मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३८

3
ब्रह्मपुराणम् · 138

अध्यायः १३८

ब्रह्मोवाच:

भानुतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् । तत्रेदं वृत्तम् आख्यास्ये महापातकनाशनम्

॥१॥

शर्यातिर् इति विख्यातो राजा परमधार्मिकः । तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि

॥२॥

मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः । पुरोधास् तस्य नृपतेर् ब्रह्मर्षिः शमिनां प्रभुः

॥३॥

दिशो विजेतुं स जगाम राजा । पुरोधसा तेन नृपप्रवीरः । पुरोधसं प्राह महानुभावं । जित्वा दिशश् चाध्वनि सन्निविष्टः

॥४॥

पप्रच्छेदं केन खेदं गतोऽसि । हेतुं वदस्वेति महानुभाव । त्वम् एव राज्ये मम सर्वमान्यः । समस्तविद्यानिरवद्यबोधः

॥५॥

विधूतपापः परितापशून्यः । किम् अन्यचेता इव लक्ष्यसे त्वम् । जितेयम् उर्वी विजिता नरेन्द्रा । हर्षस्य हेतौ महतीह जाते

॥६॥

किं त्वं कृशो मे वद सत्यम् एव । द्विजातिवर्यातिमहानुभाव । सम्बोध्य शर्यातिम् उवाच विप्रश् । छन्दोमधुः प्रेममयीं प्रियोक्तिम्

॥७॥

मधुच्छन्दा उवाच:

शृणु भूपाल मद्वाक्यं भार्यया यद् उदीरितम् । स्थिते यामे वयं यामो यामिनी चार्धगामिनी

॥८॥

स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते । स्मृत्वा तत् कामिनीवाक्यं शोषं याति कलेवरम् । विकारे स्मरसञ्जाते जीवातुर् नलिनानना

॥९॥

ब्रह्मोवाच:

विहस्य चाब्रवीद् राजा पुरोधसम् अरिन्दमः

॥१०॥

राजोवाच:

त्वं गुरुर् मम मित्रं च किम् आत्मानं विडम्बसे । किम् अनेन महाप्राज्ञ मम वाक्येन मानद । क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम्

॥११॥

ब्रह्मोवाच:

एतद् आकर्ण्य मतिमान् मधुच्छन्दा वचोऽब्रवीत्

॥१२॥

मधुच्छन्दा उवाच:

यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते । न चेदं दूषणं राजन् भूषणं चातिमन्यताम्

॥१३॥

ब्रह्मोवाच:

आजगाम स्वकं देशं महत्या सेनया वृतः । परीक्षार्थं च तत्प्रेम पुर्यां वार्त्ताम् अदीदिशत्

॥१४॥

दिशो विजेतुं शर्यातौ याते राक्षसपुङ्गवः । हत्वा रसातलं यातो राजानं सपुरोधसम्

॥१५॥

राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम । वार्त्तां श्रुत्वा दूतमुखान् मधुच्छन्दःप्रिया पुनः

॥१६॥

तदैवाभूद् गतप्राणा तद् विचित्रम् इवाभवत् । तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन्

॥१७॥

यत् कृतं राजपत्नीभिः प्रियया च पुरोधसः । विस्मितो दुःखितो राजा पुनर् दूतान् अभाषत

॥१८॥

राजोवाच:

शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत् कलेवरम् । रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा

॥१९॥

ब्रह्मोवाच:

इति चिन्तातुरे राज्ञि वाग् उवाचाशरीरिणी

॥२०॥

आकाशवाग् उवाच:

विधास्यत्य् अखिलं गङ्गा राजंस् तव समीहितम् । सर्वाभिषङ्गशमनी पावनी भुवि गौतमी

॥२१॥

ब्रह्मोवाच:

एतच् छ्रुत्वा स शर्यातिर् गौतमीतटम् आश्रितः । ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितॄन् द्विजान्

॥२२॥

पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् । अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः

॥२३॥

एतत् सर्वं न जानाति राज्ञः कृत्यं पुरोहितः । गते तस्मिन् गुरौ राजा वैश्वामित्रे महात्मनि

॥२४॥

सर्वं बलं प्रेषयित्वा गङ्गातीरेऽग्निम् आविशत् । इत्य् उक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरान् अपि

॥२५॥

यदि दत्तं यदि हुतं यदि त्राता प्रजा मया । तेन सत्येन सा साध्वी ममायुष्येण जीवतु

॥२६॥

इत्य् उक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे । तदैव जीविता भार्या राज्ञस् तस्य पुरोधसः

॥२७॥

अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् । पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः

॥२८॥

तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः । आत्मनश् च पुनः कृत्यम् अस्मरन् नृपतेर् गुरुः

॥२९॥

अहम् अप्य् अग्निम् आवेक्ष्य उत यास्ये प्रियान्तिकम् । अथवेह तपस् तप्स्ये ततो निश्चयवान् द्विजः

॥३०॥

एतद् एवात्मनः कृत्यं मन्ये सुकृतम् एव च । जीवयामि च राजानं ततो यामि प्रियां पुनः

॥३१॥

एतद् एव शुभं मे स्यात् ततस् तुष्टाव भास्करम् । न ह्य् अन्यः कोपि देवोऽस्ति सर्वाभीष्टप्रदो रवेः

॥३२॥

मधुच्छन्दा उवाच:

नमोऽस्तु तस्मै सूर्याय मुक्तयेऽमिततेजसे । छन्दोमयाय देवाय ओङ्कारार्थाय ते नमः

॥३३॥

विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये । स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे

॥३४॥

ब्रह्मोवाच:

ततः प्रसन्नः सूर्योऽभूद् वरयस्वेत्य् अभाषत

॥३५॥

मधुच्छन्दा उवाच:

राजानं देहि देवेश भार्यां च प्रियवादिनीम् । आत्मनश् च शुभान् पुत्रान् राज्ञश् चैव शुभान् वरान्

॥३६॥

ब्रह्मोवाच:

ततः प्रादाज् जगन्नाथः शर्यातिं रत्नभूषितम् । तां च भार्यां वरान् अन्यान् सर्वं क्षेममयं तथा

॥३७॥

ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा । ययौ सुखी स्वकं देशं तत् तु तीर्थं शुभं स्मृतम्

॥३८॥

तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । ततः प्रभृति तत् तीर्थं भानुतीर्थम् उदाहृतम्

॥३९॥

मृतसञ्जीवनं चैव शार्यातं चेति विश्रुतम् । माधुच्छन्दसमाख्यातं स्मरणात् पापनुन् मुने

॥४०॥

तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । मृतसञ्जीवनं तत् स्याद् आयुरारोग्यवर्धनम्

॥४१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).