अध्यायः ३२
मुनय ऊचुः:
निर्गुणः शाश्वतो देवस् त्वया प्रोक्तो दिवाकरः । पुनर् द्वादशधा जातः श्रुतोऽस्माभिस् त्वयोदितः
॥१॥स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः । सम्भूतो भास्करो जातस् तत्र नः संशयो महान्
॥२॥ब्रह्मोवाच:
दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः । अदितिर् दितिर् दनुश् चैव विनताद्यास् तथैव च
॥३॥दक्षस् ताः प्रददौ कन्याः कश्यपाय त्रयोदश । अदितिर् जनयाम् आस देवांस् त्रिभुवनेश्वरान्
॥४॥दैत्यान् दितिर् दनुश् चोग्रान् दानवान् बलदर्पितान् । विनताद्यास् तथा चान्याः सुषुवुः स्थानुजङ्गमान्
॥५॥तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः । व्याप्तम् एतज् जगत् सर्वं तेषां तासां च वै मुने
॥६॥तेषां कश्यपपुत्राणां प्रधाना देवतागणाः । सात्त्विका राजसाश् चान्ये तामसाश् च गणाः स्मृताः
॥७॥देवान् यज्ञभुजश् चक्रे तथा त्रिभुवनेश्वरान् । स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः
॥८॥तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः । ततो निराकृतान् पुत्रान् दैतेयैर् दानवैस् तथा
॥९॥हतं त्रिभुवनं दृष्ट्वा अदितिर् मुनिसत्तमाः । आच्छिनद् यज्ञभागांश् च क्षुधा सम्पीडितान् भृशम्
॥१०॥आराधनाय सवितुः परं यत्नं प्रचक्रमे । एकाग्रा नियताहारा परं नियमम् आस्थिता । तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम्
॥११॥अदितिर् उवाच:
नमस् तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम् । धाम धामवताम् ईशं धामाधारं च शाश्वतम्
॥१२॥जगताम् उपकाराय त्वाम् अहं स्तौमि गोपते । आददानस्य यद् रूपं तीव्रं तस्मै नमाम्य् अहम्
॥१३॥ग्रहीतुम् अष्टमासेन कालेनाम्बुमयं रसम् । बिभ्रतस् तव यद् रूपम् अतितीव्रं नतास्मि तत्
॥१४॥समेतम् अग्निसोमाभ्यां नमस् तस्मै गुणात्मने । यद् रूपम् ऋग्यजुःसाम्नाम् ऐक्येन तपते तव
॥१५॥विश्वम् एतत् त्रयीसञ्ज्ञं नमस् तस्मै विभावसो । यत् तु तस्मात् परं रूपम् ओम् इत्य् उक्त्वाभिसंहितम् । अस्थूलं स्थूलम् अमलं नमस् तस्मै सनातन
॥१६॥ब्रह्मोवाच:
एवं सा नियता देवी चक्रे स्तोत्रम् अहर्निशम् । निराहारा विवस्वन्तम् आरिराधयिषुर् द्विजाः
॥१७॥ततः कालेन महता भगवांस् तपनो द्विजाः । प्रत्यक्षताम् अगात् तस्या दाक्षायण्या द्विजोत्तमाः
॥१८॥सा ददर्श महाकूटं तेजसोऽम्बरसंवृतम् । भूमौ च संस्थितं भास्वज्ज्वालाभिर् अतिदुर्दृशम् । तं दृष्ट्वा च ततो देवी साध्वसं परमं गता
॥१९॥अदितिर् उवाच:
जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते । प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर । भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान्
॥२१॥ब्रह्मोवाच:
ततः स तेजसस् तस्माद् आविर्भूतो विभावसुः । अदृश्यत तदादित्यस् तप्तताम्रोपमः प्रभुः
॥२२॥ततस् तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः । प्राह भास्वान् वृणुष्वैकं वरं मत्तो यम् इच्छसि
॥२३॥प्रणता शिरसा सा तु जानुपीडितमेदिनी । प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम्
॥२४॥अदितिर् उवाच:
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम । यज्ञभागाश् च दैतेयैर् दानवैश् च बलाधिकैः
॥२५॥तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते । अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून्
