अध्यायः ५१
श्रीभगवान् उवाच:
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् । न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम्
॥१॥अर्तिहा सर्वलोकानाम् अनन्तबलपौरुषः । आराधनीयो भूतानाम् अन्तो यस्य न विद्यते
॥२॥पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते । यम् आहुर् ज्ञानगम्येति वासुदेवेति योगिनः
॥३॥अहम् एव स्वयं ब्रह्मा अहं विष्णुः शिवोऽप्य् अहम् । इन्द्रोऽहं देवराजश् च जगत्संयमनो यमः
॥४॥पृथिव्यादीनि भूतानि त्रेताग्निर् हुतभुङ् नृप । वरुणोऽपां पतिश् चाहं धरित्री च महीधरः
॥५॥यत् किञ्चिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् । चराचरं च यद् विश्वं मदन्यन् नास्ति किञ्चन
॥६॥प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत । यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम्
॥७॥मद्दर्शनम् अपुण्यानां स्वप्नान्तेऽपि न जायते । त्वं पुनर् दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि
॥८॥ब्रह्मोवाच:
श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः । रोमाञ्चिततनुर् भूत्वा इदं स्तोत्रं जगौ नृपः
॥९॥राजोवाच:
श्रियः कान्त नमस् तेऽस्तु श्रीपते पीतवाससे । श्रीद श्रीश श्रीनिवास नमस् ते श्रीनिकेतन
॥१०॥आद्यं पुरुषम् ईशानं सर्वेशं सर्वतोमुखम् । निष्कलं परमं देवं प्रणतोऽस्मि सनातनम्
॥११॥शब्दातीतं गुणातीतं भावाभावविवर्जितम् । निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम्
॥१२॥प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् । सर्वेषाम् एव गोप्तारं व्यापिनं सर्वभाविनम्
॥१३॥शङ्खचक्रधरं देवं गदामुशलधारिणम् । नमस्ये वरदं देवं नीलोत्पलदलच्छविम्
॥१४॥नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् । नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम्
॥१५॥पुनस् त्वां देवदेवेशं नमस्ये वरदं विभुम् । सर्वलोकेश्वरं विष्णुं मोक्षकारणम् अव्ययम्
॥१६॥ब्रह्मोवाच:
एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः । उवाच प्रणतो भूत्वा निपत्य धरणीतले
॥१७॥राजोवाच:
प्रीतोऽसि यदि मे नाथ वृणोमि वरम् उत्तमम् । देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः
॥१८॥सिद्धविद्याधराः साध्याः किन्नरा गुह्यकास् तथा । ऋषयो ये महाभागा नानाशास्त्रविशारदाः
॥१९॥परिव्राड्योगयुक्ताश् च वेदतत्त्वार्थचिन्तकाः । मोक्षमार्गविदो येऽन्ये ध्यायन्ति परमं पदम्
॥२०॥निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः । तत् पदं गन्तुम् इच्छामि त्वत्प्रसादात् सुदुर्लभम्
॥२१॥श्रीभगवान् उवाच:
सर्वं भवतु भद्रं ते यथेष्टं सर्वम् आप्नुहि । भविष्यति यथाकामं मत्प्रसादान् न संशयः
॥२२॥दश वर्षसहस्राणि तथा नव शतानि च । अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम
॥२३॥प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः । पूर्णमनोरथं शान्तं गुह्यम् अव्यक्तम् अव्ययम्
॥२४॥परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् । चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम्
॥२५॥तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् । यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम्
॥२६॥कीर्तिश् च तव राजेन्द्र भवत्य् अत्र महीतले । यावद् घना नभो यावद् यावच् चन्द्रार्कतारकम्
॥२७॥यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः । तिष्ठन्ति दिवि देवाश् च तावत् सर्वत्र चाव्यया
॥२८॥इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् । यत्र स्नात्वा सकृल् लोकः शक्रलोकम् अवाप्नुयात्
॥२९॥दापयिष्यति यः पिण्डांस् तटेऽस्मिन् सरसः शुभे । कुलैकविंशम् उद्धृत्य शक्रलोकं गमिष्यति
॥३०॥पूज्यमानोऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः । विमानेन वसेत् तत्र यावद् इन्द्राश् चतुर्दश
॥३१॥सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते । न्यग्रोधस् तिष्ठते तत्र तत्समीपे तु मण्डपः
॥३२॥केतकीवनसञ्छन्नो नानापादपसङ्कुलः । नारिकेलैर् असङ्ख्येयैश् चम्पकैर् बकुलावृतैः
॥३३॥अशोकैः कर्णिकारैश् च पुन्नागैर् नागकेसरैः । पाटलाम्रातसरलैश् चन्दनैर् देवदारुभिः
॥३४॥न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः । हिन्तालैश् चैव तालैश् च शिंशपैर् बदरैस् तथा
॥३५॥करञ्जैर् लकुचैः प्लक्षैः पनसैर् बिल्वधातुकैः । अन्यैर् बहुविधैर् वृक्षैः शोभितः समलङ्कृतः
॥३६॥आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते । ऋक्षे नेष्यन्ति नस् तत्र नीत्वा सप्त दिनानि वै
