मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १७२

3
ब्रह्मपुराणम् · 172

अध्यायः १७२

ब्रह्मोवाच:

सामुद्रं तीर्थम् आख्यातं सर्वतीर्थफलप्रदम् । तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः

॥१॥

विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी । लोकानाम् उपकारार्थं प्रायात् पूर्वार्णवं प्रति

॥२॥

आगच्छन्ती देवनदी कमण्डलुधृता मया । शिरसा च धृता देवी शम्भुना परमात्मना

॥३॥

विष्णुपादात् प्रसूतां तां ब्राह्मणेन महात्मना । आनीतां मर्त्यभवनं स्मरणाद् अघनाशनीम्

॥४॥

गुरोर् गुरुतमां सिन्धुर् दृष्ट्वा कृत्यम् अचिन्तयत् । या वन्द्या जगताम् ईशा ब्रह्मेशाद्यैर् नमस्कृता

॥५॥

ताम् अहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम् । आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते

॥६॥

न तस्य कोपि त्रातास्ति पापिनो लोकयोर् द्वयोः । एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः । कृताञ्जलिपुटो गङ्गाम् आहेदं सरिताम्पतिः

॥७॥

सिन्धुर् उवाच:

रसातलगतं वारि पृथिव्यां यन् नभस्तले । तन् माम् एवात्र विशतु नाहं वक्ष्यामि किञ्चन

॥८॥

मयि रत्नानि पीयूषं पर्वता राक्षसासुराः । एतान् अप्य् अखिलान् अन्यान् भीमान् सन्धारयाम्य् अहम्

॥९॥

ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा । ममाशक्यं न किमपि विद्यते सचराचरे

॥१०॥

महत्य् अभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात् । स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात्

॥११॥

न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात् । किं तु त्वं गौरवेणैषाम् अतिरिक्ता ततस् त्व् अहम्

॥१२॥

ब्रवीमि देवि गङ्गे मां त्वं साम्यात् सङ्गता भव । नैकरूपाम् अहं शक्तः सङ्गन्तुं बहुधा यदि

॥१३॥

सङ्गम् एष्यसि देवि त्वं सङ्गच्छेऽहं न चान्यथा । गङ्गे समेष्यसि यदि बहुधा तद् विचारये

॥१४॥

ब्रह्मोवाच:

तम् एवंवादिनं सिन्धुम् अपाम् ईशं तदाब्रवीत् । गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम

॥१५॥

सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः । भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्व् अहम्

॥१६॥

अल्पभूता भविष्यामि ततः स्यां तव सङ्गता । तथेत्य् उक्त्वा सप्तर्षीणां भार्याभिर् ऋषिभिर् वृतः

॥१७॥

आनयाम् आस तां देवी सप्तधा सा व्यभज्यत । सा चेयं गौतमी गङ्गा सप्तधा सागरं गता

॥१८॥

सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास् ततोऽभवन् । तत्र स्नानं च दानं च श्रवणं पठनं तथा

॥१९॥

स्मरणं चापि यद् भक्त्या सर्वकामप्रदं भवेत् । नास्माद् अन्यत् परं तीर्थं समुद्राद् भुवनत्रये । पापहानौ भुक्तिमुक्तिप्राप्तौ च मनसो मुदे

॥२०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).