मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २४३

3
ब्रह्मपुराणम् · 243

अध्यायः २४३

जनक उवाच:

अक्षरक्षरयोर् एष द्वयोः सम्बन्ध इष्यते । स्त्रीपुंसयोर् वा सम्बन्धः स वै पुरुष उच्यते

॥१॥

ऋते तु पुरुषं नेह स्त्री गर्भान् धारयत्य् उत । ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा

॥२॥

अन्योन्यस्याभिसम्बन्धाद् अन्योन्यगुणसंश्रयात् । रूपं निर्वर्तयेद् एतद् एवं सर्वासु योनिषु

॥३॥

रत्यर्थम् अतिसंयोगाद् अन्योन्यगुणसंश्रयात् । ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम्

॥४॥

ये गुणाः पुरुषस्येह ये च मातुर् गुणास् तथा । अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज

॥५॥

त्वङ्मांसशोणितं चेति मातृजान्य् अनुशुश्रुम । एवम् एतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते

॥६॥

प्रमाणं यच् च वेदोक्तं शास्त्रोक्तं यच् च पठ्यते । वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम्

॥७॥

एवम् एवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ । यच् चापि भगवंस् तस्मान् मोक्षधर्मो न विद्यते

॥८॥

अथवानन्तरकृतं किञ्चिद् एव निदर्शनम् । तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्य् असि सर्वदा

॥९॥

मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् । अजेयम् अजरं नित्यम् अतीन्द्रियम् अनीश्वरम्

॥१०॥

वसिष्ठ उवाच:

यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् । एवम् एतद् यथा वक्ष्ये तत्त्वग्राही यथा भवान्

॥११॥

धार्यते हि त्वया ग्रन्थ उभयोर् वेदशास्त्रयोः । न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर

॥१२॥

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । न च ग्रन्थार्थतत्त्वज्ञस् तस्य तद्धारणं वृथा

॥१३॥

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । यस् तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा

॥१४॥

ग्रन्थस्यार्थं स पृष्टस् तु मादृशो वक्तुम् अर्हति । यथातत्त्वाभिगमनाद् अर्थं तस्य स विन्दति

॥१५॥

न यः समुत्सुकः कश्चिद् ग्रन्थार्थं स्थूलबुद्धिमान् । स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्

॥१६॥

अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः । लोभाद् वाप्य् अथवा दम्भात् स पापी नरकं व्रजेत्

॥१७॥

निर्णयं चापि च्छिद्रात्मा न तद् वक्ष्यति तत्त्वतः । सोऽपीहास्यार्थतत्त्वज्ञो यस्मान् नैवात्मवान् अपि

॥१८॥

तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते । यथा तत्त्वेन साङ्ख्येषु योगेषु च महात्मसु

॥१९॥

यद् एव योगाः पश्यन्ति साङ्ख्यं तद् अनुगम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान्

॥२०॥

त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । एतद् ऐन्द्रियकं तात यद् भवान् इत्थम् आत्थ माम्

॥२१॥

द्रव्याद् द्रव्यस्य निर्वृत्तिर् इन्द्रियाद् इन्द्रियं तथा । देहाद् देहम् अवाप्नोति बीजाद् बीजं तथैव च

॥२२॥

निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः । कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः

॥२३॥

गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च । एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च

॥२४॥

त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । अष्टौ तान्य् अथ शुक्रेण जानीहि प्राकृतेन वै

॥२५॥

पुमांश् चैवापुमांश् चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् । वायुर् एष पुमांश् चैव रस इत्य् अभिधीयते

॥२६॥

अलिङ्गा प्रकृतिर् लिङ्गैर् उपलभ्यति सात्मजैः । यथा पुष्पफलैर् नित्यं मूर्तं चामूर्तयस् तथा

॥२७॥

एवम् अप्य् अनुमानेन स लिङ्गम् उपलभ्यते । पञ्चविंशतिकस् तात लिङ्गेषु नियतात्मकः

॥२८॥

अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः । केवलं त्व् अभिमानित्वाद् गुणेषु गुण उच्यते

