अध्यायः ११०
ब्रह्मोवाच:
पिप्पलं तीर्थम् आख्यातं चक्रतीर्थाद् अनन्तरम् । यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः
॥१॥यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं विभुम् । पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम्
॥२॥यत्र प्रीतोऽभवद् विष्णोः शम्भुस् तत् पिप्पलं विदुः । महिमानं यस्य वक्तुं न क्षमोऽप्य् अहिनायकः
॥३॥चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् । शृणु नारद तद् भक्त्या साक्षाद् वेदोदितं मया
॥४॥दधीचिर् इति विख्यातो मुनिर् आसीद् गुणान्वितः । तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता
॥५॥लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी । इति नाम्ना च विख्याता वडवेति प्रकीर्तिता
॥६॥दधीचेः सा प्रिया नित्यं तपस् तेपे तया महत् । दधीचिर् अग्निमान् नित्यं गृहधर्मपरायणः
॥७॥भागीरथीं समाश्रित्य देवातिथिपरायणः । स्वकलत्ररतः शान्तः कुम्भयोनिर् इवापरः
॥८॥तस्य प्रभावात् तं देशं नारयो दैत्यदानवाः । आजग्मुर् मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः
॥९॥तत्र देवाः समाजग्मू रुद्रादित्यास् तथाश्विनौ । इन्द्रो विष्णुर् यमोऽग्निश् च जित्वा दैत्यान् उपागतान्
॥१०॥जयेन जातसंहर्षाः स्तुताश् चैव मरुद्गणैः । दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः
॥११॥दधीचिर् जातसंहर्षः सुरान् पूज्य पृथक् पृथक् । गृहकृत्यं ततश् चक्रे सुरेभ्यो भार्यया सह
॥१२॥पृष्टाश् च कुशलं तेन कथाश् चक्रुः सुरा अपि । दधीचिम् अब्रुवन् देवा भार्यया सुखितं पुनः
॥१३॥आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः
॥१४॥देवा ऊचुः:
किम् अद्य दुर्लभं लोके ऋषेऽस्माकं भविष्यति । त्वादृशः सकृपो येषु मुनिर् भूकल्पपादपः
॥१५॥एतद् एव फलं पुंसां जीवतां मुनिसत्तम । तीर्थाप्लुतिर् भूतदया दर्शनं च भवादृशाम्
॥१६॥यत् स्नेहाद् उच्यतेऽस्माभिर् अवधारय तन् मुने । जित्वा दैत्यान् इह प्राप्ता हत्वा राक्षसपुङ्गवान्
॥१७॥वयं च सुखिनो ब्रह्मंस् त्वयि दृष्टे विशेषतः । नायुधैः फलम् अस्माकं वोढुं नैव क्षमा वयम्
॥१८॥स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर । स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च
॥१९॥नयेयुर् आयुधानीति तथैव च रसातले । तस्मात् तवाश्रमे पुण्ये स्थाप्यन्तेऽस्त्राणि मानद
॥२०॥नैवात्र किञ्चिद् भयम् अस्ति विप्र । न दानवेभ्यो राक्षसेभ्यश् च घोरम् । त्वदाज्ञया रक्षितपुण्यदेशो । न विद्यते तपसा ते समानः
॥२१॥जितारयो ब्रह्मविदां वरिष्ठं । वयं च पूर्वं निहता दैत्यसङ्घाः । अस्त्रैर् अलं भारभूतैः कृतार्थैः । स्थाप्यं स्थानं ते समीपे मुनीश
॥२२॥दिव्यान् भोगान् कामिनीभिः समेतान् । देवोद्याने नन्दने सम्भजामः । ततो यामः कृतकार्याः सहेन्द्राः । स्वं स्वं स्थानं चायुधानां च रक्षा
॥२३॥त्वया कृता जायतां तत् प्रशाधि । समर्थस् त्वं रक्षणे धारणे च
॥२४॥ब्रह्मोवाच:
तद्वाक्यम् आकर्ण्य दधीचिर् एवं । वाक्यं जगौ विबुधान् एवम् अस्तु । निवार्यमाणः प्रियशीलया स्त्रिया । किं देवकार्येण विरुद्धकारिणा
॥२५॥ये ज्ञातशास्त्राः परमार्थनिष्ठाः । संसारचेष्टासु गतानुरागाः । तेषां परार्थव्यसनेन किं मुने । येनात्र वामुत्र सुखं न किञ्चित्
॥२६॥देवद्विषो द्वेषम् अनुप्रयान्ति । दत्ते स्थाने विप्रवर्य शृणुष्व । नष्टे हृते चायुधानां मुनीश । कुप्यन्ति देवा रिपवस् ते भवन्ति
॥२७॥तस्मान् नेदं वेदविदां वरिष्ठ । युक्तं द्रव्ये परकीये ममत्वम् । तावच् च मैत्री द्रव्यभावश् च तावन् । नष्टे हृते रिपवस् ते भवन्ति
॥२८॥चेद् अस्ति शक्तिर् द्रव्यदाने ततस् ते । दातव्यम् एवार्थिने किं विचार्यम् । नो चेत् सन्तः परकार्याणि कुर्युर् । वाग्भिर् मनोभिः कृतिभिस् तथैव
॥२९॥परस्वसन्धारणम् एतद् एव । सद्भिर् निरस्तं त्यज कान्त सद्यः
॥३०॥ब्रह्मोवाच:
