अध्यायः १३
ब्राह्मणा ऊचुः:
पुरोर् वंशं वयं सूत श्रोतुम् इच्छाम तत्त्वतः । द्रुह्यस्यानोर् यदोश् चैव तुर्वसोश् च पृथक् पृथक्
॥१॥लोमहर्षण उवाच:
शृणुध्वं मुनिशार्दूलाः पुरोर् वंशं महात्मनः । विस्तरेणानुपूर्व्या च प्रथमं वदतो मम
॥२॥पुरोः पुत्रः सुवीरोऽभून् मनस्युस् तस्य चात्मजः । राजा चाभयदो नाम मनस्योर् अभवत् सुतः
॥३॥तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः । सुधन्वनः सुबाहुश् च रौद्राश्वस् तस्य चात्मजः
॥४॥रौद्राश्वस्य दशार्णेयुः कृकणेयुस् तथैव च । कक्षेयुस्थण्डिलेयुश् च सन्नतेयुस् तथैव च
॥५॥ऋचेयुश् च जलेयुश् च स्थलेयुश् च महाबलः । धनेयुश् च वनेयुश् च पुत्रकाश् च दश स्त्रियः
॥६॥भद्रा शूद्रा च मद्रा च शलदा मलदा तथा । खलदा च ततो विप्रा नलदा सुरसापि च
॥७॥तथा गोचपला च स्त्रीरत्नकूटा च ता दश । ऋषिर् जातोऽत्रिवंशे च तासां भर्ता प्रभाकरः
॥८॥भद्रायां जनयाम् आस सुतं सोमं यशस्विनम् । स्वर्भानुना हते सूर्ये पतमाने दिवो महीम्
॥९॥तमोभिभूते लोके च प्रभा येन प्रवर्तिता । स्वस्ति तेऽस्त्व् इति चोक्त्वा वै पतमानो दिवाकरः
॥१०॥वचनात् तस्य विप्रर्षेर् न पपात दिवो महीम् । अत्रिश्रेष्ठानि गोत्राणि यश् चकार महातपाः
॥११॥यज्ञेष्व् अत्रेर् बलं चैव देवैर् यस्य प्रतिष्ठितम् । स तासु जनयाम् आस पुत्रिकास्व् आत्मकामजान्
॥१२॥दश पुत्रान् महासत्त्वांस् तपस्य् उग्रे रतांस् तथा । ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः
॥१३॥स्वस्त्यात्रेया इति ख्याताः किञ्च त्रिधनवर्जिताः । कक्षेयोस् तनयास् त्व् आसंस् त्रय एव महारथाः
॥१४॥सभानरश् चाक्षुषश् च परमन्युस् तथैव च । सभानरस्य पुत्रस् तु विद्वान् कालानलो नृपः
॥१५॥कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः । सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः
॥१६॥जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतोऽभवत् । जनमेजयस्य राजर्षेर् महाशालोऽभवत् सुतः
॥१७॥देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि । महामना नाम सुतो महाशालस्य विश्रुतः
॥१८॥जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः । महामनास् तु पुत्रौ द्वौ जनयाम् आस भो द्विजाः
॥१९॥उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् । उशीनरस्य पत्न्यस् तु पञ्च राजर्षिवंशजाः
॥२०॥नृगा कृमिर् नवा दर्वा पञ्चमी च दृषद्वती । उशीनरस्य पुत्रास् तु पञ्च तासु कुलोद्वहाः
॥२१॥तपसा चैव महता जाता वृद्धस्य चात्मजाः । नृगायास् तु नृगः पुत्रः कृम्यां कृमिर् अजायत
॥२२॥नवायास् तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् । दृषद्वत्यास् तु सञ्जज्ञे शिबिर् औशीनरो नृपः
॥२३॥शिबेस् तु शिबयो विप्रा यौधेयास् तु नृगस्य ह । नवस्य नवराष्ट्रं तु कृमेस् तु कृमिला पुरी
॥२४॥सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत । शिबेस् तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः
॥२५॥वृषदर्भः सुवीरश् च केकयो मद्रकस् तथा । तेषां जनपदाः स्फीता केकया मद्रकास् तथा
॥२६॥वृषदर्भाः सुवीराश् च तितिक्षोस् तु प्रजास् त्व् इमाः । तितिक्षुर् अभवद् राजा पूर्वस्यां दिशि भो द्विजाः
॥२७॥उषद्रथो महावीर्यः फेनस् तस्य सुतोऽभवत् । फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः
॥२८॥जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः । महायोगी स तु बलिर् बभूव नृपतिः पुरा
॥२९॥पुत्रान् उत्पादयाम् आस पञ्च वंशकरान् भुवि । अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस् तथैव च
॥३०॥पुण्ड्रः कलिङ्गश् च तथा बालेयं क्षत्रम् उच्यते । बालेया ब्राह्मणाश् चैव तस्य वंशकरा भुवि
