मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २६

3
ब्रह्मपुराणम् · 26

अध्यायः २६

मुनय ऊचुः:

पृथिव्याम् उत्तमां भूमिं धर्मकामार्थमोक्षदाम् । तीर्थानाम् उत्तमं तीर्थं ब्रूहि नो वदतां वर

॥१॥

लोमहर्षण उवाच:

इमं प्रश्नं मम गुरुं पप्रच्छुर् मुनयः पुरा । तम् अहं सम्प्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः

॥२॥

स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते । नानाद्रुमलताकीर्णे नानामृगगणैर् युते

॥३॥

पुन्नागैः कर्णिकारैश् च सरलैर् देवदारुभिः । शालैस् तालैस् तमालैश् च पनसैर् धवखादिरैः

॥४॥

पाटलाशोकबकुलैः करवीरैः सचम्पकैः । अन्यैश् च विविधैर् वृक्षैर् नानापुष्पोपशोभितैः

॥५॥

कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् । महाभारतकर्तारं सर्वशास्त्रविशारदम्

॥६॥

अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् । पुराणागमवक्तारं वेदवेदाङ्गपारगम्

॥७॥

पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् । द्रष्टुम् अभ्याययुः प्रीत्या मुनयः संशितव्रताः

॥८॥

कश्यपो जमदग्निश् च भरद्वाजोऽथ गौतमः । वसिष्ठो जैमिनिर् धौम्यो मार्कण्डेयोऽथ वाल्मिकिः

॥९॥

विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः । सुमन्तुर् भार्गवो नाम कण्वो मेधातिथिर् गुरुः

॥१०॥

माण्डव्यश् च्यवनो धूम्रो ह्य् असितो देवलस् तथा । मौद्गल्यस् तृणयज्ञश् च पिप्पलादोऽकृतव्रणः

॥११॥

संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस् तथा । शाण्डिल्यश् च विभाण्डश् च दुर्वासा लोमशस् तथा

॥१२॥

नारदः पर्वतश् चैव वैशम्पायनगालवौ । भास्करिः पूरणः सूतः पुलस्त्यः कपिलस् तथा

॥१३॥

उलूकः पुलहो वायुर् देवस्थानश् चतुर्भुजः । सनत्कुमारः पैलश् च कृष्णः कृष्णानुभौतिकः

॥१४॥

एतैर् मुनिवरैश् चान्यैर् वृतः सत्यवतीसुतः । रराज स मुनिः श्रीमान् नक्षत्रैर् इव चन्द्रमाः

॥१५॥

तान् आगतान् मुनीन् सर्वान् पूजयाम् आस वेदवित् । तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम्

॥१६॥

कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् । पप्रच्छुः संशयं सर्वे तपोवननिवासिनः

॥१७॥

मुनय ऊचुः:

मुने वेदांश् च शास्त्राणि पुराणागमभारतम् । भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम्

॥१८॥

कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे । रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे

॥१९॥

इन्द्रियावर्तकलिले दृष्टोर्मिशतसङ्कुले । मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे

॥२०॥

निमज्जज् जगद् आलोक्य निरालम्बम् अचेतनम् । पृच्छामस् त्वां महाभागं ब्रूहि नो मुनिसत्तम

॥२१॥

श्रेयः किम् अत्र संसारे भैरवे लोमहर्षणे । उपदेशप्रदानेन लोकान् उद्धर्तुम् अर्हसि

॥२२॥

दुर्लभं परमं क्षेत्रं वक्तुम् अर्हसि मोक्षदम् । पृथिव्यां कर्मभूमिं च श्रोतुम् इच्छामहे वयम्

॥२३॥

कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम् । प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः

॥२४॥

मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः । तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टोऽसि द्विजोत्तम

॥२५॥

श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् । व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित्

॥२६॥

व्यास उवाच:

शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ । यः संवादोऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह

॥२७॥

मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते । नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते

॥२८॥

नानापक्षिरुते रम्ये नानाप्रसवनाकुले । नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते

॥२९॥

नानावर्णशिलाकीर्णे नानाधातुविभूषिते । नानामुनिजनाकीर्णे नानाश्रमसमन्विते

॥३०॥

तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् । जगत्पतिं जगद्वन्द्यं जगदाधारम् ईश्वरम्

॥३१॥

देवदानवगन्धर्वैर् यक्षविद्याधरोरगैः । मुनिसिद्धाप्सरोभिश् च वृतम् अन्यैर् दिवालयैः

॥३२॥

केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः । केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे

॥३३॥

एवं प्रमुदिते काले सर्वभूतसमागमे । नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते

॥३४॥

भृग्वाद्यास् तं तदा देवं प्रणिपत्य पितामहम् । इमम् अर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः

॥३५॥

ऋषय ऊचुः:

भगवञ् श्रोतुम् इच्छामः कर्मभूमिं महीतले । वक्तुम् अर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम्

॥३६॥

व्यास उवाच:

तेषां वचनम् आकर्ण्य प्राह ब्रह्मा सुरेश्वरः । पप्रच्छुस् ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः

॥३७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).