एवं प्रियाया वचनं स विप्रो । निशम्य भार्याम् इदम् आह सुभ्रूम्
॥३१॥दधीचिर् उवाच:
पुरा सुराणाम् अनुमान्य भद्रे । नेतीति वाणी न सुखं ममैति
॥३२॥ब्रह्मोवाच:
श्रुत्वेरितं पत्युर् इति प्रियायां । दैवं विनान्यन् न नृणां समर्थम् । तूष्णीं स्थितायां सुरसत्तमास् ते । संस्थाप्य चास्त्राण्य् अतिदीप्तिमन्ति
॥३३॥नत्वा मुनीन्द्रं ययुर् एव लोकान् । दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः । गतेषु देवेषु मुनिप्रवर्यो । हृष्टोऽवसद् भार्यया धर्मयुक्तः
॥३४॥गते च काले ह्य् अतिविप्रयुक्ते । दैवे वर्षे सङ्ख्यया वै सहस्रे । न ते सुरा आयुधानां मुनीश । वाचं मनश् चापि तथैव चक्रुः
॥३५॥दधीचिर् अप्य् आह गभस्तिम् ओजसा । देवारयो मां द्विषतीह भद्रे । न ते सुरा नेतुकामा भवन्ति । संस्थापितान्य् अत्र वदस्व युक्तम्
॥३६॥सा चाह कान्तं विनयाद् उक्तम् एव । त्वं जानीषे नाथ यद् अत्र युक्तम् । दैत्या हरिष्यन्ति महाप्रवृद्धास् । तपोयुक्ता बलिनः स्वायुधानि
॥३७॥तदस्त्ररक्षार्थम् इदं स चक्रे । मन्त्रैस् तु सङ्क्षाल्य जलैश् च पुण्यैः । तद् वारि सर्वास्त्रमयं सुपुण्यं । तेजोयुक्तं तच् च पपौ दधीचिः
॥३८॥निर्वीर्यरूपाणि तदायुधानि । क्षयं जग्मुः क्रमशः कालयोगात् । सुराः समागत्य दधीचिम् ऊचुर् । महाभयं ह्य् आगतं शात्रवं नः
॥३९॥ददस्व चास्त्राणि मुनिप्रवीर । यानि त्वदन्ते निहितानि देवैः । दधीचिर् अप्य् आह सुरारिभीत्या । अनागत्या भवतां चाचिरेण
॥४०॥अस्त्राणि पीतानि शरीरसंस्थान्य् । उक्तानि युक्तं मम तद् वदन्तु । श्रुत्वा तदुक्तं वचनं तु देवाः । प्रोचुस् तम् इत्थं विनयावनम्राः
॥४१॥अस्त्राणि देहीति च वक्तुम् एतच् । छक्यं न वान्यत् प्रतिवक्तुं मुनीन्द्र । विना च तैः परिभूयेम नित्यं । पुष्टारयः क्व प्रयामो मुनीश
॥४२॥न मर्त्यलोके न तले न नाके । वासः सुराणां भविताद्य तात । त्वं विप्रवर्यस् तपसा चैव युक्तो । नान्यद् वक्तुं युज्यते ते पुरस्तात्
॥४३॥विप्रस् तदोवाच मदस्थिसंस्थान्य् । अस्त्राणि गृह्णन्तु न संशयोऽत्र । देवास् तम् अप्य् आहुर् अनेन किं नो ह्य् । अस्त्रैर् हीनाः स्त्रीत्वम् आप्ताः सुरेन्द्राः
॥४४॥पुनस् तदा चाह मुनिप्रवीरस् । त्यक्ष्ये जीवान् दैहिकान् योगयुक्तः । अस्त्राणि कुर्वन्तु मदस्थिभूतान्य् । अनुत्तमान्य् उत्तमरूपवन्ति
॥४५॥कुरुष्व चेत्य् आहुर् अदीनसत्त्वं । दधीचिम् इत्य् उत्तरम् अग्निकल्पम् । तदा तु तस्य प्रियम् ईरयन्ती । न सान्निध्ये प्रातिथेयी मुनीश
॥४६॥ते चापि देवास् ताम् अदृष्ट्वैव शीघ्रं । तस्या भीता विप्रम् ऊचुः कुरुष्व । तत्याज जीवान् दुस्त्यजान् प्रीतियुक्तो । यथासुखं देहम् इमं जुषध्वम्
॥४७॥मदस्थिभिः प्रीतिमन्तो भवन्तु । सुराः सर्वे किं तु देहेन कार्यम्
॥४८॥ब्रह्मोवाच:
इत्य् उक्त्वासौ बद्धपद्मासनस्थो । नासाग्रदत्ताक्षिप्रकाशप्रसन्नः । वायुं सवह्निं मध्यमोद्घाटयोगान् । नीत्वा शनैर् दहराकाशगर्भम्
॥४९॥यद् अप्रमेयं परमं पदं यद् । यद् ब्रह्मरूपं यद् उपासितव्यम् । तत्रैव विन्यस्य धियं महात्मा । सायुज्यतां ब्रह्मणोऽसौ जगाम
॥५०॥निर्जीवतां प्राप्तम् अभीक्ष्य देवाः । कलेवरं तस्य सुराश् च सम्यक् । त्वष्टारम् अप्य् ऊचुर् अतित्वरन्तः । कुरुष्व चास्त्राणि बहूनि सद्यः
॥५१॥स चापि तान् आह कथं नु कार्यं । कलेवरं ब्राह्मणस्येह देवाः । बिभेमि कर्तुं दारुणं चाक्षमोऽहं । विदारितान्य् आयुधान्य् उत्तमानि
॥५२॥तदस्थिभूतानि करोमि सद्यस् । ततो देवा गाः समूचुस् त्वरन्तः
॥५३॥देवा ऊचुः:
वज्रं मुखं वः क्रियते हितार्थं । गावो देवैर् आयुधार्थं क्षणेन । दधीचिदेहं तु विदार्य यूयम् । अस्थीनि शुद्धानि प्रयच्छताद्य
॥५४॥ब्रह्मोवाच:
ता देववाक्याच् च तथैव चक्रुः । संलिह्य चास्थीनि ददुः सुराणाम् । सुरास् त्वरा जग्मुर् अदीनसत्त्वाः । स्वम् आलयं चापि तथैव गावः