॥३१॥बलेश् च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः । महायोगित्वम् आयुश् च कल्पस्य परिमाणतः
॥३२॥बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् । सङ्ग्रामे चाप्य् अजेयत्वं धर्मे चैव प्रधानताम्
॥३३॥त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा । चतुरो नियतान् वर्णांस् त्वं च स्थापयितेति च
॥३४॥इत्य् उक्तो विभुना राजा बलिः शान्तिं परां ययौ । कालेन महता विप्राः स्वं च स्थानम् उपागमत्
॥३५॥तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः । कलिङ्गाः पुण्ड्रकाश् चैव प्रजास् त्व् अङ्गस्य साम्प्रतम्
॥३६॥अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः । दधिवाहनपुत्रस् तु राजा दिविरथोऽभवत्
॥३७॥पुत्रो दिविरथस्यासीच् छक्रतुल्यपराक्रमः । विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः
॥३८॥तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ । यजता सह शक्रेण सोमः पीतो महात्मना
॥३९॥अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् । लोमपाद इति ख्यातो यस्य शान्ता सुताभवत्
॥४०॥तस्य दाशरथिर् वीरश् चतुरङ्गो महायशाः । ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः
॥४१॥चतुरङ्गस्य पुत्रस् तु पृथुलाक्ष इति स्मृतः । पृथुलाक्षसुतो राजा चम्पो नाम महायशाः
॥४२॥चम्पस्य तु पुरी चम्पा या मालिन्य् अभवत् पुरा । पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत्
॥४३॥ततो वैभाण्डकिस् तस्य वारणं शक्रवारणम् । अवतारयाम् आस महीं मन्त्रैर् वाहनम् उत्तमम्
॥४४॥हर्यङ्गस्य सुतस् तत्र राजा भद्ररथः स्मृतः । पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः
॥४५॥बृहद्दर्भः सुतस् तस्य यस्माज् जज्ञे बृहन्मनाः । बृहन्मनास् तु राजेन्द्रो जनयाम् आस वै सुतम्
॥४६॥नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः । आसीद् दृढरथस्यापि विश्वजिज् जनमेजयी
॥४७॥दायादस् तस्य वैकर्णो विकर्णस् तस्य चात्मजः । तस्य पुत्रशतं त्व् आसीद् अङ्गानां कुलवर्धनम्
॥४८॥एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । सत्यव्रता महात्मानः प्रजावन्तो महारथाः
॥४९॥ऋचेयोस् तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै । शृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस् तु भो द्विजाः
॥५०॥ऋचेयोस् तनयो राजा मतिनारो महीपतिः । मतिनारसुतास् त्व् आसंस् त्रयः परमधार्मिकाः
॥५१॥वसुरोधः प्रतिरथः सुबाहुश् चैव धार्मिकः । सर्वे वेदविदश् चैव ब्रह्मण्याः सत्यवादिनः
॥५२॥इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः । ब्रह्मवादिन्य् अधिस्त्री सा तंसुस् ताम् अभ्यगच्छत
॥५३॥तंसोः सुतोऽथ राजर्षिर् धर्मनेत्रः प्रतापवान् । ब्रह्मवादी पराक्रान्तस् तस्य भार्योपदानवी
॥५४॥उपदानवी ततः पुत्रांश् चतुरोऽजनयच् छुबान् । दुष्यन्तम् अथ सुष्मन्तं प्रवीरम् अनघं तथा
॥५५॥दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । स सर्वदमनो नाम नागायुतबलो महान्
॥५६॥चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । शकुन्तलायां भरतो यस्य नाम्ना तु भारताः
॥५७॥भरतस्य विनष्टेषु तनयेषु महीपतेः । मातॄणां तु प्रकोपेण मया तत् कथितं पुरा
॥५८॥बृहस्पतेर् अङ्गिरसः पुत्रो विप्रो महामुनिः । अयाजयद् भरद्वाजो महद्भिः क्रतुभिर् विभुः
॥५९॥पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि । ततोऽथ वितथो नाम भरद्वाजात् सुतोऽभवत्
॥६०॥ततोऽथ वितथे जाते भरतस् तु दिवं ययौ । वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ
॥६१॥स चापि वितथः पुत्राञ् जनयाम् आस पञ्च वै । सुहोत्रं च सुहोतारं गयं गर्गं तथैव च
॥६२॥कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् । काशिकं च महासत्यं तथा गृत्समतिं नृपम्
॥६३॥तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः । काशिकस्य तु काशेयः पुत्रो दीर्घतपास् तथा
॥६४॥बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः । धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः
॥६५॥तथा केतुमतः पुत्रो विद्वान् भीमरथः स्मृतः । पुत्रो भीमरथस्यापि वाराणस्यधिपोऽभवत्
॥६६॥दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः । दिवोदासस्य पुत्रस् तु वीरो राजा प्रतर्दनः
॥६७॥प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च । अलर्को राजपुत्रस् तु राजा सन्मतिमान् भुवि
॥६८॥हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः । आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्
॥६९॥भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । दिवोदासेन बालेति घृणयासौ विसर्जितः
॥७०॥अष्टारथो नाम नृपः सुतो भीमरथस्य वै । तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः
॥७१॥वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता । अलर्कः काशिराजस् तु ब्रह्मण्यः सत्यसङ्गरः
॥७२॥षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः
॥७३॥लोपामुद्राप्रसादेन परमायुर् अवाप सः । वयसोऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम्
॥७४॥रम्यां निवेशयाम् आस पुरीं वाराणसीं नृपः । अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः
॥७५॥क्षेमकस्य तु पुत्रो वै वर्षकेतुस् ततोऽभवत् । वर्षकेतोश् च दायादो विभुर् नाम प्रजेश्वरः
॥७६॥आनर्तस् तु विभोः पुत्रः सुकुमारस् ततोऽभवत् । सुकुमारस्य पुत्रस् तु सत्यकेतुर् महारथः
॥७७॥सुतोऽभवन् महातेजा राजा परमधार्मिकः । वत्सस्य वत्सभूमिस् तु भर्गभूमिस् तु भार्गवात्
॥७८॥एते त्व् अङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः
॥७९॥आजमीढोऽपरो वंशः श्रूयतां द्विजसत्तमाः । सुहोत्रस्य बृहत् पुत्रो बृहतस् तनयास् त्रयः
॥८०॥अजमीढो द्विमीढश् च पुरुमीढश् च वीर्यवान् । अजमीढस्य पत्न्यस् तु तिस्रो वै यशसान्विताः
॥८१॥नीली च केशिनी चैव धूमिनी च वराङ्गनाः । अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्
॥८२॥आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् । पतिलोभेन यं गङ्गा विनीतेव ससार ह
॥८३॥नेच्छतः प्लावयाम् आस तस्य गङ्गा च तत् सदः । तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
॥८४॥जह्नुर् अप्य् अब्रवीद् गङ्गां क्रुद्धो विप्रास् तदा नृपः । एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्य् अहम् । अस्य गङ्गेऽवलेपस्य सद्यः फलम् अवाप्नुहि
॥८५॥ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः । उपनिन्युर् महाभागा दुहितृत्वेन जाह्नवीम्
॥८६॥युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत् । गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम्
॥८७॥जह्नोस् तु दयितः पुत्रो अजको नाम वीर्यवान् । अजकस्य तु दायादो बलाकाश्वो महीपतिः
॥८८॥बभूव मृगयाशीलः कुशिकस् तस्य चात्मजः । पह्नवैः सह संवृद्धो राजा वनचरैः सह
॥८९॥कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं विभुम् । लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान्
॥९०॥स गाधिर् अभवद् राजा मघवा कौशिकः स्वयम् । विश्वामित्रस् तु गाधेयो विश्वामित्रात् तथाष्टकः
॥९१॥अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः
॥९२॥अजमीढात् तु नील्यां वै सुशान्तिर् उदपद्यत । पुरुजातिः सुशान्तेश् च बाह्याश्वः पुरुजातितः
॥९३॥बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः । मुद्गलः सृञ्जयश् चैव राजा बृहदिषुस् तदा
॥९४॥यवीनरश् च विक्रान्तः कृमिलाश्वश् च पञ्चमः । पञ्चैते रक्षणायालं देशानाम् इति विश्रुताः
॥९५॥पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः । अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः
॥९६॥मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः । इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत
॥९७॥आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः
॥९८॥सोमदत्तस्य दायादः सहदेवो महायशाः । सहदेवसुतश् चापि सोमको नाम विश्रुतः
॥९९॥अजमीढसुतो जातः क्षीणे वंशे तु सोमकः । सोमकस्य सुतो जन्तुर् यस्य पुत्रशतं बभौ
॥१००॥तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः । आजमीढाः स्मृताश् चैते महात्मानस् तु सोमकाः
॥१०१॥महिषी त्व् अजमीढस्य धूमिनी पुत्रगृद्धिनी । पतिव्रता महाभागा कुलजा मुनिसत्तमाः
॥१०२॥सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता । ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम्
॥१०३॥हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना । अग्निहोत्रकुशेष्व् एव सुष्वाप मुनिसत्तमाः
॥१०४॥धूमिन्या स तया देव्या त्व् अजमीढः समीयिवान् । ऋक्षं सञ्जनयाम् आस धूम्रवर्णं सुदर्शनम्
॥१०५॥ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा । यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह
॥१०६॥पुण्यं च रमणीयं च पुण्यकृद्भिर् निषेवितम् । तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः
॥१०७॥कुरोश् च पुत्राश् चत्वारः सुधन्वा सुधनुस् तथा । परीक्षिच् च महाबाहुः प्रवरश् चारिमेजयः
॥१०८॥परीक्षितस् तु दायादो धार्मिको जनमेजयः । श्रुतसेनोऽग्रसेनश् च भीमसेनश् च नामतः
॥१०९॥एते सर्वे महाभागा विक्रान्ता बलशालिनः । जनमेजयस्य पुत्रस् तु सुरथो मतिमांस् तथा
॥११०॥सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । विदूरथस्य दायाद ऋक्ष एव महारथः
॥१११॥द्वितीयस् तु भरद्वाजान् नाम्ना तेनैव विश्रुतः । द्वाव् ऋक्षौ सोमवंशेऽस्मिन् द्वाव् एव च परीक्षितौ
॥११२॥भीमसेनास् त्रयो विप्रा द्वौ चापि जनमेजयौ । ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत् सुतः
॥११३॥प्रतीपो भीमसेनात् तु प्रतीपस्य तु शान्तनुः । देवापिर् बाह्लिकश् चैव त्रय एव महारथाः
॥११४॥शान्तनोस् त्व् अभवद् भीष्मस् तस्मिन् वंशे द्विजोत्तमाः । बाह्लिकस्य तु राजर्षेर् वंशं शृणुत भो द्विजाः
॥११५॥बाह्लिकस्य सुतश् चैव सोमदत्तो महायशाः । जज्ञिरे सोमदत्तात् तु भूरिर् भूरिश्रवाः शलः
॥११६॥उपाध्यायस् तु देवानां देवापिर् अभवन् मुनिः । च्यवनपुत्रः कृतक इष्ट आसीन् महात्मनः
॥११७॥शान्तनुस् त्व् अभवद् राजा कौरवाणां धुरन्धरः । शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम्
॥११८॥गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः । स तु भीष्म इति ख्यातः पाण्डवानां पितामहः
॥११९॥काली विचित्रवीर्यं तु जनयाम् आस भो द्विजाः । शान्तनोर् दयितं पुत्रं धर्मात्मानम् अकल्मषम्
॥१२०॥कृष्णद्वैपायनाच् चैव क्षेत्रे वैचित्रवीर्यके । धृतराष्ट्रं च पाण्डुं च विदुरं चाप्य् अजीजनत्
॥१२१॥धृतराष्ट्रस् तु गान्धार्यां पुत्रान् उत्पादयच् छतम् । तेषां दुर्योधनः श्रेष्ठः सर्वेषाम् अपि स प्रभुः
॥१२२॥पाण्डोर् धनञ्जयः पुत्रः सौभद्रस् तस्य चात्मजः । अभिमन्योः परीक्षित् तु पिता पारीक्षितस्य ह