॥३७॥मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः । क्रीडाविशेषबहुलैर् नृत्यगीतमनोहरैः
॥३८॥चामरैः स्वर्णदण्डैश् च व्यजनै रत्नभूषणैः । वीजयन्तस् तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः
॥३९॥ब्रह्मचारी यतिश् चैव स्नातकाश् च द्विजोत्तमाः । वानप्रस्था गृहस्थाश् च सिद्धाश् चान्ये च ब्राह्मणाः
॥४०॥नानावर्णपदैः स्तोत्रैर् ऋग्यजुःसामनिस्वनैः । करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः
॥४१॥ततः स्तुत्वा च दृष्ट्वा च सम्प्रणम्य च भक्तितः । नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत्
॥४२॥पूज्यमानोऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः । हरेर् अनुचरस् तत्र क्रीडते केशवेन वै
॥४३॥विमानेनार्कवर्णेन रत्नहारेण भ्राजता । सर्वकामैर् महाभोगैस् तिष्ठते भुवनोत्तमे
॥४४॥तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् । कोटीधनपतिः श्रीमांश् चतुर्वेदी भवेद् ध्रुवम्
॥४५॥ब्रह्मोवाच:
एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः । जगामादर्शनं विप्राः सहितो विश्वकर्मणा
॥४६॥स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः । कृतकृत्यम् इवात्मानं मेने सन्दर्शनाद् धरेः
॥४७॥ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् । रथैर् विमानसङ्काशैर् मणिकाञ्चनचित्रितैः
॥४८॥संवाह्य तास् तदा राजा महामङ्गलनिःस्वनैः । आनयाम् आस मतिमान् सामात्यः सपुरोहितः
॥४९॥नानावादित्रनिर्घोषैर् नानावेदस्वनैः शुभैः । संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे
॥५०॥ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे । प्रतिष्ठां कारयाम् आस सुमुहूर्ते द्विजैः सह
॥५१॥यथोक्तेन विधानेन विधिदृष्टेन कर्मणा । आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः
॥५२॥आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः । ऋत्विग्भ्यश् च विधानेन तथान्येभ्यो धनं ददौ
॥५३॥कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे । स्थापयाम् आस तान् सर्वान् विधिदृष्टेन कर्मणा
॥५४॥ततः सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः । सुवर्णमणिमुक्ताद्यैर् नानावस्त्रैः सुशोभनैः
॥५५॥रत्नैश् च विविधैर् दिव्यैर् आसनैर् ग्रामपत्तनैः । ददौ चान्यान् स विषयान् पुराणि नगराणि च
॥५६॥एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् । इष्ट्वा च विविधैर् यज्ञैर् दत्त्वा दानान्य् अनेकशः
॥५७॥कृतकृत्यस् ततो राजा त्यक्तसर्वपरिग्रहः । जगाम परमं स्थानं तद् विष्णोः परमं पदम्
॥५८॥एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः । क्षेत्रस्य चैव माहात्म्यं किम् अन्यच् छ्रोतुम् इच्छथ
॥५९॥विष्णुर् उवाच:
श्रुत्वैवं वचनं तस्य ब्रह्मणोऽव्यक्तजन्मनः । आश्चर्यं मेनिरे विप्राः पप्रच्छुश् च पुनर् मुदा
॥६०॥मुनय ऊचुः:
कस्मिन् काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् । विधिना केन कर्तव्यं पञ्चतीर्थम् इति प्रभो
॥६१॥एकैकस्य च तीर्थस्य स्नानदानस्य यत् फलम् । देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक्
॥६२॥ब्रह्मोवाच:
निराहारः कुरुक्षेत्रे पादेनैकेन यस् तपेत् । जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम्
॥६३॥दृष्ट्वा सदा ज्येष्ठशुक्लद्वादश्यां पुरुषोत्तमम् । कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम्
॥६४॥तस्माज् ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः । स्वर्गलोकेप्सुविप्राद्यैर् द्रष्टव्यः पुरुषोत्तमः
॥६५॥पञ्चतीर्थं तु विधिवत् कृत्वा ज्येष्ठे नरोत्तमः । शुक्लपक्षस्य द्वादश्यां पश्येत् तं पुरुषोत्तमम्
॥६६॥ये पश्यन्त्य् अव्ययं देवं द्वादश्यां पुरुषोत्तमम् । ते विष्णुलोकम् आसाद्य न च्यवन्ते कदाचन
॥६७॥तस्माज् ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः । कृत्वा तस्मिन् पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः
॥६८॥सुदूरस्थोऽपि यो भक्त्या कीर्तयेत् पुरुषोत्तमम् । अहन्य् अहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत्
॥६९॥यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः । सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः
॥७०॥चक्रं दृष्ट्वा हरेर् दूरात् प्रासादोपरि संस्थितम् । सहसा मुच्यते पापान् नरो भक्त्या प्रणम्य तत्
॥७१॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).