॥५५॥कृत्वा तथास्त्राणि च देवतानां । त्वष्टा जगामाथ सुराज्ञया तदा । ततश् चिराच् छीलवती सुभद्रा । भर्तुः प्रिया बालगर्भा त्वरन्ती
॥५६॥करे गृहीत्वा कलशं वारिपूर्णम् । उमां नत्वा फलपुष्पैः समेत्य । अग्निं च भर्तारम् अथाश्रमं च । सन्द्रष्टुकामा ह्य् आजगामाथ शीघ्रम्
॥५७॥आगच्छन्तीं तां प्रातिथेयीं तदानीं । निवारयाम् आस तदोल्कपातः । सा सम्भ्रमाद् आगता चाश्रमं स्वं । नैवापश्यत् तत्र भर्तारम् अग्रे
॥५८॥क्व वा गतश् चेति सविस्मया सा । पप्रच्छ चाग्निं प्रातिथेयी तदानीम् । अग्निस् तदोवाच सविस्तरं तां । देवागमं याचनं वै शरीरे
॥५९॥अस्थ्नाम् उपादानम् अथ प्रयाणं । श्रुत्वा सर्वं दुःखिता सा बभूव । दुःखोद्वेगात् सा पपाताथ पृथ्व्यां । मन्दं मन्दं वह्निनाश्वासिता च
॥६०॥प्रातिथेय्य् उवाच:
शापेऽमराणां तु नाहं समर्था । अग्निं प्राप्स्ये किं नु कार्यं भवेन् मे
॥६१॥ब्रह्मोवाच:
कोपं च दुःखं च नियम्य साध्वी । तदावादीद् धर्मयुक्तं च भर्तुः
॥६२॥प्रातिथेय्य् उवाच:
उत्पद्यते यत् तु विनाशि सर्वं । न शोच्यम् अस्तीति मनुष्यलोके । गोविप्रदेवार्थम् इह त्यजन्ति । प्राणान् प्रियान् पुण्यभाजो मनुष्याः
॥६३॥संसारचक्रे परिवर्तमाने । देहं समर्थं धर्मयुक्तं त्व् अवाप्य । प्रियान् प्राणान् देवविप्रार्थहेतोस् । ते वै धन्याः प्राणिनो ये त्यजन्ति
॥६४॥प्राणाः सर्वेऽस्यापि देहान्वितस्य । यातारो वै नात्र सन्देहलेशः । अर्थं चैनान् उत्सृजन्तीश्वरास् ते
॥६५॥निवार्यमाणोऽपि मया प्रपन्नया । चकार देवास्त्रपरिग्रहं सः । मनोगतं वेत्त्य् अथवा विधातुः । को मर्त्यलोकातिगचेष्टितस्य
॥६६॥ब्रह्मोवाच:
इत्य् एवम् उक्त्वापूज्य चाग्नीन् यथावद् । भर्तुस् त्वचा लोमभिः सा विवेश । गर्भस्थितं बालकं प्रातिथेयी । कुक्षिं विदार्याथ करे गृहीत्वा
॥६७॥नत्वा च गङ्गां भुवम् आश्रमं च । वनस्पतीन् ओषधीर् आश्रमस्थान्
॥६८॥प्रातिथेय्य् उवाच:
पित्रा हीनो बन्धुभिर् गोत्रजैश् च । मात्रा हीनो बालकः सर्व एव । रक्षन्तु सर्वेऽपि च भूतसङ्घास् । तथौषध्यो बालकं लोकपालाः
॥६९॥ये बालकं मातृपितृप्रहीणं । सनिर्विशेषं स्वतनुप्ररूढैः । पश्यन्ति रक्षन्ति त एव नूनं । ब्रह्मादिकानाम् अपि वन्दनीयाः
॥७०॥ब्रह्मोवाच:
इत्य् उक्त्वा चात्यजद् बालं भर्तृचित्तपरायणा । पिप्पलानां समीपे तु न्यस्य बालं नमस्य च
॥७१॥अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता । विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ
॥७२॥रुरुदुश् चाश्रमस्था ये वृक्षाश् च वनवासिनः । पुत्रवत् पोषिता येन ऋषिणा च दधीचिना
॥७३॥विना तेन न जीवामस् तया मात्रा विना तथा । मृगाश् च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम्
॥७४॥वृक्षा ऊचुः:
स्वर्गम् आसेदुषोः पित्रोस् तदपत्येष्व् अकृत्रिमम् । ये कुर्वन्त्य् अनिशं स्नेहं त एव कृतिनो नराः
॥७५॥दधीचिः प्रातिथेयी वा वीक्षतेऽस्मान् यथा पुरा । तथा पिता न माता वा धिग् अस्मान् पापिनो वयम्
॥७६॥अस्माकम् अपि सर्वेषाम् अतः प्रभृति निश्चितम् । बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः
॥७७॥ब्रह्मोवाच:
एवम् उक्त्वा तदौषध्यो वनस्पतिसमन्विताः । सोमं राजानम् अभ्येत्य याचिरेऽमृतम् उत्तमम्
॥७८॥स चापि दत्तवांस् तेभ्यः सोमोऽमृतम् अनुत्तमम् । ददुर् बालाय ते चापि अमृतं सुरवल्लभम्
॥७९॥स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी । पिप्पलैः पालितो यस्मात् पिप्पलादः स बालकः । प्रवृद्धः पिप्पलान् एवम् उवाच त्व् अतिविस्मितः
॥८०॥पिप्पलाद उवाच:
मानुषेभ्यो मानुषास् तु जायन्ते पक्षिभिः खगाः । बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते । वार्क्षस् त्व् अहं कथं जातो हस्तपादादिजीववान्
॥८१॥ब्रह्मोवाच:
वृक्षास् तद्वचनं श्रुत्वा सर्वम् ऊचुर् यथाक्रमम् । दधीचेर् मरणं साध्व्यास् तथा चाग्निप्रवेशनम्
॥८२॥अस्थ्नां संहरणं देवैर् एतत् सर्वं सविस्तरम् । श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि
