मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २२

3
ब्रह्मपुराणम् · 22

अध्यायः २२

लोमहर्षण उवाच:

ततश् चानन्तरं विप्रा नरका रौरवादयः । पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः

॥१॥

रौरवः शौकरो रोधस् तानो विशसनस् तथा । महाज्वालस् तप्तकुड्यो महालोभो विमोहनः

॥२॥

रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः । असिपत्त्रवनं कृष्णो लालाभक्षश् च दारुणः

॥३॥

तथा पूयवहः पापो वह्निज्वालो ह्य् अधःशिराः । सदंशः कृष्णसूत्रश् च तमश् चावीचिर् एव च

॥४॥

श्वभोजनोऽथाप्रतिष्ठोमआवीचिश् च तथापरः । इत्य् एवमादयश् चान्ये नरका भृशदारुणाः

॥५॥

यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः । पतन्ति येषु पुरुषाः पापकर्मरताश् च ये

॥६॥

कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् । यश् चान्यद् अनृतं वक्ति स नरो याति रौरवम्

॥७॥

भ्रूणहा पुरहन्ता च गोघ्नश् च मुनिसत्तमाः । यान्ति ते रौरवं घोरं यश् चोच्छ्वासनिरोधकः

॥८॥

सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे । प्रयाति नरके यश् च तैः संसर्गम् उपैति वै

॥९॥

राजन्यवैश्यहा चैव तथैव गुरुतल्पगः । तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः

॥१०॥

माध्वीविक्रयकृन् वध्यपालः केसरविक्रयी । तप्तलोहे पतन्त्य् एते यश् च भक्तं परित्यजेत्

॥११॥

सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश् चाक्रोष्टा नराधमः

॥१२॥

वेददूषयिता यश् च वेदविक्रयकश् च यः । अगम्यगामी यश् च स्यात् ते यान्ति शबलं द्विजाः

॥१३॥

चौरो विमोहे पतति मर्यादादूषकस् तथा । देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः

॥१४॥

स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् । पितृदेवातिथीन् यस् तु पर्यश्नाति नराधमः

॥१५॥

लालाभक्ष्ये स यात्य् उग्रे शरकर्ता च वेधके । करोति कर्णिनो यश् च यश् च खड्गादिकृन् नरः

॥१६॥

प्रयान्त्य् एते विशसने नरके भृशदारुणे । असत्प्रतिग्रहीता च नरके यात्य् अधोमुखे

॥१७॥

अयाज्ययाजकस् तत्र तथा नक्षत्रसूचकः । कृमिपूये नरश् चैको याति मिष्टान्नभुक् सदा

॥१८॥

लाक्षामांसरसानां च तिलानां लवणस्य च । विक्रेता ब्राह्मणो याति तम् एव नरकं द्विजाः

॥१९॥

मार्जारकुक्कुटच्छागश्ववराहविहङ्गमान् । पोषयन् नरकं याति तम् एव द्विजसत्तमाः

॥२०॥

रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस् तथा । सूची माहिषिकश् चैव पर्वगामी च यो द्विजः

॥२१॥

अगारदाही मित्रघ्नः शकुनिग्रामयाजकः । रुधिरान्धे पतन्त्य् एते सोमं विक्रीणते च ये

॥२२॥

मधुहा ग्रामहन्ता च याति वैतरणीं नरः । रेतःपानादिकर्तारो मर्यादाभेदिनश् च ये

॥२३॥

ते कृच्छ्रे यान्त्य् अशौचाश् च कुहकाजीविनश् च ये । असिपत्त्रवनं याति वनच्छेदी वृथैव यः

॥२४॥

औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै । यान्ति तत्रैव ते विप्रा यश् चापाकेषु वह्निदः

॥२५॥

व्रतोपलोपको यश् च स्वाश्रमाद् विच्युतश् च यः । सन्दंशयातनामध्ये पततस् ताव् उभाव् अपि

॥२६॥

दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैर् अध्यापिता ये तु ते पतन्ति श्वभोजने

॥२७॥

एते चान्ये च नरकाः शतशोऽथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः

॥२८॥

तथैव पापान्य् एतानि तथान्यानि सहस्रशः । भुज्यन्ते जातिपुरुषैर् नरकान्तरगोचरैः

॥२९॥

वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेषु पतन्ति ते

॥३०॥

अधःशिरोभिर् दृश्यन्ते नारकैर् दिवि देवताः । देवाश् चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान्

॥३१॥

स्थावराः कृमयोऽज्वाश् च पक्षिणः पशवो नराः । धार्मिकास् त्रिदशास् तद्वन् मोक्षिणश् च यथाक्रमम्

॥३२॥

सहस्रभागः प्रथमाद् द्वितीयोऽनुक्रमात् तथा । सर्वे ह्य् एते महाभागा यावन् मुक्तिसमाश्रयाः

॥३३॥

यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः

॥३४॥

पापानाम् अनुरूपाणि प्रायश्चित्तानि यद् यथा । तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः

॥३५॥

पापे गुरूणि गुरुणि स्वल्पान्य् अल्पे च तद्विदः । प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः

॥३६॥

प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै । यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम्

॥३७॥

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्

॥३८॥

प्रातर् निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् । नारायणम् अवाप्नोति सद्यः पापक्षयान् नरः

॥३९॥

विष्णुसंस्मरणात् क्षीणसमस्तक्लेशसञ्चयः । मुक्तिं प्रयाति भो विप्रा विष्णोस् तस्यानुकीर्तनात्

॥४०॥

वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम्

॥४१॥

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजम् अनुत्तमम्

॥४२॥

तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो द्विजः । न याति नरकं शुद्धः सङ्क्षीणाखिलपातकः

॥४३॥

मनःप्रीतिकरः स्वर्गो नरकस् तद्विपर्ययः । नरकस्वर्गसञ्ज्ञे वै पापपुण्ये द्विजोत्तमाः

॥४४॥

वस्त्व् एकम् एव दुःखाय सुखायेर्ष्योदयाय च । कोपाय च यतस् तस्माद् वस्तु दुःखात्मकं कुतः

॥४५॥

तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते । तद् एव कोपालयतः प्रसादाय च जायते

॥४६॥

तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् । मनसः परिणामोऽयं सुखदुःखादिलक्षणः

॥४७॥

ज्ञानम् एव परं ब्रह्माज्ञानं बन्धाय चेष्यते । ज्ञानात्मकम् इदं विश्वं न ज्ञानाद् विद्यते परम्

॥४८॥

विद्याविद्ये हि भो विप्रा ज्ञानम् एवावधार्यताम् । एवम् एतद् मयाख्यातं भवतां मण्डलं भुवः

॥४९॥

पातालानि च सर्वाणि तथैव नरका द्विजाः । समुद्राः पर्वताश् चैव द्वीपा वर्षाणि निम्नगाः । सङ्क्षेपात् सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ

॥५०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).