अध्यायः ५७
ब्रह्मोवाच:
अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः । यत् फलं स्नानदानेन देवताप्रेक्षणेन च
॥१॥मार्कण्डेयह्रदं गत्वा नरश् चोदङ्मुखः शुचिः । निमज्जेत् तत्र वारांस् त्रीन् इमं मन्त्रम् उदीरयेत्
॥२॥संसारसागरे मग्नं पापग्रस्तम् अचेतनम् । त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते
॥३॥नमः शिवाय शान्ताय सर्वपापहराय च । स्नानं करोमि देवेश मम नश्यतु पातकम्
॥४॥नाभिमात्रे जले स्नात्वा विधिवद् देवता ऋषीन् । तिलोदकेन मतिमान् पितॄंश् चान्यांश् च तर्पयेत्
॥५॥स्नात्वा तथैव चाचम्य ततो गच्छेच् छिवालयम् । प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम्
॥६॥मूलमन्त्रेण सम्पूज्य मार्कण्डेयस्य चेश्वरम् । अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत्
॥७॥त्रिलोचन नमस् तेऽस्तु नमस् ते शशिभूषण । त्राहि मां त्वं विरूपाक्ष महादेव नमोऽस्तु ते
॥८॥मार्कण्डेयह्रदे त्व् एवं स्नात्वा दृष्ट्वा च शङ्करम् । दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः
॥९॥पापैः सर्वैर् विनिर्मुक्तः शिवलोकं स गच्छति । तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम्
॥१०॥इहलोकं समासाद्य भवेद् विप्रो बहुश्रुतः । शाङ्करं योगम् आसाद्य ततो मोक्षम् अवाप्नुयात्
॥११॥कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् । पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम्
॥१२॥ॐ नमो व्यक्तरूपाय महाप्रलयकारिणे । महद्रसोपविष्टाय न्यग्रोधाय नमोऽस्तु ते
॥१३॥अमरस् त्वं सदा कल्पे हरेश् चायतनं वट । न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते
॥१४॥भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः । सहसा मुच्यते पापाज् जीर्णत्वच इवोरगः
॥१५॥छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः । ब्रह्महत्यां नरो जह्यात् पापेष्व् अन्येषु का कथा
॥१६॥दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं परम् । न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः
॥१७॥राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् । तथा स्ववंशम् उद्धृत्य विष्णुलोकं स गच्छति
॥१८॥वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् । सर्वपापविनिर्मुक्तस् ततो विष्णुपुरं व्रजेत्
॥१९॥दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् । सङ्कर्षणं सुभद्रां च स याति परमां गतिम्
॥२०॥प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् । सङ्कर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत्
॥२१॥नमस् ते हलधृग् राम नमस् ते मुशलायुध । नमस् ते रेवतीकान्त नमस् ते भक्तवत्सल
॥२२॥नमस् ते बलिनां श्रेष्ठ नमस् ते धरणीधर । प्रलम्बारे नमस् तेऽस्तु त्राहि मां कृष्णपूर्वज
॥२३॥एवं प्रसाद्य चानन्तम् अजेयं त्रिदशार्चितम् । कैलासशिखराकारं चन्द्रात् कान्ततराननम्
॥२४॥नीलवस्त्रधरं देवं फणाविकटमस्तकम् । महाबलं हलधरं कुण्डलैकविभूषितम्
॥२५॥रौहिणेयं नरो भक्त्या लभेद् अभिमतं फलम् । सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति
॥२६॥आभूतसम्प्लवं यावद् भुक्त्वा तत्र सुखं नरः । पुण्यक्षयाद् इहागत्य प्रवरे योगिनां कुले
॥२७॥ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः । ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम्
॥२८॥एवम् अभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः । द्वादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः
॥२९॥द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् । पूजयन्ति सदा धीरास् ते मोक्षं प्राप्नुवन्ति वै
॥३०॥न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः । यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः
॥३१॥तस्मात् तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् । सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत्
॥३२॥जय कृष्ण जगन्नाथ जय सर्वाघनाशन । जय चाणूरकेशिघ्न जय कंसनिषूदन
॥३३॥जय पद्मपलाशाक्ष जय चक्रगदाधर । जय नीलाम्बुदश्याम जय सर्वसुखप्रद
॥३४॥जय देव जगत्पूज्य जय संसारनाशन । जय लोकपते नाथ जय वाञ्छाफलप्रद
॥३५॥संसारसागरे घोरे निःसारे दुःखफेनिले । क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे
॥३६॥नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे । निमग्नोऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम
॥३७॥एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् । सर्वपापहरं देवं सर्वकामफलप्रदम्
॥३८॥पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् । महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम्
॥३९॥शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् । सर्वलक्षणसंयुक्तं वनमालाविभूषितम्
॥४०॥दृष्ट्वा नरोऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च । अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः
॥४१॥यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥४२॥यत् फलं सर्वरत्नाद्यैर् इष्टे बहुसुवर्णके । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥४३॥यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम् । तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च
॥४४॥यत् फलं सर्वदानेन व्रतेन नियमेन च । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥४५॥तपोभिर् विविधैर् उग्रैर् यत् फलं समुदाहृतम् । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥४६॥यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम् । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥४७॥यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥४८॥यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम् । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥४९॥सन्न्यासेन यथोक्तेन यत् फलं समुदाहृतम् । नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
॥५०॥किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः । दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम्
॥५१॥पापैर् विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः । श्रिया परमया युक्तः सर्वैः समुदितो गुणैः
॥५२॥सर्वकामसमृद्धेन विमानेन सुवर्चसा । त्रिसप्तकुलम् उद्धृत्य नरो विष्णुपुरं व्रजेत्
॥५३॥तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् । गन्धर्वाप्सरसैः सार्धं यथा विष्णुश् चतुर्भुजः
॥५४॥च्युतस् तस्माद् इहायातो विप्राणां प्रवरे कुले । सर्वज्ञः सर्ववेदी च जायते गतमत्सरः
॥५५॥स्वधर्मनिरतः शान्तो दाता भूतहिते रतः । आसाद्य वैष्णवं ज्ञानं ततो मुक्तिम् अवाप्नुयात्
॥५६॥ततः सम्पूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् । प्रसादयेत् ततो विप्राः प्रणिपत्य कृताञ्जलिः
॥५७॥नमस् ते सर्वगे देवि नमस् ते शुभसौख्यदे । त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमोऽस्तु ते
॥५८॥एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् । बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम्
॥५९॥कामगेन विमानेन नरो विष्णुपुरं व्रजेत् । आभूतसम्प्लवं यावत् क्रीडित्वा तत्र देववत्
॥६०॥इह मानुषतां प्राप्तो ब्राह्मणो वेदविद् भवेत् । प्राप्य योगं हरेस् तत्र मोक्षं च लभते ध्रुवम्
॥६१॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).