॥२९॥

गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः । तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः

॥३०॥

यदा त्व् एष गुणान् एतान् प्राकृतान् अभिमन्यते । तदा स गुणवान् एव गुणभेदान् प्रपश्यति

॥३१॥

यत् तद् बुद्धेः परं प्राहुः साङ्ख्ययोगं च सर्वशः । बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात्

॥३२॥

अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुर् ईश्वरम् । निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च

॥३३॥

प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः । साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः

॥३४॥

यदा प्रबुद्धम् अव्यक्तम् अवस्थातननीरवः । बुध्यमानं न बुध्यन्तेऽवगच्छन्ति समं तदा

॥३५॥

एतन् निदर्शनं सम्यङ् न सम्यग् अनुदर्शनम् । बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथग् अरिन्दम

॥३६॥

परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् । एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते

॥३७॥

पञ्चविंशतिनिष्ठोऽयं तदा सम्यक् प्रचक्षते । एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम्

॥३८॥

तत्त्ववित् तत्त्वयोर् एव पृथग् एतन् निदर्शनम् । पञ्चविंशतिभिस् तत्त्वं तत्त्वम् आहुर् मनीषिणः

॥३९॥

निस्तत्त्वं पञ्चविंशस्य परम् आहुर् मनीषिणः । वर्ज्यस्य वर्ज्यम् आचारं तत्त्वं तत्त्वात् सनातनम्

॥४०॥

करालजनक उवाच:

नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् द्विजसत्तम । पश्यतस् तद् धि सन्दिग्धम् एतयोर् वै निदर्शनम्

॥४१॥

तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ । स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः

॥४२॥

अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम् । तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मेऽनघ

॥४३॥

तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम् । द्वन्द्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः

॥४४॥

विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च । साङ्ख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक् पृथक्

॥४५॥

वसिष्ठ उवाच:

हन्त ते सम्प्रवक्ष्यामि यद् एतद् अनुपृच्छसि । योगकृत्यं महाराज पृथग् एव शृणुष्व मे

॥४६॥

योगकृत्यं तु योगानां ध्यानम् एव परं बलम् । तच् चापि द्विविधं ध्यानम् आहुर् विद्याविदो जनाः

॥४७॥

एकाग्रता च मनसः प्राणायामस् तथैव च । प्राणायामस् तु सगुणो निर्गुणो मानसस् तथा

॥४८॥

मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप । द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः

॥४९॥

इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः । दशद्वादशभिर् वापि चतुर्विंशात् परं यतः

॥५०॥

स चोदनाभिर् मतिमान् नात्मानं चोदयेद् अथ । तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः

॥५१॥

विश्वात्मा सततं ज्ञेय इत्य् एवम् अनुशुश्रुम । द्रव्यं ह्य् अहीनमनसो नान्यथेति विनिश्चयः

॥५२॥

विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः । पूर्वरात्रे परार्धे च धारयीत मनो हृदि

॥५३॥

स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर । मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः

॥५४॥

स्थाणुवच् चाप्य् अकम्प्यः स्याद् दारुवच् चापि निश्चलः । बुद्ध्या विधिविधानज्ञस् ततो युक्तं प्रचक्षते

॥५५॥

न शृणोति न चाघ्राति न च पश्यति किञ्चन । न च स्पर्शं विजानाति न च सङ्कल्पते मनः

॥५६॥

न चापि मन्यते किञ्चिन् न च बुध्येत काष्ठवत् । तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः

॥५७॥

न भाति हि यथा दीपो दीप्तिस् तद्वच् च दृश्यते । निलिङ्गश् चाधश् चोर्ध्वं च तिर्यग्गतिम् अवाप्नुयात्

