मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ३५

3
ब्रह्मपुराणम् · 35

अध्यायः ३५

ब्रह्मोवाच:

ततस् ताम् अब्रुवन् देवास् तदा गत्वा तु सुन्दरीम् । देवि शीघ्रेण कालेन धूर्जटिर् नीललोहितः

॥१॥

स भर्ता तव देवेशो भविता मा तपः कृथाः । ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम्

॥२॥

जग्मुश् चादर्शनं तस्याः सा चापि विरराम ह । सा देवी सूक्तम् इत्य् एवम् उक्त्वा स्वस्याश्रमे शुभे

॥३॥

द्वारि जातम् अशोकं च समुपाश्रित्य चास्थिता । अथागाच् चन्द्रतिलकस् त्रिदशार्तिहरो हरः

॥४॥

विकृतं रूपम् आस्थाय ह्रस्वो बाहुक एव च । विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः

॥५॥

उवाच विकृतास्यश् च देवि त्वां वरयाम्य् अहम् । अथोमा योगसंसिद्धा ज्ञात्वा शङ्करम् आगतम्

॥६॥

अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया । तम् उवाचार्घपाद्याभ्यां मधुपर्केण चैव ह

॥७॥

सम्पूज्य सुमनोभिस् तं ब्राह्मणं ब्राह्मणप्रिया

॥८॥

देव्य् उवाच:

भगवन् न स्वतन्त्राहं पिता मे त्व् अग्रणीर् गृहे । स प्रभुर् मम दाने वै कन्याहं द्विजपुङ्गव

॥९॥

गत्वा याचस्व पितरं मम शैलेन्द्रम् अव्ययम् । स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम

॥१०॥

ब्रह्मोवाच:

ततः स भगवान् देवस् तथैव विकृतः प्रभुः । उवाच शैलराजानं सुतां मे यच्छ शैलराट्

॥११॥

स तं विकृतरूपेण ज्ञात्वा रुद्रम् अथाव्ययम् । भीतः शापाच् च विमना इदं वचनम् अब्रवीत्

॥१२॥

शैलेन्द्र उवाच:

भगवन् नावमन्येऽहं ब्राह्मणान् भुवि देवताः । मनीषितं तु यत् पूर्वं तच् छृणुष्व महामते

॥१३॥

स्वयंवरो मे दुहितुर् भविता विप्रपूजितः । वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति

॥१४॥

तच् छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः । देव्याः समीपम् आगत्य इदम् आह महामनाः

॥१५॥

शिव उवाच:

देवि पित्रा त्व् अनुज्ञातः स्वयंवर इति श्रुतिः । तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति

॥१६॥

तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने । रूपवन्तं समुत्सृज्य वृणोष्य् असदृशं कथम्

॥१७॥

ब्रह्मोवाच:

तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । भावं च रुद्रनिहितं प्रसादं मनसस् तथा

॥१८॥

सम्प्राप्योवाच देवेशं मा तेऽभूद् बुद्धिर् अन्यथा । अहं त्वां वरयिष्यामि नाद्भुतं तु कथञ्चन

॥१९॥

अथवा तेऽस्ति सन्देहो मयि विप्र कथञ्चन । इहैव त्वां महाभाग वरयामि मनोगतम्

॥२०॥

ब्रह्मोवाच:

गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता । स्कन्धे शम्भोः समाधाय देवी प्राह वृतोऽसि मे

॥२१॥

ततः स भगवान् देवस् तया देव्या वृतस् तदा । उवाच तम् अशोकं वै वाचा सञ्जीवयन्न् इव

॥२२॥

शिव उवाच:

यस्मात् तव सुपुण्येन स्तबकेन वृतोऽस्म्य् अहम् । तस्मात् त्वं जरया त्यक्तस् त्व् अमरः सम्भविष्यसि

॥२३॥

कामरूपी कामपुष्पः कामदो दयितो मम । सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः

॥२४॥

सर्वान्नभक्षकश् चैव अमृतस्वाद एव च । सर्वगन्धश् च देवानां भविष्यसि दृढप्रियः

॥२५॥

निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः । आश्रमं वेदम् अत्यर्थं चित्रकूटेति विश्रुतम्

॥२६॥

यो हि यास्यति पुण्यार्थी सोऽश्वमेधम् अवाप्स्यति । यस् तु तत्र मृतश् चापि ब्रह्मलोकं स गच्छति

॥२७॥

यश् चात्र नियमैर् युक्तः प्राणान् सम्यक् परित्यजेत् । स देव्यास् तपसा युक्तो महागणपतिर् भवेत्

॥२८॥

ब्रह्मोवाच:

एवम् उक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः

॥२९॥

सापि देवी गते तस्मिन् भगवत्य् अमितात्मनि । तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह

॥३०॥

उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ । निशेव चन्द्ररहिता न बभौ विमनास् तदा

॥३१॥

अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा । सरस्य् उदकसम्पूर्णे समीपे चाश्रमस्य च