॥८३॥आश्वासितः पुनर् वृक्षैर् वाक्यैर् धर्मार्थसंहितैः । आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन्
॥८४॥पिप्पलाद उवाच:
पितृहन्तॄन् हनिष्येऽहं नान्यथा जीवितुं क्षमः । पितुर् मित्राणि शत्रूंश् च तथा पुत्रोऽनुवर्तते
॥८५॥स एव पुत्रो योऽन्यस् तु पुत्ररूपो रिपुः स्मृतः । वदन्ति पितृमित्राणि तारयन्त्य् अहितान् अपि
॥८६॥ब्रह्मोवाच:
वृक्षास् तं बालम् आदाय सोमान्तिकम् अथाययुः । बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् । श्रुत्वा सोमोऽपि तं बालं पिप्पलादम् अभाषत
॥८७॥सोम उवाच:
गृहाण विद्यां विधिवत् समग्रां । तपःसमृद्धिं च शुभां च वाचम् । शौर्यं च रूपं च बलं च बुद्धिं । सम्प्राप्स्यसे पुत्र मदाज्ञया त्वम्
॥८८॥ब्रह्मोवाच:
पिप्पलादस् तम् अप्य् आह ओषधीशं विनीतवत्
॥८९॥पिप्पलाद उवाच:
सर्वम् एतद् वृथा मन्ये पितृहन्तृविनिष्कृतिम् । न करोम्य् अत्र यावच् च तस्मात् तत् प्रथमं वद
॥९०॥यस्मिन् देशे यत्र काले यस्मिन् देवे च मन्त्रके । यत्र तीर्थे च सिध्येत मत्सङ्कल्पः सुरोत्तम
॥९१॥ब्रह्मोवाच:
चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर् वा मुक्तिर् एव वा । सर्वं महेश्वराद् देवाज् जायते नात्र संशयः
॥९२॥स सोमं पुनर् अप्य् आह कथं द्रक्ष्ये महेश्वरम् । बालोऽहं बालबुद्धिश् च न सामर्थ्यं तपस् तथा
॥९३॥चन्द्र उवाच:
गौतमीं गच्छ भद्र त्वं स्तुहि चक्रेश्वरं हरम् । प्रसन्नस् तु तवेशानो ह्य् अल्पायासेन वत्सक
॥९४॥प्रीतो भवेन् महादेवः साक्षात् कारुणिकः शिवः । आस्ते साक्षात्कृतः शम्भुर् विष्णुना प्रभविष्णुना
॥९५॥वरं च दत्तवान् विष्णोश् चक्रं च त्रिदशार्चितम् । गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम्
॥९६॥चक्रेश्वरं नाम तीर्थं जानन्त्य् ओषधयस् तु तत् । तं गत्वा स्तुहि देवेशं सर्वभावेन शङ्करम् । स ते प्रीतमनास् तात सर्वान् कामान् प्रदास्यति
॥९७॥ब्रह्मोवाच:
तद् राजवचनाद् ब्रह्मन् पिप्पलादो महामुनिः । आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः
॥९८॥तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान् ययुः । गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् । तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः
॥९९॥पिप्पलाद उवाच:
सर्वाणि कर्माणि विहाय धीरास् । त्यक्तैषणा निर्जितचित्तवाताः । यं यान्ति मुक्त्यै शरणं प्रयत्नात् । तम् आदिदेवं प्रणमामि शम्भुम्
॥१००॥यः सर्वसाक्षी सकलान्तरात्मा । सर्वेश्वरः सर्वकलानिधानम् । विज्ञाय मच्चित्तगतं समस्तं । स मे स्मरारिः करुणां करोतु
॥१०१॥दिगीश्वराञ् जित्य सुरार्चितस्य । कैलासम् आन्दोलयतः पुरारेः । गतस्य तस्यैव दशाननस्य
॥१०२॥आलूनकायस्य गिरं निशम्य । विहस्य देव्या सह दत्तम् इष्टम् । तस्मै प्रसन्नः कुपितोऽपि तद्वद् । अयुक्तदातासि महेश्वर त्वम्
॥१०३॥सौत्रामणीम् ऋद्धिम् अधः स चक्रे । योऽर्चां हरौ नित्यम् अतीव कृत्वा । बाणः प्रशस्यः कृतवान् उच्चपूजां । रम्यां मनोज्ञां शशिखण्डमौलेः
॥१०४॥जित्वा रिपून् देवगणान् प्रपूज्य । गुरुं नमस्कर्तुम् अगाद् विशाखः । चुकोप दृष्ट्वा गणनाथम् ऊढम् । अङ्के तम् आरोप्य जहास सोमः
॥१०५॥ईशाङ्करूढोऽपि शिशुस्वभावान् । न मातुर् अङ्कं प्रमुमोच बालः । क्रुद्धं सुतं बोधितुम् अप्य् अशक्तस् । ततोऽर्धनारित्वम् अवाप सोमः
॥१०६॥ब्रह्मोवाच:
ततः स्वयम्भूः सुप्रीतः पिप्पलादम् अभाषत
॥१०७॥शिव उवाच:
वरं वरय भद्रं ते पिप्पलाद यथेप्सितम्
॥१०८॥पिप्पलाद उवाच:
हतो देवैर् महादेव पिता मम महायशाः । अदाम्भिकः सत्यवादी तथा माता पतिव्रता
॥१०९॥देवेभ्यश् च तयोर् नाशं श्रुत्वा नाथ सविस्तरम् । दुःखकोपसमाविष्टो नाहं जीवितुम् उत्सहे
॥११०॥तस्मान् मे देहि सामर्थ्यं नाशयेयं सुरान् यथा । अवध्यसेव्यस् त्रैलोक्ये त्वम् एव शशिशेखर
॥१११॥ईश्वर उवाच:
