मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३१

3
ब्रह्मपुराणम् · 131

अध्यायः १३१

ब्रह्मोवाच:

यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् । अशेषपापशमनं तत्र वृत्तम् इदं शृणु

॥१॥

तत्राख्यानम् इदं त्व् आसीद् इतिहासं पुरातनम् । सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने

॥२॥

तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु । गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ

॥३॥

गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून् । रक्षन्तीम् अनुजग्मुस् ते राक्षसा दैत्यदानवाः

॥४॥

रक्षन्तीं तां महाप्राज्ञाः श्वानयोर् मातरं शुनीम् । प्रलोभयित्वा विविधैर् वाक्यैर् दानैश् च यत्नतः

॥५॥

हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः । तत आगत्य सा देवान् इदम् आह क्रमाच् छुनी

॥६॥

सरमोवाच:

मां बद्ध्वा राक्षसैः पाशैस् ताडयित्वा प्रहारकैः । नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः

॥७॥

ब्रह्मोवाच:

तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः

॥८॥

बृहस्पतिर् उवाच:

इयं विकृतरूपास्ते अस्याः पापं च लक्षये । अस्या मतेन ता गावो नीता नान्येन हेतुना । पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः

॥९॥

ब्रह्मोवाच:

तद् गुरोर् वचनाच् छक्रः पदा तां प्राहरच् छुनीम् । पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे

॥१०॥

पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि । राक्षसैश् च तदा दत्तं तस्मान् नीतास् तु गा मम

॥११॥

सरमोवाच:

नापराधोऽस्ति मे नाथ न चान्यस्यापि कस्यचित् । नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर । तस्माद् रुष्टोऽसि किं नाथ रिपवो बलिनस् तु ते

॥१२॥

ब्रह्मोवाच:

ततो ध्यात्वा देवगुरुर् ज्ञात्वा तस्या विचेष्टितम् । सत्यं शक्र त्व् इयं दुष्टा रिपूणां पक्षकारिणी

॥१३॥

ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव । मर्त्यलोके पापभूता अज्ञानात् पापकारिणी

॥१४॥

तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत । यथा शप्ता मघवता पापात् सा ह्य् अतिभीषणा

॥१५॥

गावो या राक्षसैर् नीतास् तासाम् आनयनाय च । यत्नं कुर्वन् सुरपतिर् विष्णवे तन् न्यवेदयत्

॥१६॥

विष्णुर् दैत्यांश् च दनुजान् गोहर्तॄंश् चैव राक्षसान् । हन्तुं प्रयत्नम् अकरोज् जगृहे च महद् धनुः

॥१७॥

शार्ङ्गं यल् लोकविख्यातं दैत्यनाशनम् एव च । जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः

॥१८॥

यत्र वै दण्डकारण्ये शार्ङ्गपाणिर् जगत्प्रभुः । तत्रस्थान् दैत्यदनुजान् राक्षसांश् च बलीयसः

॥१९॥

पुनर् जघ्ने स वै विष्णुर् गा यैर् नीताश् च राक्षसैः । तत्र वै दण्डकारण्ये शार्ङ्गपाणिर् इति श्रुतः

॥२०॥

युध्यमानस् ततो विष्णुर् दितिजै राक्षसैः सह । ते जग्मुर् दक्षिणाम् आशां विष्णोस् त्रासान् महामुने

॥२१॥

अन्वगच्छत् ततो विष्णुस् तान् एव परमेश्वरः । गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर् मनोजवैः

॥२२॥

बाणैस् तान् व्याहनद् विष्णुर् गङ्गाया उत्तरे तटे । देवारयः क्षयं नीता विष्णुना प्रभविष्णुना

॥२३॥

शार्ङ्गमुक्तैर् महावेगैः सुस्वनैश् च सुमन्त्रितैः । क्षयं प्राप्ता विष्णुबाणैस् ततस् ते देवशत्रवः

॥२४॥

गावो लब्धा यत्र देवैर् बाणतीर्थं तद् उच्यते । वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम्

॥२५॥

पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे । प्रद्रुतास् ते सुराः सर्वे गङ्गायां सन्न्यवेशयन्

॥२६॥

तन्मध्ये कारयाम् आसुर् द्वीपं चैवाश्रयं गवाम् । तैर् गोभिस् तत्र गङ्गायां सुरयज्ञो व्यजायत

॥२७॥

यज्ञतीर्थं तु तत् प्रोक्तं गोद्वीपं गाङ्गमध्यतः । देवानां यजनं तच् च सर्वकामप्रदं शुभम्

॥२८॥

स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर् महाद्युते । असारापारसंसारसागरोत्तरणे तरिः