॥३२॥

स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत् तदा

॥३३॥

योगमायां समास्थाय प्रपञ्चोद्भवकारणम् । तद् रूपं सरसो मध्ये कृत्वैवं समभाषत

॥३४॥

बाल उवाच:

त्रातु मां कश्चिद् इत्य् आह ग्राहेण हृतचेतसम् । धिक् कष्टं बाल एवाहम् अप्राप्तार्थमनोरथः

॥३५॥

प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः । शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः

॥३६॥

यथा शोचामि पितरं मातरं च तपस्विनीम् । ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनम् उत्सुकौ

॥३७॥

प्रियपुत्राव् एकपुत्रौ प्राणान् नूनं त्यजिष्यतः । अहो बत सुकष्टं वै योऽहं बालोऽकृताश्रमः । अन्तर्ग्राहेण ग्रस्तस् तु यास्यामि निधनं किल

॥३८॥

ब्रह्मोवाच:

श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्य् असौ द्विजः

॥३९॥

सापश्यद् इन्दुवदना बालकं चारुरूपिणम् । ग्राहस्य मुखम् आपन्नं वेपमानम् अवस्थितम्

॥४०॥

सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीम् उपागताम् । तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि

॥४१॥

स कृष्यमाणस् तेजस्वी नादम् आर्तं तदाकरोत् । अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम्

॥४२॥

पार्वत्य् उवाच:

ग्राहराज महासत्त्व बालकं ह्य् एकपुत्रकम् । विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम

॥४३॥

ग्राह उवाच:

यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । स आहारो मम पुरा विहितो लोककर्तृभिः

॥४४॥

सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे । ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथञ्चन

॥४५॥

देव्य् उवाच:

यन् मया हिमवच्छृङ्गे चरितं तप उत्तमम् । तेन बालम् इमं मुञ्च ग्राहराज नमोऽस्तु ते

॥४६॥

ग्राह उवाच:

मा व्ययस् तपसो देवि भृशं बाले शुभानने । यद् ब्रवीमि कुरु श्रेष्ठे तथा मोक्षम् अवाप्स्यति

॥४७॥

देव्य् उवाच:

ग्राहाधिप वदस्वाशु यत् सताम् अविगर्हितम् । तत् कृतं नात्र सन्देहो यतो मे ब्राह्मणाः प्रियाः

॥४८॥

ग्राह उवाच:

यत् कृतं वै तपः किञ्चिद् भवत्या स्वल्पम् उत्तमम् । तत् सर्वं मे प्रयच्छाशु ततो मोक्षम् अवाप्स्यति

॥४९॥

देव्य् उवाच:

जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया । तत् ते सर्वं मया दत्तं बालं मुञ्च महाग्रह

॥५०॥

ब्रह्मोवाच:

प्रजज्वाल ततो ग्राहस् तपसा तेन भूषितः । आदित्य इव मध्याह्ने दुर्निरीक्षस् तदाभवत् । उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम्

॥५१॥

ग्राह उवाच:

देवि किं कृत्यम् एतत् ते सुनिश्चित्य महाव्रते । तपसोऽप्य् अर्जनं दुःखं तस्य त्यागो न शस्यते

॥५२॥

गृहाण तप एव त्वं बालं चेमं सुमध्यमे । तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद् ददामि ते । सा त्व् एवम् उक्ता ग्राहेण उवाचेदं महाव्रता

॥५३॥

देव्य् उवाच:

देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः । तपः पुनर् मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः

॥५४॥

सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । न विप्रेभ्यस् तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः

॥५५॥

दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते । नहि कश्चिन् नरो ग्राह प्रदत्तं पुनर् आहरेत्

॥५६॥

दत्तम् एतन् मया तुभ्यं नाददानि हि तत् पुनः । त्वय्य् एव रमताम् एतद् बालश् चायं विमुच्यताम्

॥५७॥

ब्रह्मोवाच:

तथोक्तस् तां प्रशस्याथ मुक्त्वा बालं नमस्य च । देवीम् आदित्यावभासस् तत्रैवान्तरधीयत

॥५८॥

बालोऽपि सरसस् तीरे मुक्तो ग्राहेण वै तदा । स्वप्नलब्ध इवार्थौघस् तत्रैवान्तरधीयत

॥५९॥

तपसोऽपचयं मत्वा देवी हिमगिरीन्द्रजा । भूय एव तपः कर्तुम् आरेभे नियमस्थिता

॥६०॥

कर्तुकामां तपो भूयो ज्ञात्वा तां शङ्करः स्वयम् । प्रोवाच वचनं विप्रा मा कृथास् तप इत्य् उत

॥६१॥

मह्यम् एतत् तपो देवि त्वया दत्तं महाव्रते । तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा

॥६२॥

इति लब्ध्वा वरं देवी तपसोऽक्षयम् उत्तमम् । स्वयंवरम् उदीक्षन्ती तस्थौ प्रीता मुदा युता

॥६३॥

इदं पठेद् यो हि नरः सदैव । बालानुभावाचरणं हि शम्भोः । स देहभेदं समवाप्य पूतो । भवेद् गणेशस् तु कुमारतुल्यः

॥६४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).