मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २३६

3
ब्रह्मपुराणम् · 236

अध्यायः २३६

मुनय ऊचुः:

तव वक्त्राब्धिसम्भूतम् अमृतं वाङ्मयं मुने । पिबतां नो द्विजश्रेष्ठ न तृप्तिर् इह दृश्यते

॥१॥

तस्माद् योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् । साङ्ख्यं च द्विपदां श्रेष्ठ श्रोतुम् इच्छामहे वयम्

॥२॥

प्रज्ञावाञ् श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः । सत्यधर्ममतिर् ब्रह्मन् कथं ब्रह्माधिगच्छति

॥३॥

तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया । साङ्ख्ये वा यदि वा योग एतत् पृष्टो वदस्व नः

॥४॥

मनसश् चेन्द्रियाणां च यथैकाग्र्यम् अवाप्यते । येनोपायेन पुरुषस् तत् त्वं व्याख्यातुम् अर्हसि

॥५॥

व्यास उवाच:

नान्यत्र ज्ञानतपसोर् नान्यत्रेन्द्रियनिग्रहात् । नान्यत्र सर्वसन्त्यागात् सिद्धिं विन्दति कश्चन

॥६॥

महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः । भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु

॥७॥

भूमेर् देहो जलात् स्नेहो ज्योतिषश् चक्षुषी स्मृते । प्राणापानाश्रयो वायुः कोष्ठाआकाशं शरीरिणाम्

॥८॥

क्रान्तौ विष्णुर् बले शक्रः कोष्ठेऽग्निर् भोक्तुम् इच्छति । कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती

॥९॥

कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । दश तानीन्द्रियोक्तानि द्वाराण्य् आहारसिद्धये

॥१०॥

शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् । इन्द्रियार्थान् पृथग् विद्याद् इन्द्रियेभ्यस् तु नित्यदा

॥११॥

इन्द्रियाणि मनो युङ्क्ते अवश्यान् इव राजिनः । मनश् चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः

॥१२॥

इन्द्रियाणां तथैवैषां सर्वेषाम् ईश्वरं मनः । नियमे च विसर्गे च भूतात्मा मनसस् तथा

॥१३॥

इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः । प्राणापानौ च जीवश् च नित्यं देहेषु देहिनाम्

॥१४॥

आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः । सत्त्वं हि तेजः सृजति न गुणान् वै कथञ्चन

॥१५॥

एवं सप्तदशं देहं वृतं षोडशभिर् गुणैः । मनीषी मनसा विप्राः पश्यत्य् आत्मानम् आत्मनि

॥१६॥

न ह्य् अयं चक्षुषा दृश्यो न च सर्वैर् अपीन्द्रियैः । मनसा तु प्रदीप्तेन महान् आत्मा प्रकाशते

॥१७॥

अशब्दस्पर्शरूपं तच् चारसागन्धम् अव्ययम् । अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम्

॥१८॥

अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् । योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः

॥१९॥

विद्याविनयसम्पन्नब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः

॥२०॥

स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च । वसत्य् एको महान् आत्मा येन सर्वम् इदं ततम्

॥२१॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा

॥२२॥

यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि । य एवं सततं वेद सोऽमृतत्वाय कल्पते

॥२३॥

सर्वभूतात्मभूतस्य सर्वभूतहितस्य च । देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः

॥२४॥

शकुन्तानाम् इवाकाशे मत्स्यानाम् इव चोदके । यथा गतिर् न दृश्येत तथा ज्ञानविदां गतिः

॥२५॥

कालः पचति भूतानि सर्वाण्य् एवात्मनात्मनि । यस्मिंस् तु पच्यते कालस् तन् न वेदेह कश्चन

॥२६॥

न तद् ऊर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः । न मध्ये प्रतिगृह्णीते नैव किञ्चिन् न कश्चन

॥२७॥

सर्वे तत्स्था इमे लोका बाह्यम् एषां न किञ्चन । यद्य् अप्य् अग्रे समागच्छेद् यथा बाणो गुणच्युतः

॥२८॥

नैवान्तं कारणस्येयाद् यद्य् अपि स्यान् मनोजवः । तस्मात् सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा

॥२९॥

सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् । सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति

॥३०॥

तद् एवाणोर् अणुतरं तन् महद्भ्यो महत्तरम् । तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते

॥३१॥

अक्षरं च क्षरं चैव द्वेधा भावोऽयम् आत्मनः । क्षरः सर्वेषु भूतेषु दिव्यं त्व् अमृतम् अक्षरम्

॥३२॥

नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी । ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च

॥३३॥

हानेनाभिविकल्पानां नराणां सञ्चयेन च । शरीराणाम् अजस्याहुर् हंसत्वं पारदर्शिनः

॥३४॥

हंसोक्तं च क्षरं चैव कूटस्थं यत् तद् अक्षरम् । तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी

॥३५॥

व्यास उवाच:

भवतां पृच्छतां विप्रा यथावद् इह तत्त्वतः । साङ्ख्यं ज्ञानेन संयुक्तं यद् एतत् कीर्तितं मया

॥३६॥

योगकृत्यं तु भो विप्राः कीर्तयिष्याम्य् अतः परम् । एकत्वं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः

॥३७॥

आत्मनो व्यापिनो ज्ञानं ज्ञानम् एतद् अनुत्तमम् । तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना

॥३८॥

आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा । योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः

॥३९॥

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् । क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात्

॥४०॥

सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति । धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा

॥४१॥

चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा । अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात्

॥४२॥

एवम् एतान् योगदोषाञ् जयेन् नित्यम् अतन्द्रितः । अग्नींश् च ब्राह्मणांश् चाथ देवताः प्रणमेत् सदा

॥४३॥

वर्जयेद् उद्धतां वाचं हिंसायुक्तां मनोनुगाम् । ब्रह्मतेजोमयं शुक्रं यस्य सर्वम् इदं जगत्

॥४४॥

एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् । ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा

॥४५॥

शौचं चैवात्मनः शुद्धिर् इन्द्रियाणां च निग्रहः । एतैर् विवर्धते तेजः पाप्मानं चापकर्षति

॥४६॥

समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् । धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः

॥४७॥

कामक्रोधौ वशे कृत्वा निषेवेद् ब्रह्मणः पदम् । मनसश् चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः

॥४८॥

पूर्वरात्रे परार्धे च धारयेन् मन आत्मनः । जन्तोः पञ्चेन्द्रियस्यास्य यद्य् एकं क्लिन्नम् इन्द्रियम्

॥४९॥

ततोऽस्य स्रवति प्रज्ञा गिरेः पादाद् इवोदकम् । मनसः पूर्वम् आदद्यात् कूर्माणाम् इव मत्स्यहा

॥५०॥

ततः श्रोत्रं ततश् चक्षुर् जिह्वा घ्राणं च योगवित् । तत एतानि संयम्य मनसि स्थापयेद् यदि

॥५१॥

तथैवापोह्य सङ्कल्पान् मनो ह्य् आत्मनि धारयेत् । पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद् यदि

॥५२॥

यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि । प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते

॥५३॥

विधूम इव दीप्तार्चिर् आदित्य इव दीप्तिमान् । वैद्युतोऽग्निर् इवाकाशे पश्यन्त्य् आत्मानम् आत्मनि

॥५४॥

सर्वं तत्र तु सर्वत्र व्यापकत्वाच् च दृश्यते । तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः

॥५५॥

धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः । एवं परिमितं कालम् आचरन् संशितव्रतः

॥५६॥

आसीनो हि रहस्य् एको गच्छेद् अक्षरसाम्यताम् । प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने

॥५७॥

अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः । प्रतिभान् उपसर्गाश् च प्रतिसङ्गृह्य योगतः

॥५८॥

तांस् तत्त्वविद् अनादृत्य साम्येनैव निवर्तयेत् । कुर्यात् परिचयं योगे त्रैलोक्ये नियतो मुनिः

॥५९॥

गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् । सन्नियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव

॥६०॥

एकाग्रं चिन्तयेन् नित्यं योगान् नोद्विजते मनः । येनोपायेन शक्येत नियन्तुं चञ्चलं मनः

॥६१॥

तत्र युक्तो निषेवेत न चैव विचलेत् ततः । शून्यागाराणि चैकाग्रो निवासार्थम् उपक्रमेत्

॥६२॥

नातिव्रजेत् परं वाचा कर्मणा मनसापि वा । उपेक्षको यताहारो लब्धालब्धसमो भवेत्

॥६३॥

यश् चैनम् अभिनन्देत यश् चैनम् अभिवादयेत् । समस् तयोश् चाप्य् उभयोर् नाभिध्यायेच् छुभाशुभम्

॥६४॥

न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् । समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः

॥६५॥

एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः । षण् मासान् नित्ययुक्तस्य शब्दब्रह्माभिवर्तते

॥६६॥

वेदनार्तान् परान् दृष्ट्वा समलोष्टाश्मकाञ्चनः । एवं तु निरतो मार्गं विरमेन् न विमोहितः

॥६७॥

अपि वर्णावकृष्टस् तु नारी वा धर्मकाङ्क्षिणी । ताव् अप्य् एतेन मार्गेण गच्छेतां परमां गतिम्

॥६८॥

अजं पुराणम् अजरं सनातनं । यम् इन्द्रियातिगम् अगोचरं द्विजाः । अवेक्ष्य चेमां परमेष्ठिसाम्यतां । प्रयान्त्य् अनावृत्तिगतिं मनीषिणः

॥६९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).