॥१२३॥पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः । चन्द्रापीडस् तु नृपतिः सूर्यापीडश् च मोक्षवित्
॥१२४॥चन्द्रापीडस्य पुत्राणां शतम् उत्तमधन्विनाम् । जानमेजयम् इत्य् एवं क्षात्रं भुवि परिश्रुतम्
॥१२५॥तेषां ज्येष्ठस् तु तत्रासीत् पुरे वारणसाह्वये । सत्यकर्णो महाबाहुर् यज्वा विपुलदक्षिणः
॥१२६॥सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् । अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम्
॥१२७॥तस्माद् वनगता गर्भं यादवी प्रत्यपद्यत । सुचारोर् दुहिता सुभ्रूर् मालिनी ग्राहमालिनी
॥१२८॥सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः । अन्वगच्छत् कृतं पूर्वं महाप्रस्थानम् अच्युतम्
॥१२९॥सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतोऽन्वगात् । सुचारोर् दुहिता साध्वी वने राजीवलोचना
॥१३०॥पथि सा सुषुवे बाला सुकुमारं कुमारकम् । तम् अपास्याथ तत्रैव राजानं सान्वगच्छत
॥१३१॥पतिव्रता महाभागा द्रौपदीव पुरा सती । कुमारः सुकुमारोऽसौ गिरिपृष्ठे रुरोद ह
॥१३२॥दयार्थं तस्य मेघास् तु प्रादुरासन् महात्मनः । श्रविष्ठायास् तु पुत्रौ द्वौ पैप्पलादिश् च कौशिकः
॥१३३॥दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले । निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ
॥१३४॥अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः । अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः
॥१३५॥अथाजपार्श्व इति वै चक्राते नाम तस्य तौ । स तु रेमकशालायां द्विजाभ्याम् अभिवर्धितः
॥१३६॥रेमकस्य तु भार्या तम् उद्वहत् पुत्रकारणात् । रेमत्याः स तु पुत्रोऽभूद् ब्राह्मणौ सचिवौ तु तौ
॥१३७॥तेषां पुत्राश् च पौत्राश् च युगपत्तुल्यजीविनः । स एष पौरवो वंशः पाण्डवानां महात्मनाम्
॥१३८॥श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना । जरासङ्क्रमणे पूर्वं तदा प्रीतेन धीमता
॥१३९॥अचन्द्रार्कग्रहा भूमिर् भवेद् इयम् असंशयम् । अपौरवा मही नैव भविष्यति कदाचन
॥१४०॥एष वः पौरवो वंशो विख्यातः कथितो मया । तुर्वसोस् तु प्रवक्ष्यामि द्रुह्योश् चानोर् यदोस् तथा
॥१४१॥तुर्वसोस् तु सुतो वह्निर् गोभानुस् तस्य चात्मजः । गोभानोस् तु सुतो राजा ऐशानुर् अपराजितः
॥१४२॥करन्धमस् तु ऐशानोर् मरुत्तस् तस्य चात्मजः । अन्यस् त्व् आविक्षितो राजा मरुत्तः कथितो मया
॥१४३॥अनपत्योऽभवद् राजा यज्वा विपुलदक्षिणः । दुहिता संयता नाम तस्यासीत् पृथिवीपतेः
॥१४४॥दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने । दुष्यन्तं पौरवं चापि लेभे पुत्रम् अकल्मषम्
॥१४५॥एवं ययातिशापेन जरासङ्क्रमणे तदा । पौरवं तुर्वसोर् वंशं प्रविवेश द्विजोत्तमाः
॥१४६॥दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः । करूरोमाद् अथाह्रीदश् चत्वारस् तस्य चात्मजाः
॥१४७॥पाण्ड्यश् च केरलश् चैव कालश् चोलश् च पार्थिवः । द्रुह्योश् च तनयो राजन् बभ्रुसेतुश् च पार्थिवः
॥१४८॥अङ्गारसेतुस् तत्पुत्रो मरुतां पतिर् उच्यते । यौवनाश्वेन समरे कृच्छ्रेण निहतो बली
॥१४९॥युद्धं सुमहद् अप्य् आसीन् मासान् परिचरद् दश । अङ्गारसेतोर् दायादो गान्धारो नाम पार्थिवः
॥१५०॥ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् । गान्धारदेशजाश् चैव तुरगा वाजिनां वराः
॥१५१॥अनोस् तु पुत्रो धर्मोऽभूद् द्यूतस् तस्यात्मजोऽभवत् । द्यूताद् वनदुहो जज्ञे प्रचेतास् तस्य चात्मजः
॥१५२॥प्रचेतसः सुचेतास् तु कीर्तितास् त्व् अनवो मया । बभूवुस् तु यदोः पुत्राः पञ्च देवसुतोपमाः
॥१५३॥सहस्रादः पयोदश् च क्रोष्टा नीलोऽञ्जिकस् तथा । सहस्रादस्य दायादास् त्रयः परमधार्मिकाः
॥१५४॥हैहयश् च हयश् चैव राजा वेणुहयस् तथा । हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः
॥१५५॥धर्मनेत्रस्य कार्तस् तु साहञ्जस् तस्य चात्मजः । साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता
॥१५६॥आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः
॥१५७॥दुर्दमस्य सुतो धीमान् कनको नाम नामतः । कनकस्य तु दायादाश् चत्वारो लोकविश्रुताः
॥१५८॥कृतवीर्यः कृतौजाश् च कृतधन्वा तथैव च । कृताग्निस् तु चतुर्थोऽभूत् कृतवीर्याद् अथार्जुनः
॥१५९॥योऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् । जिगाय पृथिवीम् एको रथेनादित्यवर्चसा
॥१६०॥स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । दत्तम् आराधयाम् आस कार्तवीर्योऽत्रिसम्भवम्
॥१६१॥तस्मै दत्तो वरान् प्रादाच् चतुरो भूरितेजसः । पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद् वरम्
॥१६२॥अधर्मेऽधीयमानस्य सद्भिस् तत्र निवारणम् । उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम्
॥१६३॥सङ्ग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः । सङ्ग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे
॥१६४॥तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः । योगाद् योगीश्वरस्येव प्रादुर्भवति मायया
॥१६५॥तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ससमुद्रा सनगरा उग्रेण विधिना जिता
॥१६६॥तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च । प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः
॥१६७॥सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः । सर्वे काञ्चनयूपाश् च सर्वे काञ्चनवेदयः
॥१६८॥सर्वे देवैर् मुनिश्रेष्ठा विमानस्थैर् अलङ्कृतैः । गन्धर्वैर् अप्सरोभिश् च नित्यम् एवोपशोभिताः
॥१६९॥यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस् तथा । वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः
॥१७०॥नारद उवाच:
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञैर् दानैस् तपोभिश् च विक्रमेण श्रुतेन च
॥१७१॥स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी । रथी द्वीपान् अनुचरन् योगी सन्दृश्यते नृभिः
॥१७२॥अनष्टद्रव्यता चैव न शोको न च विभ्रमः । प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः
॥१७३॥स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह । स एव पशुपालोऽभूत् क्षेत्रपालः स एव च
॥१७४॥सैव वृष्ट्या पर्जन्यो योगित्वाद् अर्जुनोऽभवत् । स वै बाहुसहस्रेण ज्याघातकठिनत्वचा
॥१७५॥भाति रश्मिसहस्रेण शरदीव च भास्करः । स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः
॥१७६॥कर्कोटकसुताञ् जित्वा पुर्यां तस्यां न्यवेशयत् । स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः
॥१७७॥क्रीडन्न् इव भुजोद्भिन्नं प्रतिस्रोतश् चकार ह । लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी
॥१७८॥चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा । तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ
॥१७९॥भयान् निलीना निश्चेष्ठाः पातालस्था महीसुराः । चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम्
॥१८०॥मारुताविद्धफेनौघम् आवर्तक्षोभसङ्कुलम् । प्रावर्तयत् तदा राजा सहस्रेण च बाहुना
॥१८१॥देवासुरसमाक्षिप्तः क्षीरोदम् इव मन्दरः । मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः
॥१८२॥सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् । नता निश्चलमूर्धानो बभूवुस् ते महोरगाः
॥१८३॥सायाह्ने कदलीखण्डाः कम्पिता इव वायुना । स वै बद्ध्वा धनुर् ज्याभिर् उत्सिक्तं पञ्चभिः शरैः
