मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ९

3
ब्रह्मपुराणम् · 9

अध्यायः ९

लोमहर्षण उवाच:

पिता सोमस्य भो विप्रा जज्ञेऽत्रिर् भगवान् ऋषिः । ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः

॥१॥

अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा । त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्

॥२॥

ऊर्ध्वम् आचक्रमे तस्य रेतः सोमत्वम् ईयिवत् । नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः

॥३॥

तं गर्भं विधिनादिष्टा दश देव्यो दधुस् ततः । समेत्य धारयाम् आसुर् न च ताः समशक्नुवन्

॥४॥

यदा न धारणे शक्तास् तस्य गर्भस्य ता दिशः । ततस् ताभिः स त्यक्तस् तु निपपात वसुन्धराम्

॥५॥

पतितं सोमम् आलोक्य ब्रह्मा लोकपितामहः । रथम् आरोपयाम् आस लोकानां हितकाम्यया

॥६॥

तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि । तुष्टुवुर् ब्रह्मणः पुत्रास् तथान्ये मुनिसत्तमाः

॥७॥

तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः । आप्यायनाय लोकानां भावयाम् आस सर्वतः

॥८॥

स तेन रथमुख्येन सागरान्तां वसुन्धराम् । त्रिःसप्तकृत्वोऽतियशाश् चकाराभिप्रदक्षिणाम्

॥९॥

तस्य यच् चरितं तेजः पृथिवीम् अन्वपद्यत । ओषध्यस् ताः समुद्भूता याभिः सन्धार्यते जगत्

॥१०॥

स लब्धतेजा भगवान् संस्तवैश् च स्वकर्मभिः । तपस् तेपे महाभागः पद्मानां दर्शनाय सः

॥११॥

ततस् तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । बीजौषधीनां विप्राणाम् अपां च मुनिसत्तमाः

॥१२॥

स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः । समाजह्रे राजसूयं सहस्रशतदक्षिणम्

॥१३॥

दक्षिणाम् अददात् सोमस् त्रींल् लोकान् इति नः श्रुतम् । तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश् च भो द्विजाः

॥१४॥

हिरण्यगर्भो ब्रह्मात्रिर् भृगुश् च ऋत्विजोऽभवत् । सदस्योऽभूद् धरिस् तत्र मुनिभिर् बहुभिर् वृतः

॥१५॥

तं सिनीश् च कुहूश् चैव द्युतिः पुष्टिः प्रभा वसुः । कीर्तिर् धृतिश् च लक्ष्मीश् च नव देव्यः सिषेविरे

॥१६॥

प्राप्यावभृथम् अप्य् अग्र्यं सर्वदेवर्षिपूजितः । विरराजाधिराजेन्द्रो दशधा भासयन् दिशः

॥१७॥

तस्य तत् प्राप्य दुष्प्राप्यम् ऐश्वर्यम् ऋषिसत्कृतम् । विबभ्राम मतिस् ताताविनयाद् अनयाहृता

॥१८॥

बृहस्पतेः स वै भार्याम् ऐश्वर्यमदमोहितः । जहार तरसा सोमो विमत्याङ्गिरसः सुतम्

॥१९॥

स याच्यमानो देवैश् च तथा देवर्षिभिर् मुहुः । नैव व्यसर्जयत् तारां तस्माऐ अङ्गिरसे तदा

॥२०॥

उशना तस्य जग्राह पार्ष्णिम् अङ्गिरसस् तदा । रुद्रश् च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः

॥२१॥

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः

॥२२॥

तत्र तद् युद्धम् अभवत् प्रख्यातं तारकामयम् । देवानां दानवानां च लोकक्षयकरं महत्

॥२३॥

तत्र शिष्टास् तु ये देवास् तुषिताश् चैव ये द्विजाः । ब्रह्माणं शरणं जग्मुर् आदिदेवं सनातनम्

॥२४॥

तदा निवार्योशनसं तं वै रुद्रं च शङ्करम् । ददाव् अङ्गिरसे तारां स्वयम् एव पितामहः

॥२५॥

ताम् अन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः । मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन

॥२६॥

इषीकास्तम्बम् आसाद्य गर्भं सा चोत्ससर्ज ह । जातमात्रः स भगवान् देवानाम् आक्षिपद् वपुः

॥२७॥

ततः संशयम् आपन्नास् ताराम् ऊचुः सुरोत्तमाः । सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः

॥२८॥

पृच्छ्यमाना यदा देवैर् नाह सा विबुधान् किल । तदा तां शप्तुम् आरब्धः कुमारो दस्युहन्तमः

॥२९॥

तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् । यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस् त्व् अयम्

॥३०॥

उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् । तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति

॥३१॥

बुध इत्य् अकरोन् नाम तस्य बालस्य धीमतः । प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः

॥३२॥

उत्पादयाम् आस तदा पुत्रं वैराजपुत्रिकम् । तस्यापत्यं महातेजा बभूवैलः पुरूरवाः

॥३३॥

उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । एतत् सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम्

॥३४॥

वंशम् अस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत । धन्यम् आयुष्यम् आरोग्यं पुण्यं सङ्कल्पसाधनम्

॥३५॥

सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते

॥३६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).