मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ३०

3
ब्रह्मपुराणम् · 30

अध्यायः ३०

मुनय ऊचुः:

अहो देवस्य माहात्म्यं श्रुतम् एवं जगत्पते । भास्करस्य सुरश्रेष्ठ वदतस् तेषु दुर्लभम्

॥१॥

भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते । श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः

॥२॥

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । य इच्छेन् मोक्षम् आस्थातुं देवतां कां यजेत सः

॥३॥

कुतो ह्य् अस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् । स्वर्गतश् चैव किं कुर्याद् येन न च्यवते पुनः

॥४॥

देवानां चात्र को देवः पितॄणां चैव कः पिता । यस्मात् परतरं नास्ति तन् मे ब्रूहि सुरेश्वर

॥५॥

कुतः सृष्टम् इदं विश्वं सर्वं स्थावरजङ्गमम् । प्रलये च कम् अभ्येति तद् भवान् वक्तुम् अर्हति

॥६॥

ब्रह्मोवाच:

उद्यन्न् एवैष कुरुते जगद् वितिमिरं करैः । नातः परतरो देवः कश्चिद् अन्यो द्विजोत्तमाः

॥७॥

अनादिनिधनो ह्य् एष पुरुषः शाश्वतोऽव्ययः । तापयत्य् एष त्रींल् लोकान् भवन् रश्मिभिर् उल्बणः

॥८॥

सर्वदेवमयो ह्य् एष तपतां तपनो वरः । सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः

॥९॥

सङ्क्षिपत्य् एष भूतानि तथा विसृजते पुनः । एष भाति तपत्य् एष वर्षत्य् एष गभस्तिभिः

॥१०॥

एष धाता विधाता च भूतादिर् भूतभावनः । न ह्य् एष क्षयम् आयाति नित्यम् अक्षयमण्डलः

॥११॥

पितॄणां च पिता ह्य् एष देवतानां हि देवता । ध्रुवं स्थानं स्मृतं ह्य् एतद् यस्मान् न च्यवते पुनः

॥१२॥

सर्गकाले जगत् कृत्स्नम् आदित्यात् सम्प्रसूयते । प्रलये च तम् अभ्येति भास्करं दीप्ततेजसम्

॥१३॥

योगिनश् चाप्य् असङ्ख्यातास् त्यक्त्वा गृहकलेवरम् । वायुर् भूत्वा विशन्त्य् अस्मिंस् तेजोराशौ दिवाकरे

॥१४॥

अस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः । वसन्त्य् आश्रित्य मुनयः संसिद्धा दैवतैः सह

॥१५॥

गृहस्था जनकाद्याश् च राजानो योगधर्मिणः । वालखिल्यादयश् चैव ऋषयो ब्रह्मवादिनः

॥१६॥

वानप्रस्थाश् च ये चान्ये व्यासाद्या भिक्षवस् तथा । योगम् आस्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम्

॥१७॥

शुको व्याससुतः श्रीमान् योगधर्मम् अवाप्य सः । आदित्यकिरणान् गत्वा ह्य् अपुनर्भावम् आस्थितः

॥१८॥

शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः । प्रत्यक्षोऽयं परो देवः सूर्यस् तिमिरनाशनः

॥१९॥

तस्माद् अन्यत्र भक्तिर् हि न कार्या शुभम् इच्छता । यस्माद् दृष्टेर् अगम्यास् ते देवा विष्णुपुरोगमाः

॥२०॥

अतो भवद्भिः सततम् अभ्यर्च्यो भगवान् रविः । स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः

॥२१॥

अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः । मित्रत्वे च स्थितो यस्मात् तपस् तेपे द्विजोत्तमाः

॥२२॥

अनादिनिधनो ब्रह्मा नित्यश् चाक्षय एव च । सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश

॥२३॥

लोकानां स हितार्थाय स्थितश् चन्द्रसरित्तटे । सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः

॥२४॥

ततः शतसहस्रांशुर् अव्यक्तश् च पुनः स्वयम् । कृत्वा द्वादशधात्मानम् आदित्यम् उपपद्यते

॥२५॥

इन्द्रो धाताथ पर्जन्यस् त्वष्टा पूषार्यमा भगः । विवस्वान् विष्णुर् अंशश् च वरुणो मित्र एव च

॥२६॥

आभिर् द्वादशभिस् तेन सूर्येण परमात्मना । कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः

॥२७॥

तस्य या प्रथमा मूर्तिर् आदित्यस्येन्द्रसञ्ज्ञिता । स्थिता सा देवराजत्वे देवानां रिपुनाशिनी

॥२८॥

द्वितीया तस्य या मूर्तिर् नाम्ना धातेति कीर्तिता । स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः

