मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १४

3
ब्रह्मपुराणम् · 14

अध्यायः १४

लोमहर्षण उवाच:

गान्धारी चैव माद्री च क्रोष्टोर् भार्ये बभूवतुः । गान्धारी जनयाम् आस अनमित्रं महाबलम्

॥१॥

माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् । तेषां वंशस् त्रिधा भूतो वृष्णीनां कुलवर्धनः

॥२॥

माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकाव् उभौ । जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा

॥३॥

श्वफल्कस् तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते । नास्ति व्याधिभयं तत्र नावर्षस् तपम् एव च

॥४॥

कदाचित् काशिराजस्य विषये मुनिसत्तमाः । त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः

॥५॥

स तत्र चानयाम् आस श्वफल्कं परमार्चितम् । श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः

॥६॥

श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत । गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः

॥७॥

दाता यज्वा च वीरश् च श्रुतवान् अतिथिप्रियः । अक्रूरः सुषुवे तस्माच् छ्वफल्काद् भूरिदक्षिणः

॥८॥

उपमद्गुस् तथा मद्गुर् मेदुरश् चारिमेजयः । अविक्षितस् तथाक्षेपः शत्रुघ्नश् चारिमर्दनः

॥९॥

धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस् तथा । आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना

॥१०॥

अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः । प्रसेनश् चोपदेवश् च जज्ञाते देववर्चसौ

॥११॥

चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च । अश्वग्रीवोऽश्वबाहुश् च स्वपार्श्वकगवेषणौ

॥१२॥

अरिष्टनेमिर् अश्वश् च सुधर्मा धर्मभृत् तथा । सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ

॥१३॥

असिक्न्यां जनयाम् आस शूरं वै देवमीढुषम् । महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश

॥१४॥

वसुदेवो महाबाहुः पूर्वम् आनकदुन्दुभिः । जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि

॥१५॥

आनकानां च संह्रादः सुमहान् अभवद् दिवि । पपात पुष्पवर्षश् च शूरस्य जनने महान्

॥१६॥

मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि । यस्यासीत् पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा

॥१७॥

देवभागस् ततो जज्ञे तथा देवश्रवाः पुनः । अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः

॥१८॥

श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा

॥१९॥

राजाधिदेवी च तथा पञ्चैता वीरमातरः । श्रुतश्रवायां चैद्यस् तु शिशुपालोऽभवन् नृपः

॥२०॥

हिरण्यकशिपुर् योऽसौ दैत्यराजोऽभवत् पुरा । पृथुकीर्त्यां तु सञ्जज्ञे तनयो वृद्धशर्मणः

॥२१॥

करूषाधिपतिर् वीरो दन्तवक्रो महाबलः । पृथां दुहितरं चक्रे कुन्तिस् तां पाण्डुर् आवहत्

॥२२॥

यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः । भीमसेनस् तथा वाताद् इन्द्राच् चैव धनञ्जयः

॥२३॥

लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः । अनमित्राच् छनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात्

॥२४॥

शैनेयः सत्यकस् तस्माद् युयुधानश् च सात्यकिः । उद्धवो देवभागस्य महाभागः सुतोऽभवत्

॥२५॥

पण्डितानां परं प्राहुर् देवश्रवसम् उत्तमम् । अश्मक्यं प्राप्तवान् पुत्रम् अनाधृष्टिर् यशस्विनम्

॥२६॥

निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्व् अजायत । श्रुतदेवात्मजास् ते तु नैषादिर् यः परिश्रुतः

॥२७॥

एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः । वत्सवते त्व् अपुत्राय वसुदेवः प्रतापवान् । अद्भिर् ददौ सुतं वीरं शौरिः कौशिकम् औरसम्

॥२८॥

गण्डूषाय ह्य् अपुत्राय विष्वक्सेनो ददौ सुतान् । चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम्

॥२९॥

असङ्ग्रामेण यो वीरो नावर्तत कदाचन । रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः

॥३०॥

वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः । चारून् अद्योपभोक्ष्यामश् चारुदेष्णहतान् इति

॥३१॥

तन्त्रिजस् तन्त्रिपालश् च सुतौ कनवकस्य तौ । वीरुश् चाश्वहनुश् चैव वीरौ ताव् अथ गृञ्जिमौ

॥३२॥

श्यामपुत्रः शमीकस् तु शमीको राज्यम् आवहत् । जुगुप्समानो भोजत्वाद् राजसूयम् अवाप सः

॥३३॥

अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः । वसुदेवसुतान् वीरान् कीर्तयिष्याम्य् अतः परम्

॥३४॥

वृष्णेस् त्रिविधम् एवं तु बहुशाखं महौजसम् । धारयन् विपुलं वंशं नानर्थैर् इह युज्यते

॥३५॥

याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः । पौरवी रोहिणी नाम मदिरादितथावरा

॥३६॥

वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी । सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता

॥३७॥

वृकदेव्य् उपदेवी च देवकी चैव सप्तमी । सुतनुर् वडवा चैव द्वे एते परिचारिके

॥३८॥

पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् । ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः

॥३९॥

लेभे ज्येष्ठं सुतं रामं शरण्यं शठम् एव च । दुर्दमं दमनं शुभ्रं पिण्डारकम् उशीनरम्

॥४०॥

चित्रा नाम कुमारी च रोहिणीतनया नव । चित्रा सुभद्रेति पुनर् विख्याता मुनिसत्तमाः

॥४१॥

वसुदेवाच् च देवक्यां जज्ञे शौरिर् महायशाः । रामाच् च निशठो जज्ञे रेवत्यां दयितः सुतः

॥४२॥

सुभद्रायां रथी पार्थाद् अभिमन्युर् अजायत । अक्रूरात् काशिकन्यायां सत्यकेतुर् अजायत

॥४३॥

वसुदेवस्य भार्यासु महाभागासु सप्तसु । ये पुत्रा जज्ञिरे शूराः समस्तांस् तान् निबोधत

॥४४॥

भोजश् च विजयश् चैव शान्तिदेवासुताव् उभौ । वृकदेवः सुनामायां गदश् चास्तां सुताव् उभौ

॥४५॥

अगावहं महात्मानं वृकदेवी व्यजायत । कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः

॥४६॥

जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् । कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा

॥४७॥

मिथ्याभिशस्तो गार्ग्यस् तु मन्युनातिसमीरितः । घोषकन्याम् उपादाय मैथुनायोपचक्रमे

॥४८॥

गोपाली चाप्सरास् तस्य गोपस्त्रीवेषधारिणी । धारयाम् आस गार्ग्यस्य गर्भं दुर्धरम् अच्युतम्

॥४९॥

मानुष्यां गर्गभार्यायां नियोगाच् छूलपाणिनः । स कालयवनो नाम जज्ञे राजा महाबलः

॥५०॥

वृत्तपूर्वार्धकायस् तु सिंहसंहननो युवा । अपुत्रस्य स राज्ञस् तु ववृधेऽन्तःपुरे शिशुः

॥५१॥

यवनस्य मुनिश्रेष्ठाः स कालयवनोऽभवत् । आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम्

॥५२॥

वृष्ण्यन्धककुलं तस्य नारदोऽकथयद् विभुः । अक्षौहिण्या तु सैन्यस्य मथुराम् अभ्ययात् तदा

॥५३॥

दूतं सम्प्रेषयाम् आस वृष्ण्यन्धकनिवेशनम् । ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम्

॥५४॥

समेता मन्त्रयाम् आसुर् यवनस्य भयात् तदा । कृत्वा विनिश्चयं सर्वे पलायनम् अरोचयन्

॥५५॥

विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् । कुशस्थलीं द्वारवतीं निवेशयितुम् ईप्सवः

॥५६॥

इति कृष्णस्य जन्मेदं यः शुचिर् नियतेन्द्रियः । पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत्

॥५९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).