॥२६॥यथा मे तनया भूयो यज्ञभागभुजः प्रभो । भवेयुर् अधिपाश् चैव त्रैलोक्यस्य दिवाकर
॥२७॥तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम । कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते
॥२८॥ब्रह्मोवाच:
ततस् ताम् आह भगवान् भास्करो वारितस्करः । प्रणताम् अदितिं विप्राः प्रसादसुमुखो विभुः
॥२९॥सूर्य उवाच:
सहस्रांशेन ते गर्भः सम्भूयाहम् अशेषतः । त्वत्पुत्रशत्रून् दक्षोऽहं नाशयाम्य् आशु निर्वृतः
॥३०॥ब्रह्मोवाच:
इत्य् उक्त्वा भगवान् भास्वान् अन्तर्धानम् उपागतः । निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता
॥३१॥ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः । ततः संवत्सरस्यान्ते तत्कामपूरणाय सः
॥३२॥निवासं सविता चक्रे देवमातुस् तदोदरे । कृच्छ्रचान्द्रायणादींश् च सा चक्रे सुसमाहिता
॥३३॥शुचिना धारयाम्य् एनं दिव्यं गर्भम् इति द्विजाः । ततस् तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम्
॥३४॥कश्यप उवाच:
किं मारयसि गर्भाण्डम् इति नित्योपवासिनी ।
॥३५॥ब्रह्मोवाच:
सा च तं प्राह गर्भाण्डम् एतत् पश्येति कोपना । न मारितं विपक्षाणां मृत्युर् एव भविष्यति
॥३५॥इत्य् उक्त्वा तं तदा गर्भम् उत्ससर्ज सुरारणिः । जाज्वल्यमानं तेजोभिः पत्युर् वचनकोपिता
॥३६॥तं दृष्ट्वा कश्यपो गर्भम् उद्यद्भास्करवर्चसम् । तुष्टाव प्रणतो भूत्वा वाग्भिर् आद्याभिर् आदरात्
॥३७॥संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत् । पद्मपत्त्रसवर्णाभस् तेजसा व्याप्तदिङ्मुखः
॥३८॥अथान्तरिक्षाद् आभाष्य कश्यपं मुनिसत्तमम् । सतोयमेघगम्भीरा वाग् उवाचाशरीरिणी
॥३९॥वाग् उवाच:
मारितन्तेपतः प्रोक्तम् एतद् अण्डं त्वयादितेः । तस्मान् मुने सुतस् तेऽयं मार्तण्डाख्यो भविष्यति
॥४०॥हनिष्यत्य् असुरांश् चायं यज्ञभागहरान् अरीन् । देवा निशम्येति वचो गगनात् समुपागतम्
॥४१॥प्रहर्षम् अतुलं याता दानवाश् च हतौजसः । ततो युद्धाय दैतेयान् आजुहाव शतक्रतुः
॥४२॥सह देवैर् मुदा युक्तो दानवाश् च तम् अभ्ययुः । तेषां युद्धम् अभूद् घोरं देवानाम् असुरैः सह
॥४३॥शस्त्रास्त्रवृष्टिसन्दीप्तसमस्तभुवनान्तरम् । तस्मिन् युद्धे भगवता मार्तण्डेन निरीक्षिताः
॥४४॥तेजसा दह्यमानास् ते भस्मीभूता महासुराः । ततः प्रहर्षम् अतुलं प्राप्ताः सर्वे दिवौकसः
॥४५॥तुष्टुवुस् तेजसां योनिं मार्तण्डम् अदितिं तथा । स्वाधिकारांस् ततः प्राप्ता यज्ञभागांश् च पूर्ववत्
॥४६॥भगवान् अपि मार्तण्डः स्वाधिकारम् अथाकरोत् । कदम्बपुष्पवद् भास्वान् अधश् चोर्ध्वं च रश्मिभिः । वृतोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः
॥४७॥मुनय ऊचुः:
कथं कान्ततरं पश्चाद् रूपं संलब्धवान् रविः । कदम्बगोलकाकारं तन् मे ब्रूहि जगत्पते
॥४८॥ब्रह्मोवाच:
त्वष्टा तस्मै ददौ कन्यां सञ्ज्ञां नाम विवस्वते । प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः
॥४९॥त्रीण्य् अपत्यान्य् असौ तस्यां जनयाम् आस गोपतिः । द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा
॥५०॥यत् तेजोऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः । तेनातितापयाम् आस त्रींल् लोकान् सचराचरान्
॥५१॥तद् रूपं गोलकाकारं दृष्ट्वा सञ्ज्ञा विवस्वतः । असहन्ती महत् तेजः स्वां छायां वाक्यम् अब्रवीत्
॥५२॥सञ्ज्ञोवाच:
अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः । निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच् छुभे