॥५८॥

तदा तदुपपन्नश् च यस्मिन् दृष्टे च कथ्यते । हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस् तात मद्विधैः

॥५९॥

निर्धूम इव सप्तार्चिर् आदित्य इव रश्मिवान् । वैद्युतोऽग्निर् इवाकाशे पश्यत्य् आत्मानम् आत्मनि

॥६०॥

यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः । ब्राह्मणा ब्रह्मयोनिस्था ह्य् अयोनिम् अमृतात्मकम्

॥६१॥

तद् एवाहुर् अणुभ्योऽणु तन् महद्भ्यो महत्तरम् । सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते

॥६२॥

बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् । महतस् तमसस् तात पारे तिष्ठन् न तामसः

॥६३॥

तमसो दूर इत्य् उक्तस् तत्त्वज्ञैर् वेदपारगैः । विमलो विमतश् चैव निर्लिङ्गोऽलिङ्गसञ्ज्ञकः

॥६४॥

योग एष हि लोकानां किम् अन्यद् योगलक्षणम् । एवं पश्यन् प्रपश्येत आत्मानम् अजरं परम्

॥६५॥

योगदर्शनम् एतावद् उक्तं ते तत्त्वतो मया । साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम्

॥६६॥

अव्यक्तम् आहुः प्रख्यानं परां प्रकृतिम् आत्मनः । तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम

॥६७॥

अहङ्कारस् तु महतस् तृतीय इति नः श्रुतम् । पञ्चभूतान्य् अहङ्काराद् आहुः साङ्ख्यात्मदर्शिनः

॥६८॥

एताः प्रकृतयस् त्व् अष्टौ विकाराश् चापि षोडश । पञ्च चैव विशेषाश् च तथा पञ्चेन्द्रियाणि च

॥६९॥

एतावद् एव तत्त्वानां साङ्ख्यम् आहुर् मनीषिणः । साङ्ख्ये साङ्ख्यविधानज्ञा नित्यं साङ्ख्यपथे स्थिताः

॥७०॥

यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते । लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना

॥७१॥

आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः । गुणा गुणेषु सततं सागरस्योर्मयो यथा

॥७२॥

सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम । एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि

॥७३॥

एवम् एव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः । अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम्

॥७४॥

एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान् । एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्

॥७५॥

बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् । तच् च क्षेत्रं महान् आत्मा पञ्चविंशोऽधितिष्ठति

॥७६॥

अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः । अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम्

॥७७॥

क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते । अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते

॥७८॥

अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते । क्षेत्रम् अव्यक्त इत्य् उक्तं ज्ञातारं पञ्चविंशकम्

॥७९॥

अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते । ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः

॥८०॥

अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम् । अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम्

॥८१॥

साङ्ख्यदर्शनम् एतावत् परिसङ्ख्या न विद्यते । सङ्ख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते

॥८२॥

चत्वारिंशच् चतुर्विंशत् प्रतिसङ्ख्याय तत्त्वतः । सङ्ख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः

॥८३॥

पञ्चविंशत् प्रबुद्धात्मा बुध्यमान इति श्रुतः । यदा बुध्यति आत्मानं तदा भवति केवलः

॥८४॥

सम्यग्दर्शनम् एतावद् भाषितं तव तत्त्वतः । एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत

॥८५॥

सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा । गुणवत्त्वाद् यथैतानि निर्गुणेभ्यस् तथा भवेत्

॥८६॥

न त्व् एवं वर्तमानानाम् आवृत्तिर् वर्तते पुनः । विद्यते क्षरभावश् च न परस्परम् अव्ययम्

॥८७॥

पश्यन्त्य् अमतयो ये न सम्यक् तेषु च दर्शनम् । ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनर् अरिन्दम

॥८८॥

सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात् । व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात्

॥८९॥

सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः सर्वं पञ्चविंशकः । य एवम् अभिजानन्ति न भयं तेषु विद्यते

॥९०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).