास् तु तथापः प्राणिसम्भवाः । चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः

॥१२॥

आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् । अनभ्रगतम् एवोर्व्यां सद्यः क्षिपति रश्मिभिः

॥१३॥

तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तमाः । न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम्

॥१४॥

दृष्टसूर्यं हि तद् वारि पतत्य् अभ्रैर् विना दिवः । आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः

॥१५॥

कृत्तिकादिषु ऋक्षेषु विषमेष्व् अम्बु यद् दिवः । दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम्

॥१६॥

युग्मर्क्षेषु तु यत् तोयं पतत्य् अर्कोद्गितं दिवः । तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते

॥१७॥

उभयं पुण्यम् अत्यर्थं नृणां पापहरं द्विजाः । आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः

॥१८॥

यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः । पुष्णात्य् ओषधयः सर्वा जीवनायामृतं हि तत्

॥१९॥

तेन वृद्धिं परां नीतः सकलश् चौषधीगणः । साधकः फलपाकान्तः प्रजानां तु प्रजायते

॥२०॥

तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः । कुर्वतेऽहरहश् चैव देवान् आप्याययन्ति ते

॥२१॥

एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः । सर्वदेवनिकायाश् च पशुभूतगणाश् च ये

॥२२॥

वृष्ट्या धृतम् इदं सर्वं जगत् स्थावरजङ्गमम् । सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः

॥२३॥

आधारभूतः सवितुर् ध्रुवो मुनिवरोत्तमाः । ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः

॥२४॥

हृदि नारायणस् तस्य शिशुमारस्य संस्थितः । विभर्ता सर्वभूतानाम् आदिभूतः सनातनः

॥२५॥

एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् । भूसमुद्रादिभिर् युक्तं किम् अन्यच् छ्रोतुम् इच्छथ

॥२६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).