तृतीयं नयनं द्रष्टुं यदि शक्नोषि मेऽनघ । ततः समर्थो भविता देवांश् छेदयितुं भवान्
॥११२॥ब्रह्मोवाच:
ततो द्रष्टुं मनश् चक्रे तृतीयं लोचनं विभोः । न शशाक तदोवाच न शक्तोऽस्मीति शङ्करम्
॥११३॥ईश्वर उवाच:
किञ्चित् कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् । तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः
॥११४॥ब्रह्मोवाच:
एतच् छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः । दधीचिसूनुर् धर्मात्मा तत्रैव बहुलाः समाः
॥११५॥शिवध्यानैकनिरतो बालोऽपि बलवान् इव । प्रत्यहं प्रातर् उत्थाय स्नात्वा नत्वा गुरून् क्रमात्
॥११६॥सुखासीनो मनः कृत्वा सुषुम्नायाम् अनन्यधीः । हस्तस्वस्तिकम् आरोप्य नाभौ विस्मृतसंसृतिः
॥११७॥स्थानात् स्थानान्तरोत्कर्षान् विदध्यौ शाम्भवं महः । ददर्श चक्षुर् देवस्य तृतीयं पिप्पलाशनः । कृताञ्जलिपुटो भूत्वा विनीत इदम् अब्रवीत्
॥११८॥पिप्पलाद उवाच:
शम्भुना देवदेवेन वरो दत्तः पुरा मम । तार्तीयचक्षुषो ज्योतिर् यदा पश्यसि तत्क्षणात्
॥११९॥सर्वं ते प्रार्थितं सिध्येद् इत्य् आह त्रिदशेश्वरः । तस्माद् रिपुविनाशाय हेतुभूतां प्रयच्छ मे
॥१२०॥तदैव पिप्पलाः प्रोचुर् वडवापि महाद्युते । माता तव प्रातिथेयी वदन्त्य् एवं दिवं गता
॥१२१॥पराभिद्रोहनिरता विस्मृतात्महिता नराः । इतस् ततो भ्रान्तचित्ताः पतन्ति नरकावटे
॥१२२॥तन् मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः । अभिमाने ज्वलत्य् अन्तः साधुवादो निरर्थकः
॥१२३॥देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता । वडवेति स्मरन् विप्रः कृत्यापि वडवाकृतिः
॥१२४॥सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी । गभस्तिनी बालगर्भा या माता पिप्पलाशिनः
॥१२५॥तद्ध्यानयोगात् तु जाता कृत्या सानलगर्भिणी । उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा
॥१२६॥अवोचत् पिप्पलादं तं किं कृत्यं मे वदस्व तत् । पिप्पलादोऽपि तां प्राह देवान् खाद रिपून् मम
॥१२७॥जग्राह सा तथेत्य् उक्त्वा पिप्पलादं पुरस्थितम् । स प्राह किम् इदं कृत्ये सा चाप्य् आह त्वयोदितम्
॥१२८॥देवैश् च निर्मितं देहं ततो भीतः शिवं ययौ । तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः
॥१२९॥शिव उवाच:
योजनान्तःस्थिताञ् जीवान् न गृहाण मदाज्ञया । तस्माद् याहि ततो दूरं कृत्ये कृत्यं ततः कुरु
॥१३०॥ब्रह्मोवाच:
तीर्थात् तु पिप्पलात् पूर्वं यावद् योजनसङ्ख्यया । प्रातिष्ठद् वडवारूपा कृत्या सा ऋषिनिर्मिता
॥१३१॥तस्यां जातो महान् अग्निर् लोकसंहरणक्षमः । तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शम्भुम् उपागमन्
॥१३२॥चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् । स्तुवन्तो भीतमनसः शम्भुम् ऊचुर् दिवौकसः
॥१३३॥देवा ऊचुः:
रक्षस्व शम्भो कृत्यास्मान् बाधते तद्भवानलः । शरणं भव सर्वेश भीतानाम् अभयप्रद
॥१३४॥सर्वतः परिभूतानाम् आर्तानां श्रान्तचेतसाम् । सर्वेषाम् एव जन्तूनां त्वम् एव शरणं शिव
॥१३५॥ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता । सा जिघांसति लोकांस् त्रींस् त्वं नस् त्राता न चेतरः
॥१३६॥ब्रह्मोवाच:
तान् अब्रवीज् जगन्नाथो योजनान्तर्निवासिनः । न बाधते त्व् असौ कृत्या तस्माद् यूयम् अहर्निशम् । इहैवासध्वम् अमरास् तस्या वो न भयं भवेत्
॥१३७॥ब्रह्मोवाच:
पुनर् ऊचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् । तत् त्यक्त्वात्र कथं नाथ वत्स्यामस् त्रिदशार्चित
॥१३८॥ब्रह्मोवाच:
देवानां वचनं श्रुत्वा शिवो वाक्यम् अथाब्रवीत्
॥१४०॥शिव उवाच:
देवोऽसौ विश्वतश्चक्षुर् यो देवो विश्वतोमुखः । यो रश्मिभिस् तु धमते नित्यं यो जनको मतः
॥१४१॥स सूर्य एक एवात्र साक्षाद् रूपेण सर्वदा । स्थितिं करोतु तन्मूर्तौ भविष्यन्त्य् अखिलाः स्थिताः
॥१४२॥ब्रह्मोवाच:
तथेति शम्भुवचनात् पारिजाततरोस् तदा । देवा दिवाकरं चक्रुस् त्वष्टा भास्करम् अब्रवीत्