॥२९॥

विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी । गोरक्षं तु ततस् तीर्थं गङ्गाया दक्षिणे तटे

॥३०॥

तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ । मातुः शापं चापराधं सर्वं चापि सविस्तरम्

॥३१॥

निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् । विशापकरणं चापि पप्रच्छतुर् उभौ यमम्

॥३२॥

स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् । श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम

॥३३॥

लोकत्रयैकपावन्यां गौतम्यां दण्डके वने । श्रद्धया परया वत्स सुस्नातः सुसमाहितः

॥३४॥

ब्रह्माणं चैव विष्णुं च माम् ईशं च यथाक्रमम् । स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिम् अवाप्स्यतः

॥३५॥

तत् पितुर् वचनं श्रुत्वा यमः प्रीतमनास् तदा । तयोश् च प्रीतये प्रायाद् देवतर्पणयोर् यमः

॥३६॥

गौतम्याम् अघहारिण्यां सुसमाहितमानसः । तथैव तोषयाम् आस गङ्गायां सुरसत्तमान्

॥३७॥

श्वभ्यां च सहितः श्रीमान् दक्षिणाशापतिः प्रभुः । ब्रह्माणं तोषयाम् आस भानुं वै दक्षिणे तटे

॥३८॥

ईशानम् उत्तरे विष्णुं स्वयं धर्मः प्रतापवान् । दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् । वरान् अयाचत बहूंल् लोकानाम् उपकारकान्

॥३९॥

यम उवाच:

एषु स्नानं तु ये कुर्युर् ब्रह्मविष्णुमहेश्वराः । आत्मार्थं च परार्थं च ते कामान् आप्नुयुः शुभान्

॥४०॥

बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै । तेभ्यो दारिद्र्यदुःखानि न भवेयुर् युगे युगे

॥४१॥

गोतीर्थे ब्रह्मतीर्थे वा यस् तु स्नात्वा यतव्रतः । ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम्

॥४२॥

यः कुर्यात् तेन पृथिवी सप्तद्वीपा वसुन्धरा । प्रदक्षिणीकृता तत्र किञ्चिद् दत्त्वा वसु द्विजम्

॥४३॥

तद् देवयजनं प्राप्य किञ्चिद् धुत्वा हुताशने । अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम्

॥४४॥

यः सकृत् तत्र पठति गायत्रीं वेदमातरम् । अधीतास् तेन वेदा वै निष्कामो मुक्तिभाजनम्

॥४५॥

स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः । पूजयित्वा यथान्यायं सर्वान् कामान् अवाप्नुयात्

॥४६॥

ब्रह्मविष्णुमहेशानां शक्तिर् माता त्रयीमयी । सर्वान् कामान् अवाप्नोति पुत्रवान् धनवान् भवेत्

॥४७॥

आदित्यं भक्तितो यस् तु दक्षिणे नियतो नरः । स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः

॥४८॥

कूले यश् चोत्तरे चैव गङ्गाया दैत्यसूदनम् । स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम्

॥४९॥

यमेश्वरं ततो यस् तु यमतीर्थे तु पूजितम् । स्नातः पश्यति युक्तात्मा स करोत्य् अचिरेण हि

॥५०॥

पितॄणाम् अक्षयं पुण्यं फलदं कीर्तिवर्धनम् । तत्र स्नानेन दानेन जपेन स्तवनेन च । अपि दुष्कृतकर्माणः पितरो मोक्षम् आप्नुयुः

॥५१॥

ब्रह्मोवाच:

इत्याद्य् अष्ट सहस्राणि तीर्थानि त्रीणि नारद । तेषु स्नानं च दानं च सर्वम् अक्षयपुण्यदम्

॥५२॥

एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् । श्रवणात् पितृभिः सार्धं पठनात् स्वकुलैः सह

॥५३॥

तेषाम् अप्य् अतिपापानि नाशं यान्ति ममाज्ञया । तत्र स्नानादि यः कृत्वा किञ्चिद् दत्त्वा यतात्मवान्

॥५४॥

पितॄणां पिण्डदानादि कृत्वा नत्वा सुरान् इमान् । धनं धान्यं यशो वीर्यम् आयुर् आरोग्यसम्पदः

॥५५॥

पुत्रान् पौत्रान् प्रियां भार्यां लब्ध्वा चान्यन् मनीषितम् । अवियुक्तः प्रीतमना बन्धुभिश् चातिमानितः

॥५६॥

नरकस्थान् अपि पितॄंस् तारयित्वा कुलानि च । पावयित्वा प्रियैर् युक्तो ह्य् अन्ते विष्णुं शिवं स्मरेत् । ततो मुक्तिपदं गच्छेद् देवानां वचनं यथा

॥५७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).