॥२९॥

तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता । मेघेष्व् एव स्थिता सा तु वर्षते च गभस्तिभिः

॥३०॥

चतुर्थी तस्य या मूर्तिर् नाम्ना त्वष्टेति विश्रुता । स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः

॥३१॥

पञ्चमी तस्य या मूर्तिर् नाम्ना पूषेति विश्रुता । अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः

॥३२॥

मूर्तिः षष्ठी रवेर् या तु अर्यमा इति विश्रुता । वायोः संसरणा सा तु देवेष्व् एव समाश्रिता

॥३३॥

भानोर् या सप्तमी मूर्तिर् नाम्ना भगेति विश्रुता । भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम्

॥३४॥

मूर्तिर् या त्व् अष्टमी तस्य विवस्वान् इति विश्रुता । अग्नौ प्रतिष्ठिता सा तु पचत्य् अन्नं शरीरिणाम्

॥३५॥

नवमी चित्रभानोर् या मूर्तिर् विष्णुश् च नामतः । प्रादुर्भवति सा नित्यं देवानाम् अरिसूदनी

॥३६॥

दशमी तस्य या मूर्तिर् अंशुमान् इति विश्रुता । वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः

॥३७॥

मूर्तिस् त्व् एकादशी भानोर् नाम्ना वरुणसञ्ज्ञिता । जलेष्व् अवस्थिता सा तु प्रजां पुष्णाति नित्यशः

॥३८॥

मूर्तिर् या द्वादशी भानोर् नाम्ना मित्रेति सञ्ज्ञिता । लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे

॥३९॥

वायुभक्षस् तपस् तेपे स्थित्वा मैत्रेण चक्षुषा । अनुगृह्णन् सदा भक्तान् वरैर् नानाविधैस् तु सः

॥४०॥

एवं सा जगतां मूर्तिर् हिता विहिता पुरा । तत्र मित्रः स्थितो यस्मात् तस्मान् मित्रं परं स्मृतम्

॥४१॥

आभिर् द्वादशभिस् तेन सवित्रा परमात्मना । कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः

॥४२॥

तस्माद् ध्येयो नमस्यश् च द्वादशस्थासु मूर्तिषु । भक्तिमद्भिर् नरैर् नित्यं तद्गतेनान्तरात्मना

॥४३॥

इत्य् एवं द्वादशादित्यान् नमस्कृत्वा तु मानवः । नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते

॥४४॥

मुनय ऊचुः:

यदि तावद् अयं सूर्यश् चादिदेवः सनातनः । ततः कस्मात् तपस् तेपे वरेप्सुः प्राकृतो यथा

॥४५॥

ब्रह्मोवाच:

एतद् वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः । पृष्टं मित्रेण यत् पूर्वं नारदाय महात्मने

॥४६॥

प्राङ् मयोक्तास् तु युष्मभ्यं रवेर् द्वादश मूर्तयः । मित्रश् च वरुणश् चोभौ तासां तपसि संस्थितौ

॥४७॥

अब्भक्षो वरुणस् तासां तस्थौ पश्चिमसागरे । मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत् तदा

॥४८॥

अथ मेरुगिरेः शृङ्गात् प्रच्युतो गन्धमादनात् । नारदस् तु महायोगी सर्वांल् लोकांश् चरन् वशी

॥४९॥

आजगामाथ तत्रैव यत्र मित्रोऽचरत् तपः । तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्य् अभूत्

॥५०॥

योऽक्षयश् चाव्ययश् चैव व्यक्ताव्यक्तः सनातनः । धृतम् एकात्मकं येन त्रैलोक्यं सुमहात्मना

॥५१॥

यः पिता सर्वदेवानां पराणाम् अपि यः परः । अयजद् देवताः कास् तु पितॄन् वा कान् असौ यजेत् । इति सञ्चिन्त्य मनसा तं देवं नारदोऽब्रवीत्

॥५२॥

नारद उवाच:

वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे । त्वम् अजः शाश्वतो धाता त्वं निधानम् अनुत्तमम्

॥५३॥

भूतं भव्यं भवच् चैव त्वयि सर्वं प्रतिष्ठितम् । चत्वारश् चाश्रमा देव गृहस्थाद्यास् तथैव हि

॥५४॥

यजन्ति त्वाम् अहरहस् त्वां मूर्तित्वं समाश्रितम् । पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम्

॥५५॥

यजसे पितरं कं त्वं देवं वापि न विद्महे

॥५६॥

मित्र उवाच:

अवाच्यम् एतद् वक्तव्यं परं गुह्यं सनातनम् । त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम्

॥५७॥

यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलं ध्रुवम् । इन्द्रियैर् इन्द्रियार्थैश् च सर्वभूतैर् विवर्जितम्