॥१४३॥त्वष्टोवाच:
इहैवास्स्व जगत्स्वामिन् रक्षेमान् विबुधान् स्वयम् । स्वांशैश् च वयम् अप्य् अत्र तिष्ठामः शम्भुसन्निधौ
॥१४४॥चक्रेश्वरस्य परितो यावद् योजनसङ्ख्यया । गङ्गाया उभयं तीरम् आसाद्यासन् सुरोत्तमाः
॥१४५॥अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः । तिस्रः कोट्यस् तथा पञ्च शतानि मुनिसत्तम । तीर्थानां तत्र व्युष्टिं च कः शृणोति ब्रवीति वा
॥१४६॥ब्रह्मोवाच:
ततः सुरगणाः सर्वे विनीताः शिवम् अब्रुवन्
॥१४७॥देवा ऊचुः:
पिप्पलादं सुरेशान शमं नय जगन्मय
॥१४८॥ब्रह्मोवाच:
ओम् इत्य् उक्त्वा जगन्नाथः पिप्पलादम् अवोचत
॥१४९॥शिव उवाच:
नाशितेष्व् अपि देवेषु पिता ते नागमिष्यति । दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये
॥१५०॥दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् । तथा याता दिवं तात तव माता पतिव्रता
॥१५१॥समा काप्य् अत्र मतया लोपामुद्राप्य् अरुन्धती । यद् अस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा
॥१५२॥तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् । त्वया पुत्रेण सर्वत्र नातः परतरं कृतम्
॥१५३॥त्वत्प्रतापभयात् स्वर्गाच् च्युतांस् त्वं पातुम् अर्हसि । कान्दिशीकांस् तव भयाद् अमरांस् त्रातुम् अर्हसि । नार्तत्राणाद् अभ्यधिकं सुकृतं क्वापि विद्यते
॥१५४॥यावद् यशः स्फुरति चारु मनुष्यलोके । अहानि तावन्ति दिवं गतस्य । दिने दिने वर्षसङ्ख्या परस्मिंल् । लोके वासो जायते निर्विकारः
॥१५५॥मृतास् त एवात्र यशो न येषाम् । अन्धास् त एव श्रुतवर्जिता ये । ये दानशीला न नपुंसकास् ते । ये धर्मशीला न त एव शोच्याः
॥१५६॥ब्रह्मोवाच:
भाषितं देवदेवस्य श्रुत्वा शान्तोऽभवन् मुनिः । कृताञ्जलिपुटो भूत्वा नत्वा नाथम् अथाब्रवीत्
॥१५७॥पिप्पलाद उवाच:
वाग्भिर् मनोभिः कृतिभिः कदाचिन् । ममोपकुर्वन्ति हिते रता ये । तेभ्यो हितार्थं त्व् इह चापरेषां । सोमं नमस्यामि सुरादिपूज्यम्
॥१५८॥संरक्षितो यैर् अभिवर्धितश् च । समानगोत्रश् च समानधर्मा । तेषाम् अभीष्टानि शिवः करोतु । बालेन्दुमौलिं प्रणतोऽस्मि नित्यम्
॥१५९॥यैर् अहं वर्धितो नित्यं मातृवत् पितृवत् प्रभो । तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये
॥१६०॥यशस् तु तेषां भविता तेभ्योऽहम् अनृणस् ततः । यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले
॥१६१॥तेभ्यो यद् इदम् अधिकम् अनुमन्यन्तु देवताः । ततः क्षमेऽहं देवानाम् अपराधं निरञ्जनः
॥१६२॥ब्रह्मोवाच:
ततः समक्षं सुरसाक्षरां गिरं । सहस्रचक्षुःप्रमुखांस् तथाग्रतः । उवाच देवा अपि मेनिरे वचो । दधीचिपुत्रोदितम् आदरेण
॥१६३॥बालस्य बुद्धिं विनयं च विद्यां । शौर्यं बलं साहसं सत्यवाचम् । पित्रोर् भक्तिं भावशुद्धिं विदित्वा । तदावादीच् छङ्करः पिप्पलादम्
॥१६४॥शङ्कर उवाच:
वत्स यद् वै प्रियं कामं यच् चापि सुरवल्लभम् । प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः
॥१६५॥पिप्पलाद उवाच:
ये गङ्गायाम् आप्लुता धर्मनिष्ठाः । सम्पश्यन्ति त्वत्पदाब्जं महेश । सर्वान् कामान् आप्नुवन्तु प्रसह्य । देहान्ते ते पदम् आयान्तु शैवम्
॥१६६॥तातः प्राप्तस् त्वत्पदं चाम्बिका मे । नाथ प्राप्ता पिप्पलश् चामराश् च । सुखं प्राप्ता नाथनाथं विलोक्य । त्वां पश्येयुस् त्वत्पदं ते प्रयान्तु
॥१६७॥ब्रह्मोवाच:
तथेत्य् उक्त्वा पिप्पलादं देवदेवो महेश्वरः । अभिनन्द्य च तं देवैः सार्धं वाक्यम् अथाब्रवीत्
॥१६८॥देवा अपि मुदा युक्ता निर्भयास् तत्कृताद् भयात् । इदम् ऊचुः सर्व एव दाधीचं शिवसन्निधौ
॥१६९॥देवा ऊचुः:
सुराणां यद् अभीष्टं च त्वया कृतम् असंशयम् । पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी
॥१७०॥याचितं च त्वया पूर्वं परार्थं नात्मने द्विज । तस्माद् अन्यतमं ब्रूहि किञ्चिद् दास्यामहे वयम्
॥१७१॥ब्रह्मोवाच:
