अध्यायः ११
लोमहर्षण उवाच:
आयोः पुत्राश् च ते पञ्च सर्वे वीरा महारथाः । स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः
॥१॥नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । रम्भो रजिर् अनेनाश् च त्रिषु लोकेषु विश्रुताः
॥२॥रजिः पुत्रशतानीह जनयाम् आस पञ्च वै । राजेयम् इति विख्यातं क्षत्रम् इन्द्रभयावहम्
॥३॥यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे । देवाश् चैवासुराश् चैव पितामहम् अथाब्रुवन्
॥४॥देवासुरा ऊचुः:
आवयोर् भगवन् युद्धे को विजेता भविष्यति । ब्रूहि नः सर्वभूतेश श्रोतुम् इच्छाम तत्त्वतः
॥५॥ब्रह्मोवाच:
येषाम् अर्थाय सङ्ग्रामे रजिर् आत्तायुधः प्रभुः । योत्स्यते ते विजेष्यन्ति त्रींल् लोकान् नात्र संशयः
॥६॥यतो रजिर् धृतिस् तत्र श्रीश् च तत्र यतो धृतिः । यतो धृतिश् च श्रीश् चैव धर्मस् तत्र जयस् तथा
॥७॥ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा । अभ्ययुर् जयम् इच्छन्तो वृण्वानास् तं नरर्षभम्
॥८॥स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत । राजा परमतेजस्वी सोमवंशविवर्धनः
॥९॥ते हृष्टमनसः सर्वे रजिं वै देवदानवाः । ऊचुर् अस्मज्जयाय त्वं गृहाण वरकार्मुकम्
॥१०॥अथोवाच रजिस् तत्र तयोर् वै देवदैत्ययोः । अर्थज्ञः स्वार्थम् उद्दिश्य यशः स्वं च प्रकाशयन्
॥११॥रजिर् उवाच:
यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः । इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे
॥१२॥देवाः प्रथमतो विप्राः प्रतीयुर् हृष्टमानसाः । एवं यथेष्टं नृपते कामः सम्पद्यतां तव
॥१३॥श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस् तदा । पप्रच्छासुरमुख्यांस् तु यथा देवान् अपृच्छत
॥१४॥दानवा दर्पसम्पूर्णाः स्वार्थम् एवावगम्य ह । प्रत्यूचुस् तं नृपवरं साभिमानम् इदं वचः
॥१५॥दानवा ऊचुः:
अस्माकम् इन्द्रः प्रह्रादो यस्यार्थे विजयामहे । अस्मिंस् तु समरे राजंस् तिष्ठ त्वं राजसत्तम
॥१६॥स तथेति ब्रुवन्न् एव देवैर् अप्य् अतिचोदितः । भविष्यसीन्द्रो जित्वैनं देवैर् उक्तस् तु पार्थिवः
॥१७॥जघान दानवान् सर्वान् येऽवध्या वज्रपाणिनः । स विप्रनष्टां देवानां परमश्रीः श्रियं वशी
॥१८॥निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः । ततो रजिं महावीर्यं देवैः सह शतक्रतुः
॥१९॥रजिपुत्रोऽहम् इत्य् उक्त्वा पुनर् एवाब्रवीद् वचः । इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः
॥२०॥यस्याहम् इन्द्रः पुत्रस् ते ख्यातिं यास्यामि कर्मभिः । स तु शक्रवचः श्रुत्वा वञ्चितस् तेन मायया
॥२१॥तथैवेत्य् अब्रवीद् राजा प्रीयमाणः शतक्रतुम् । तस्मिंस् तु देवैः सदृशो दिवं प्राप्ते महीपतौ
॥२२॥दायाद्यम् इन्द्राद् आजह्रू राज्यं तत्तनया रजेः । पञ्च पुत्रशतान्य् अस्य तद् वै स्थानं शतक्रतोः
॥२३॥समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् । ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः
॥२४॥ब्रह्मद्विषश् च संवृत्ता हतवीर्यपराक्रमाः । ततो लेभे स्वम् ऐश्वर्यम् इन्द्रः स्थानं तथोत्तमम्
॥२५॥हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् । य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः । शृणुयाद् धारयेद् वापि न स दौर्गत्यम् आप्नुयात्
॥२६॥लोमहर्षण उवाच:
रम्भोऽनपत्यस् त्व् आसीच् च वंशं वक्ष्याम्य् अनेनसः । अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः
॥२७॥प्रतिक्षत्रसुतश् चासीत् सञ्जयो नाम विश्रुतः । सञ्जयस्य जयः पुत्रो विजयस् तस्य चात्मजः
॥२८॥विजयस्य कृतिः पुत्रस् तस्य हर्यत्वतः सुतः । हर्यत्वतसुतो राजा सहदेवः प्रतापवान्
॥२९॥सहदेवस्य धर्मात्मा नदीन इति विश्रुतः । नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः
॥३०॥सङ्कृतेर् अपि धर्मात्मा क्षत्रवृद्धो महायशाः । अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः
॥३१॥क्षत्रवृद्धात्मजस् तत्र सुनहोत्रो महायशाः । सुनहोत्रस्य दायादास् त्रयः परमधार्मिकाः
॥३२॥काशः शलश् च द्वाव् एतौ तथा गृत्समदः प्रभुः । पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः
॥३३॥ब्राह्मणाः क्षत्रियाश् चैव वैश्याः शूद्रास् तथैव च । शलात्मज आर्ष्टिसेणस् तनयस् तस्य काश्यपः
॥३४॥काशस्य काशिपो राजा पुत्रो दीर्घतपास् तथा । धनुस् तु दीर्घतपसो विद्वान् धन्वन्तरिस् ततः
॥३५॥तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः । पुनर् धन्वन्तरिर् देवो मानुषेष्व् इह जन्मनि
॥३६॥तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस् तदा । काशिराजो महाराजः सर्वरोगप्रणाशनः
॥३७॥आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः । तम् अष्टधा पुनर् व्यस्य शिष्येभ्यः प्रत्यपादयत्
॥३८॥धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः । अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः
॥३९॥पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः । दिवोदासस् तु धर्मात्मा वाराणस्यधिपोऽभवत्
॥४०॥एतस्मिन्न् एव काले तु पुरीं वाराणसीं द्विजाः । शून्यां निवेशयाम् आस क्षेमको नाम राक्षसः
॥४१॥शप्ता हि सा मतिमता निकुम्भेन महात्मना । शून्या वर्षसहस्रं वै भवित्री तु न संशयः
॥४२॥तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः । विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत्
॥४३॥भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् । भद्रश्रेण्यस्य पुत्राणां शतम् उत्तमधन्विनाम्
॥४४॥हत्वा निवेशयाम् आस दिवोदासो नराधिपः । भद्रश्रेण्यस्य तद् राज्यं हृतं येन बलीयसा
॥४५॥भद्रश्रेण्यस्य पुत्रस् तु दुर्दमो नाम विश्रुतः । दिवोदासेन बालेति घृणया स विसर्जितः
॥४६॥हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः । आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्
॥४७॥भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । वैरस्यान्तो महाभागाः कृतश् चात्मीयतेजसा
॥४८॥दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः । तेन बालेन पुत्रेण प्रहृतं तु पुनर् बलम्
॥४९॥प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ । वत्सपुत्रो ह्य् अलर्कस् तु सन्नतिस् तस्य चात्मजः
॥५०॥अलर्कस् तस्य पुत्रस् तु ब्रह्मण्यः सत्यसङ्गरः । अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः
॥५१॥षष्टिर् वर्षसहस्राणि षष्टिर् वर्षशतानि च । युवा रूपेण सम्पन्नः प्राग् आसीच् च कुलोद्वहः
॥५२॥लोपामुद्राप्रसादेन परमायुर् अवाप्तवान् । तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः
॥५३॥शापस्यान्ते महाबाहुर् हत्वा क्षेमकराक्षसम् । रम्यां निवेशयाम् आस पुरीं वाराणसीं पुनः
॥५४॥सन्नतेर् अपि दायादः सुनीथो नाम धार्मिकः । सुनीथस्य तु दायादः क्षेमो नाम महायशाः
॥५५॥क्षेमस्य केतुमान् पुत्रः सुकेतुस् तस्य चात्मजः । सुकेतोस् तनयश् चापि धर्मकेतुर् इति स्मृतः
॥५६॥धर्मकेतोस् तु दायादः सत्यकेतुर् महारथः । सत्यकेतुसुतश् चापि विभुर् नाम प्रजेश्वरः
॥५७॥आनर्तस् तु विभोः पुत्रः सुकुमारश् च तत्सुतः । सुकुमारस्य पुत्रस् तु धृष्टकेतुः सुधार्मिकः
॥५८॥धृष्टकेतोस् तु दायादो वेणुहोत्रः प्रजेश्वरः । वेणुहोत्रसुतश् चापि भार्गो नाम प्रजेश्वरः
॥५९॥वत्सस्य वत्सभूमिस् तु भार्गभूमिस् तु भार्गजः । एते त्व् अङ्गिरसः पुत्रा जाता वंशेऽथ भार्गव
॥६०॥ब्राह्मणाः क्षत्रिया वैश्यास् त्रयः पुत्राः सहस्रशः । इत्य् एते काश्यपाः प्रोक्ता नहुषस्य निबोधत
॥६१॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).