॥५८॥

स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चैव कथ्यते । त्रिगुणाद् व्यतिरिक्तोऽसौ पुरुषश् चैव कल्पितः

॥५९॥

हिरण्यगर्भो भगवान् सैव बुद्धिर् इति स्मृतः । महान् इति च योगेषु प्रधानम् इति कथ्यते

॥६०॥

साङ्ख्ये च कथ्यते योगे नामभिर् बहुधात्मकः । स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः

॥६१॥

धृतम् एकात्मकं तेन त्रैलोक्यम् इदम् आत्मना । अशरीरः शरीरेषु सर्वेषु निवसत्य् असौ

॥६२॥

वसन्न् अपि शरीरेषु न स लिप्येत कर्मभिः । ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः

॥६३॥

सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् । सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्य् असौ स्मृतः

॥६४॥

सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः । सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठति

॥६५॥

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश् चरति वै क्षेत्रे स्वैरचारी यथासुखम्

॥६६॥

क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते

॥६७॥

अव्यक्ते च पुरे शेते पुरुषस् तेन चोच्यते । विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते

॥६८॥

तस्मात् स बहुरूपत्वाद् विश्वरूप इति स्मृतः । तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः

॥६९॥

महापुरुषशब्दं हि बिभर्त्य् एकः सनातनः । स तु विधिक्रियायत्तः सृजत्य् आत्मानम् आत्मना

॥७०॥

शतधा सहस्रधा चैव तथा शतसहस्रधा । कोटिशश् च करोत्य् एष प्रत्यगात्मानम् आत्मना

॥७१॥

आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा । भूमे रसविशेषेण तथा गुणरसात् तु सः

॥७२॥

एक एव यथा वायुर् देहेष्व् एव हि पञ्चधा । एकत्वं च पृथक्त्वं च तथा तस्य न संशयः

॥७३॥

स्थानान्तरविशेषाच् च यथाग्निर् लभते पराम् । सञ्ज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात्

॥७४॥

यथा दीपसहस्राणि दीप एकः प्रसूयते । तथा रूपसहस्राणि स एकः सम्प्रसूयते

॥७५॥

यदा स बुध्यत्य् आत्मानं तदा भवति केवलः । एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते

॥७६॥

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । अक्षयश् चाप्रमेयश् च सर्वगश् च स उच्यते

॥७७॥

तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तमाः । अव्यक्ताव्यक्तभावस्था या सा प्रकृतिर् उच्यते

॥७८॥

तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः । लोके च पूज्यते योऽसौ दैवे पित्र्ये च कर्मणि

॥७९॥

नास्ति तस्मात् परो ह्य् अन्यः पिता देवोऽपि वा द्विजाः । आत्मना स तु विज्ञेयस् ततस् तं पूजयाम्य् अहम्

॥८०॥

स्वर्गेष्व् अपि हि ये केचित् तं नमस्यन्ति देहिनः । तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम्

॥८१॥

तं देवाः स्वाश्रमस्थाश् च नानामूर्तिसमाश्रिताः । भक्त्या सम्पूजयन्त्य् आद्यं गतिश् चैषां ददाति सः

॥८२॥

स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते । एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम्

॥८३॥

ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः । एतद् अप्य् अधिकं तेषां यद् एकं प्रविशन्त्य् उत

॥८४॥

इति गुह्यसमुद्देशस् तव नारद कीर्तितः । अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम्

॥८५॥

सुरैर् वा मुनिभिर् वापि पुराणैर् वरदं स्मृतम् । सर्वे च परमात्मानं पूजयन्ति दिवाकरम्

॥८६॥

ब्रह्मोवाच:

एवम् एतत् पुराख्यातं नारदाय तु भानुना । मयापि च समाख्याता कथा भानोर् द्विजोत्तमाः

॥८७॥

इदम् आख्यानम् आख्येयं मयाख्यातं द्विजोत्तमाः । न ह्य् अनादित्यभक्ताय इदं देयं कदाचन

॥८८॥

यश् चैतच् छ्रावयेन् नित्यं यश् चैव शृणुयान् नरः । स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः

॥८९॥

मुच्येतार्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम् । जिज्ञासुर् लभते ज्ञानं गतिम् इष्टां तथैव च

॥९०॥

क्षणेन लभतेऽध्वानम् इदं यः पठते मुने । यो यं कामयते कामं स तं प्राप्नोत्य् असंशयम्

॥९१॥

तस्माद् भवद्भिः सततं स्मर्तव्यो भगवान् रविः । स च धाता विधाता च सर्वस्य जगतः प्रभुः

॥९२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).