पुनः पुनस् तद् एवोचुः सुरसङ्घा द्विजोत्तमम् । कृताञ्जलिपुटः पूर्वं नत्वा शम्भुसुरान् इदम् । उवाच पिप्पलादश् च उमां नत्वा च पिप्पलान्
॥१७२॥पिप्पलाद उवाच:
पितरौ द्रष्टुकामोऽस्मि सदा मे शब्दगोचरौ । ते धन्याः प्राणिनो लोके मातापित्रोर् वशे स्थिताः
॥१७३॥शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः । इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः
॥१७४॥परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत् स्वयम् । पशूनां पक्षिणां चापि सुलभं मातृदर्शनम्
॥१७५॥दुर्लभं मम तच् चापि पृच्छे पापफलं नु किम् । दुर्लभं च तथा चेत् स्यात् सर्वेषां यस्य कस्यचित्
॥१७६॥नोपपद्येत सुलभं मत्तो नान्योऽस्ति पापकृत् । तयोर् दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः
॥१७७॥मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति । पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ । तेषां महापातकानां कः सङ्ख्यां कर्तुम् ईश्वरः
॥१७८॥ब्रह्मोवाच:
तद् ऋषेर् वचनं श्रुत्वा मिथः सम्मन्त्र्य ते सुराः । विमानवरम् आरूढौ पितरौ दम्पती शुभौ
॥१७९॥तव सन्दर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् । विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय
॥१८०॥पश्य पश्येति तं प्राहुर् दाधीचं सुरसत्तमाः । विमानवरम् आरूढौ स्वर्गिणौ स्वर्णभूषणौ
॥१८१॥तव सन्दर्शनाकाङ्क्षौ पितरौ दम्पती शुभौ । वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किन्नरैः
॥१८२॥दृष्ट्वा स मातापितरौ ननाम शिवसन्निधौ । हर्षबाष्पाश्रुनयनौ स कथञ्चिद् उवाच तौ
॥१८३॥पुत्र उवाच:
तारयन्त्य् एव पितराव् अन्ये पुत्राः कुलोद्वहाः । अहं तु मातुर् उदरे केवलं भेदकारणम् । एवम्भूतोऽपि तौ मोहात् पश्येयम् अतिदुर्मतिः
॥१८४॥ब्रह्मोवाच:
ताव् आलोक्य ततो दुःखाद् वक्तुं नैव शशाक सः । देवाश् च मातापितरौ पिप्पलादम् अथाब्रुवन्
॥१८५॥धन्यस् त्वं पुत्र लोकेषु यस्य कीर्तिर् गता दिवम् । साक्षात्कृतस् त्वया त्र्यक्षो देवाश् चाश्वासितास् त्वया । त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन
॥१८६॥ब्रह्मोवाच:
पुष्पवृष्टिस् तदा स्वर्गात् पपात तस्य मूर्धनि । जयशब्दः सुरैर् उक्तः प्रादुर्भूतो महामुने
॥१८७॥आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया । शम्भुं गङ्गां सुरान् नत्वा पुत्रं वाक्यम् अथाब्रवीत्
॥१८८॥दधीचिर् उवाच:
प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय । पुत्रान् उत्पाद्य विधिवद् यज्ञान् इष्ट्वा सदक्षिणान् । कृतकृत्यस् ततो वत्स आक्रमस्व चिरं दिवम्
॥१८९॥ब्रह्मोवाच:
करोम्य् एवम् इति प्राह दधीचिं पिप्पलाशनः । दधीचिः पुत्रम् आश्वास्य भार्यया च पुनः पुनः
॥१९०॥अनुज्ञातः सुरगणैः पुनः स दिवम् आक्रमत् । देवा अप्य् ऊचिरे सर्वे पिप्पलादं ससम्भ्रमाः
॥१९१॥देवा ऊचुः:
कृत्यां शमय भद्रं ते तद् उत्पन्नं महानलम्
॥१९२॥ब्रह्मोवाच:
पिप्पलादस् तु तान् आह न शक्तोऽहं निवारणे । असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम्
॥१९३॥मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति । ताम् एव गत्वा विबुधाः प्रोचुस् ते शान्तिकारणम्
॥१९४॥अनलं च यथाप्रीति ते उभे नेत्य् अवोचताम् । सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना
॥१९५॥तथा च मत्प्रसूतोऽग्निर् अन्यथा तत् कथं भवेत् । महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा
॥१९६॥सर्वम् अस्मन्मुखे विद्याद् वक्तव्यं नावशिष्यते । मया सम्मन्त्र्य ते देवाः पुनर् ऊचुर् उभाव् अपि
॥१९७॥भक्षयेताम् उभौ सर्वं यथानुक्रमतस् तथा । वडवापि सुरान् एवम् उवाच शृणु नारद
॥१९८॥वडवोवाच:
भवताम् इच्छया सर्वं भक्ष्यं मे सुरसत्तमाः
॥१९९॥ब्रह्मोवाच:
वडवा सा नदी जाता गङ्गया सङ्गता मुने । तद्भवस् तु महान् अग्निर् य आसीद् अतिभीषणः । तम् आहुर् अमरा वह्निं भूतानाम् आदितो विदुः