॥१८४॥लङ्केशं मोहयित्वा तु सबलं रावणं बलात् । निर्जित्य वशम् आनीय माहिष्मत्यां बबन्ध तम्
॥१८५॥श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्व् अर्जुनेन च । ततो गत्वा पुलस्त्यस् तम् अर्जुनं ददृशे स्वयम्
॥१८६॥मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः । यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः
॥१८७॥युगान्ते तोयदस्येव स्फुटतो ह्य् अशनेर् इव । अहो बत मृधे वीर्यं भार्गवस्य यद् अच्छिनत्
॥१८८॥राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा । तृषितेन कदाचित् स भिक्षितश् चित्रभानुना
॥१८९॥स भिक्षाम् अददाद् वीरः सप्त द्वीपान् विभावसोः । पुराणि ग्रामघोषांश् च विषयांश् चैव सर्वशः
॥१९०॥जज्वाल तस्य सर्वाणि चित्रभानुर् दिधृक्षया । स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः
॥१९१॥ददाह कार्तवीर्यस्य शैलांश् चैष वनानि च । स शून्यम् आश्रमं रम्यं वरुणस्यात्मजस्य वै
॥१९२॥ददाह बलवद्भीतश् चित्रभानुः स हैहयः । यं लेभे वरुणः पुत्रं पुरा भास्वन्तम् उत्तमम्
॥१९३॥वसिष्ठं नाम स मुनिः ख्यात आपव इत्य् उत । यत्रापवस् तु तं क्रोधाच् छप्तवान् अर्जुनं विभुः
॥१९४॥यस्मान् न वर्जितम् इदं वनं ते मम हैहय । तस्मात् ते दुष्करं कर्म कृतम् अन्यो हनिष्यति
॥१९५॥रामो नाम महाबाहुर् जामदग्न्यः प्रतापवान् । छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली
॥१९६॥तपस्वी ब्राह्मणस् त्वां तु हनिष्यति स भार्गवः । अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः
॥१९७॥प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः । प्राप्तस् ततोऽस्य मृत्युर् वै तस्य शापान् महामुनेः
॥१९८॥वरस् तथैव भो विप्राः स्वयम् एव वृतः पुरा । तस्य पुत्रशतं त्व् आसीत् पञ्च शेषा महात्मनः
॥१९९॥कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । शूरसेनश् च शूरश् च वृषणो मधुपध्वजः
॥२००॥जयध्वजश् च नाम्नासीद् आवन्त्यो नृपतिर् महान् । कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः
॥२०१॥जयध्वजस्य पुत्रस् तु तालजङ्घो महाबलः । तस्य पुत्रशतं ख्यातास् तालजङ्घा इति स्मृताः
॥२०२॥तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् । वीतिहोत्राः सुजाताश् च भोजाश् चावन्तयः स्मृताः
॥२०३॥तौण्डिकेराश् च विख्यातास् तालजङ्घास् तथैव च । भरताश् च सुजाताश् च बहुत्वान् नानुकीर्तिताः
॥२०४॥वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः । वृषो वंशधरस् तत्र तस्य पुत्रोऽभवन् मधुः
॥२०५॥मधोः पुत्रशतं त्व् आसीद् वृषणस् तस्य वंशकृत् । वृषणाद् वृष्णयः सर्वे मधोस् तु माधवाः स्मृताः
॥२०६॥यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः । न तस्य वित्तनाशः स्यान् नष्टं प्रति लभेच् च सः
॥२०७॥कार्तवीर्यस्य यो जन्म कथयेद् इह नित्यशः । एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः
॥२०८॥कीर्तिता लोकवीराणां ये लोकान् धारयन्ति वै । भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान्
॥२०९॥श्रुत्वा पञ्च विसर्गांस् तु राजा धर्मार्थकोविदः । वशी भवति पञ्चानाम् आत्मजानां तथेश्वरः
॥२१०॥लभेत् पञ्च वरांश् चैव दुर्लभान् इह लौकिकान् । आयुः कीर्तिं तथा पुत्रान् ऐश्वर्यं भूतिम् एव च
॥२११॥धारणाच् छ्रवणाच् चैव पञ्चवर्गस्य भो द्विजाः । क्रोष्टोर् वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम
॥२१२॥यदोर् वंशधरस्याथ यज्विनः पुण्यकर्मिणः । क्रोष्टोर् वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते । यस्यान्ववायजो विष्णुर् हरिर् वृष्णिकुलोद्वहः
॥२१३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).