॥५३॥इमौ च बालकौ मह्यं कन्या च वरवर्णिनी । सम्भाव्या नैव चाख्येयम् इदं भगवते त्वया
॥५४॥छायोवाच:
आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् । आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम्
॥५५॥इत्य् उक्ता व्रीडिता सञ्ज्ञा जगाम पितृमन्दिरम् । वत्सराणां सहस्रं तु वसमाना पितुर् गृहे
॥५६॥भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः । आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस् ततः
॥५७॥तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः । पितुः समीपं यातायां सञ्ज्ञायां वाक्यतत्परा
॥५८॥तद्रूपधारिणी छाया भास्करं समुपस्थिता । तस्यां च भगवान् सूर्यः सञ्ज्ञेयम् इति चिन्तयन्
॥५९॥तथैव जनयाम् आस द्वौ पुत्रौ कन्यकां तथा । सञ्ज्ञा तु पार्थिवी तेषाम् आत्मजानां तथाकरोत्
॥६०॥स्नेहं न पूर्वजातानां तथा कृतवती तु सा । मनुस् तत् क्षान्तवांस् तस्या यमस् तस्या न चक्षमे
॥६१॥बहुधा पीड्यमानस् तु पितुः पत्या सुदुःखितः । स वै कोपाच् च बाल्याच् च भाविनोऽर्थस्य वै बलात् । पदा सन्तर्जयाम् आस न तु देहे न्यपातयत्
॥६२॥छायोवाच:
पदा तर्जयसे यस्मात् पितुर् भार्यां गरीयसीम् । तस्मात् तवैष चरणः पतिष्यति न संशयः
॥६३॥ब्रह्मोवाच:
यमस् तु तेन शापेन भृशं पीडितमानसः । मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत्
॥६४॥यम उवाच:
स्नेहेन तुल्यम् अस्मासु माता देव न वर्तते । विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति
॥६५॥तस्यां मयोद्यतः पादो न तु देहे निपातितः । बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुम् अर्हसि
॥६६॥शप्तोऽहं तात कोपेन जनन्या तनयो यतः । ततो मन्ये न जननीम् इमां वै तपतां वर
॥६७॥तव प्रसादाच् चरणो भगवन् न पतेद् यथा । मातृशापाद् अयं मेऽद्य तथा चिन्तय गोपते
॥६८॥रविर् उवाच:
असंशयं महत् पुत्र भविष्यत्य् अत्र कारणम् । येन त्वाम् आविशत् क्रोधो धर्मज्ञं धर्मशीलिनम्
॥६९॥सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते । न तु मात्राभिशप्तानां क्वचिच् छापनिवर्तनम्
॥७०॥न शक्यम् एतन् मिथ्या तु कर्तुं मातुर् वचस् तव । किञ्चित् तेऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम्
॥७१॥कृमयो मांसम् आदाय प्रयास्यन्ति महीतलम् । कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि
॥७२॥ब्रह्मोवाच:
आदित्यस् त्व् अब्रवीच् छायां किमर्थं तनयेषु वै । तुल्येष्व् अप्य् अधिकः स्नेह एकं प्रति कृतस् त्वया
॥७३॥नूनं नैषां त्वं जननी सञ्ज्ञा कापि त्वम् आगता । निर्गुणेष्व् अप्य् अपत्येषु माता शापं न दास्यति
॥७४॥सा तत्परिहरन्ती च शापाद् भीता तदा रवेः । कथयाम् आस वृत्तान्तं स श्रुत्वा श्वशुरं ययौ
॥७५॥स चापि तं यथान्यायम् अर्चयित्वा तदा रविम् । निर्दग्धुकामं रोषेण सान्त्वयानस् तम् अब्रवीत्
॥७६॥विश्वकर्मोवाच:
तवातितेजसा व्याप्तम् इदं रूपं सुदुःसहम् । असहन्ती तु तत् सञ्ज्ञा वने चरति वै तपः
॥७७॥द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम् । रूपार्थं भवतोऽरण्ये चरन्तीं सुमहत् तपः
॥७८॥श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने । रूपं निर्वर्तयाम्य् अद्य तव कान्तं दिवस्पते
॥७९॥ब्रह्मोवाच:
ततस् तथेति तं प्राह त्वष्टारं भगवान् रविः । ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम्