॥२००॥सुरा ऊचुः:
आपो ज्येष्ठतमा ज्ञेयास् तथैव प्रथमं भवान् । तत्राप्य् अपाम्पतिं ज्येष्ठं समुद्रम् अशनं कुरु । यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम्
॥२०१॥ब्रह्मोवाच:
अनलस् त्व् अमरान् आह आपस् तत्र कथं त्व् अहम् । व्रजेयं यदि मां तत्र प्रापयन्त्य् उदकं महत्
॥२०२॥भवन्त एव तेऽप्य् आहुः कथं तेऽग्ने गतिर् भवेत् । अग्निर् अप्य् आह तान् देवान् कन्या मां गुणशालिनी
॥२०३॥हिरण्यकलशे स्थाप्य नयेद् यत्र गतिर् मम । तस्य तद् वचनं श्रुत्वा कन्याम् ऊचुः सरस्वतीम्
॥२०४॥देवा ऊचुः:
नयैनम् अनलं शीघ्रं शिरसा वरुणालयम्
॥२०५॥ब्रह्मोवाच:
सरस्वती सुरान् आह नैका शक्ता च धारणे । युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम्
॥२०६॥सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा । नर्मदां तपतीं चैव सुराः प्रोचुः पृथक् पृथक्
॥२०७॥ताभिः समन्वितोवाह हिरण्यकलशेऽनलम् । संस्थाप्य शिरसाधार्य ता जग्मुर् वरुणालयम्
॥२०८॥संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः । अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः
॥२०९॥प्रापयाम् आसुर् अनलं पञ्चनद्यः सरस्वती । अध्यास्ते च महान् अग्निः पिबन् वारि शनैः शनैः
॥२१०॥ततः सुरगणाः सर्वे शिवम् ऊचुः सुरोत्तमम्
॥२११॥देवा ऊचुः:
अस्थ्नां च पावनं ब्रूहि अस्माकं च गवां तथा
॥२१२॥ब्रह्मोवाच:
शिवः प्राह तदा सर्वान् गङ्गाम् आप्लुत्य यत्नतः । देवाश् च गावस् तत्पापान् मुच्यन्ते नात्र संशयः
॥२१३॥प्रक्षालितानि चास्थीनि ऋषिदेहभवान्य् अथ । तानि प्रक्षालनाद् एव तत्र प्राप्तानि पूतताम्
॥२१४॥यत्र देवा मुक्तपापास् तत् तीर्थं पापनाशनम् । तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम्
॥२१५॥गवां च पावनं यत्र गोतीर्थं तद् उदाहृतम् । तत्र स्नानान् महाबुद्धिर् गोमेधफलम् आप्नुयात्
॥२१६॥यत्र तद्ब्राह्मणास्थीनि आसन् पुण्यानि नारद । पितृतीर्थं तु वै ज्ञेयं पितॄणां प्रीतिवर्धनम्
॥२१७॥भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् । तत्र तीर्थे सङ्क्रमेरन् यावच् चन्द्रार्कतारकम्
॥२१८॥स्वर्गे वासो भवेत् तस्य अपि दुष्कृतकर्मणः । तथा चक्रेश्वरात् तीर्थात् त्रीणि तीर्थानि नारद । ततः पूताः सुरगणा गावः शम्भुम् अथाब्रुवन्
॥२१९॥गोसुरा ऊचुः:
यामः स्वं स्वम् अधिष्ठानम् अत्र सूर्यः प्रतिष्ठितः । अस्मिन् स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः
॥२२०॥भवेयुर् जगताम् ईश तद् अनुज्ञातुम् अर्हसि । सूर्यो ह्य् आत्मास्य जगतस् तस्थुषश् च सनातनः
॥२२१॥दिवाकरो देवमयस् तत्रास्माभिः प्रतिष्ठितः । यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् । सुरवासं प्रतिष्ठानं भवेद् यत्र च त्र्यम्बकम्
॥२२२॥ब्रह्मोवाच:
आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः । पिप्पलाः कालपर्याये स्वर्गं जग्मुर् अथाक्षयम्
॥२२३॥पादपानां पदं विप्रः पिप्पलादः प्रतापवान् । क्षेत्राधिपत्ये संस्थाप्य पूजयाम् आस शङ्करम्
॥२२४॥दधीचिसूनुर् मुनिर् उग्रतेजा । अवाप्य भार्यां गौतमस्यात्मजां च । पुत्रान् अथावाप्य श्रियं यशश् च । सुहृज्जनैः स्वर्गम् अवाप धीरः
॥२२५॥ततः प्रभृति तत् तीर्थं पिप्पलेश्वरम् उच्यते । सर्वक्रतुफलं पुण्यं स्मरणाद् अघनाशनम्
॥२२६॥किं पुनः स्नानदानाभ्याम् आदित्यस्य तु दर्शनात् । चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी
॥२२७॥सरहस्यं विदित्वा तु सर्वकामान् अवाप्नुयात् । सूर्यस्य च प्रतिष्ठानात् सुरवासे प्रतिष्ठिते । प्रतिष्ठानं तु तत् क्षेत्रं सुराणाम् अपि वल्लभम्
॥२२८॥इतीदम् आख्यानम् अतीव पुण्यं । पठेत वा यः शृणुयात् स्मरेद् वा । स दीर्घजीवी धनवान् धर्मयुक्तश् । चान्ते स्मरञ् शम्भुम् उपैति नित्यम्
॥२२९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).