मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ३१

3
ब्रह्मपुराणम् · 31

अध्यायः ३१

ब्रह्मोवाच:

आदित्यमूलम् अखिलं त्रैलोक्यं मुनिसत्तमाः । भवत्य् अस्माज् जगत् सर्वं सदेवासुरमानुषम्

॥१॥

रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् । महाद्युतिमतां चैव तेजोऽयं सार्वलौकिकम्

॥२॥

सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । सूर्य एव त्रिलोकस्य मूलं परमदैवतम्

॥३॥

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः

॥४॥

सूर्यात् प्रसूयते सर्वं तत्र चैव प्रलीयते । भावाभावौ हि लोकानाम् आदित्यान् निःसृतौ पुरा

॥५॥

एतत् तु ध्यानिनां ध्यानं मोक्षश् चाप्य् एष मोक्षिणाम् । तत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात् पुनः पुनः

॥६॥

क्षणा मुहूर्ता दिवसा निशा पक्षाश् च नित्यशः । मासाः संवत्सराश् चैव ऋतवश् च युगानि च

॥७॥

अथादित्याद् ऋते ह्य् एषां कालसङ्ख्या न विद्यते । कालाद् ऋते न नियमो नाग्नौ विहरणक्रिया

॥८॥

ऋतूनाम् अविभागश् ततः पुष्पफलं कुतः । कुतो वै सस्यनिष्पत्तिस् तृणौषधिगणः कुतः

॥९॥

अभावो व्यवहाराणां जन्तूनां दिवि चेह च । जगत्प्रभावाद् विशते भास्कराद् वारितस्करात्

॥१०॥

नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति । नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः

॥११॥

वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसन्निभः । श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः

॥१२॥

हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः । इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः

॥१३॥

ऋतुस्वभाववर्णैश् च सूर्यः क्षेमसुभिक्षकृत् । अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः

॥१४॥

द्वादशैव पृथक्त्वेन तानि वक्ष्याम्य् अशेषतः । आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रभाकरः

॥१५॥

मार्तण्डो भास्करो भानुश् चित्रभानुर् दिवाकरः । रविर् द्वादशभिस् तेषां ज्ञेयः सामान्यनामभिः

॥१६॥

विष्णुर् धाता भगः पूषा मित्रेन्द्रौ वरुणोऽर्यमा । विवस्वान् अंशुमांस् त्वष्टा पर्जन्यो द्वादशः स्मृतः

॥१७॥

इत्य् एते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः । उत्तिष्ठन्ति सदा ह्य् एते मासैर् द्वादशभिः क्रमात्

॥१८॥

विष्णुस् तपति चैत्रे तु वैशाखे चार्यमा तथा । विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः

॥१९॥

पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसञ्ज्ञके । इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके

॥२०॥

मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः । माघे भगस् तु विज्ञेयस् त्वष्टा तपति फाल्गुने

॥२१॥

शतैर् द्वादशभिर् विष्णू रश्मिभिर् दीप्यते सदा । दीप्यते गोसहस्रेण शतैश् च त्रिभिर् अर्यमा

॥२२॥

द्विःसप्तकैर् विवस्वांस् तु अंशुमान् पञ्चभिस् त्रिभिः । विवस्वान् इव पर्जन्यो वरुणश् चार्यमा तथा

॥२३॥

मित्रवद् भगवांस् त्वष्टा सहस्रेण शतेन च । इन्द्रस् तु द्विगुणैः षड्भिर् धातैकादशभिः शतैः

॥२४॥

सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः । उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयस् तथा

॥२५॥

दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । एवं रश्मिसहस्रं तु सूर्यलोकाद् अनुग्रहम्

॥२६॥

एवं नाम्नां चतुर्विंशद् एक एषां प्रकीर्तितः । विस्तरेण सहस्रं तु पुनर् अन्यत् प्रकीर्तितम्

॥२७॥

मुनय ऊचुः:

ये तन्नामसहस्रेण स्तुवन्त्य् अर्कं प्रजापते । तेषां भवति किं पुण्यं गतिश् च परमेश्वर

॥२८॥

ब्रह्मोवाच:

शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् । अलं नामसहस्रेण पठन्न् एवं स्तवं शुभम्

॥२९॥

यानि नामानि गुह्यानि पवित्राणि शुभानि च । तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै

॥३०॥

विकर्तनो विवस्वांश् च मार्तण्डो भास्करो रविः । लोकप्रकाशकः श्रीमांल् लोकचक्षुर् महेश्वरः

॥३१॥

लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । तपनस् तापनश् चैव शुचिः सप्ताश्ववाहनः

॥३२॥

गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । एकविंशति इत्य् एष स्तव इष्टः सदा रवेः

॥३३॥

शरीरारोग्यदश् चैव धनवृद्धियशस्करः । स्तवराज इति ख्यातस् त्रिषु लोकेषु विश्रुतः

॥३४॥

य एतेन द्विजश्रेष्ठा द्विसन्ध्येऽस्तमनोदये । स्तौति सूर्यं शुचिर् भूत्वा सर्वपापैः प्रमुच्यते

॥३५॥

मानसं वाचिकं वापि देहजं कर्मजं तथा । एकजप्येन तत् सर्वं नश्यत्य् अर्कस्य सन्निधौ

॥३६॥

एकजप्यश् च होमश् च सन्ध्योपासनम् एव च । धूपमन्त्रार्घ्यमन्त्रश् च बलिमन्त्रस् तथैव च

॥३७॥

अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे । पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः

॥३८॥

तस्माद् यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः । स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम्

॥३९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).