॥८०॥विश्वकर्मा त्व् अनुज्ञातः शाकद्वीपे विवस्वता । भ्रमिम् आरोप्य तत्तेजःशातनायोपचक्रमे
॥८१॥भ्रमताशेषजगतां नाभिभूतेन भास्वता । समुद्राद्रिवनोपेता त्व् आरुरोह मही नभः
॥८२॥गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् । अधोगतं महाभागा बभूवाक्षिप्तम् आकुलम्
॥८३॥विक्षिप्तसलिलाः सर्वे बभूवुश् च तथार्णवाः । व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः
॥८४॥ध्रुवाधाराण्य् अशेषाणि धिष्ण्यानि मुनिसत्तमाः । त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः
॥८५॥वेगभ्रमणसम्पातवायुक्षिप्ताः सहस्रशः । व्यशीर्यन्त महामेघा घोरारावविराविणः
॥८६॥भास्वद्भ्रमणविभ्रान्तभूम्याकाशरसातलम् । जगद् आकुलम् अत्यर्थं तदासीन् मुनिसत्तमाः
॥८७॥त्रैलोक्यम् आकुलं वीक्ष्य भ्रममाणं सुरर्षयः । देवाश् च ब्रह्मणा सार्धं भास्वन्तम् अभितुष्टुवुः
॥८८॥आदिदेवोऽसि देवानां जातस् त्वं भूतये भुवः । सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि
॥८९॥स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षदिवाकर । इन्द्रादयस् तदा देवा लिख्यमानम् अथास्तुवन्
॥९०॥जय देव जगत्स्वामिञ् जयाशेषजगत्पते । ऋषयश् च ततः सप्त वसिष्ठात्रिपुरोगमाः
॥९१॥तुष्टुवुर् विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः । वेदोक्तिभिर् अथाग्र्याभिर् वालखिल्याश् च तुष्टुवुः
॥९२॥अग्निर् आद्याश् च भास्वन्तं लिख्यमानं मुदा युताः । त्वं नाथ मोक्षिणां मोक्षो ध्येयस् त्वं ध्यानिनां परः
॥९३॥त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् । सम्पूज्यस् त्वं तु देवेश शं नोऽस्तु जगतां पते
॥९४॥शं नोऽस्तु द्विपदे नित्यं शं नश् चास्तु चतुष्पदे । ततो विद्याधरगणा यक्षराक्षसपन्नगाः
॥९५॥कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । ऊचुस् ते विविधा वाचो मनःश्रोत्रसुखावहाः
॥९६॥सह्यं भवतु तेजस् ते भूतानां भूतभावन । ततो हाहाहूहूश् चैव नारदस् तुम्बुरुस् तथा
॥९७॥उपगायितुम् आरब्धा गान्धर्वकुशला रविम् । षड्जमध्यमगान्धारगानत्रयविशारदाः
॥९८॥मूर्छनाभिश् च तालैश् च सम्प्रयोगैः सुखप्रदम् । विश्वाची च घृताची च उर्वश्य् अथ तिलोत्तमाः
॥९९॥मेनका सहजन्या च रम्भा चाप्सरसां वरा । ननृतुर् जगताम् ईशे लिख्यमाने विभावसौ
॥१००॥भावहावविलासाद्यान् कुर्वत्योऽभिनयान् बहून् । प्रावाद्यन्त ततस् तत्र वीणा वेण्वादिझर्झराः
॥१०१॥पणवाः पुष्कराश् चैव मृदङ्गाः पटहानकाः । देवदुन्दुभयः शङ्खाः शतशोऽथ सहस्रशः
॥१०२॥गायद्भिश् चैव नृत्यद्भिर् गन्धर्वैर् अप्सरोगणैः । तूर्यवादित्रघोषैश् च सर्वं कोलाहलीकृतम्
॥१०३॥ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः
॥१०४॥ततः कोलाहले तस्मिन् सर्वदेवसमागमे । तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः
॥१०५॥आजानुलिखितश् चासौ निपुणं विश्वकर्मणा । नाभ्यनन्दत् तु लिखनं ततस् तेनावतारितः
॥१०६॥न तु निर्भर्त्सितं रूपं तेजसो हननेन तु । कान्तात् कान्ततरं रूपम् अधिकं शुशुभे ततः
॥१०७॥इति हिमजलघर्मकालहेतोर् । हरकमलासनविष्णुसंस्तुतस्य । तदुपरि लिखनं निशम्य भानोर् । व्रजति दिवाकरलोकम् आयुषोऽन्ते
॥१०८॥एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः । रूपं च परमं तस्य मया सम्परिकीर्तितम्
॥१०९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).