मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १०

3
ब्रह्मपुराणम् · 10

अध्यायः १०

लोमहर्षण उवाच:

बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः । तेजस्वी दानशीलश् च यज्वा विपुलदक्षिणः

॥१॥

ब्रह्मवादी पराक्रान्तः शत्रुभिर् युधि दुर्दमः । आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः

॥२॥

सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः । अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा

॥३॥

तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् । उर्वशी वरयाम् आस हित्वा मानं यशस्विनी

॥४॥

तया सहावसद् राजा दश वर्षाणि पञ्च च । षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः

॥५॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । अलकायां विशालायां नन्दने च वनोत्तमे

॥६॥

उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् । गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे

॥७॥

एतेषु वनमुख्येषु सुरैर् आचरितेषु च । उर्वश्या सहितो राजा रेमे परमया मुदा

॥८॥

देशे पुण्यतमे चैव महर्षिभिर् अभिष्टुते । राज्यं स कारयाम् आस प्रयागे पृथिवीपतिः

॥९॥

एवम्प्रभावो राजासीद् ऐलस् तु नरसत्तमः । उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः

॥१०॥

लोमहर्षण उवाच:

ऐलपुत्रा बभूवुस् ते सप्त देवसुतोपमाः । गन्धर्वलोके विदिता आयुर् धीमान् अमावसुः

॥११॥

विश्वायुश् चैव धर्मात्मा श्रुतायुश् च तथापरः । दृढायुश् च वनायुश् च बह्वायुश् चोर्वशीसुताः

॥१२॥

अमावसोस् तु दायादो भीमो राजाथ राजराट् । श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः

॥१३॥

विद्वांस् तु काञ्चनस्यापि सुहोत्रोऽभून् महाबलः । सुहोत्रस्याभवज् जह्नुः केशिन्या गर्भसम्भवः

॥१४॥

आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् । पतिलोभेन यं गङ्गा पतित्वेन ससार ह

॥१५॥

नेच्छतः प्लावयाम् आस तस्य गङ्गा तदा सदः । स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः

॥१६॥

सौहोत्रिर् अशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः । एष ते विफलं यत्नं पिबन्न् अम्भः करोम्य् अहम्

॥१७॥

अस्य गङ्गेऽवलेपस्य सद्यः फलम् अवाप्नुहि । जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः

॥१८॥

उपनिन्युर् महाभागां दुहितृत्वेन जाह्नवीम् । युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत्

॥१९॥

युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता । कावेरीं सरितां श्रेष्ठां जह्नोर् भार्याम् अनिन्दिताम्

॥२०॥

जह्नुस् तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् । कावेर्यां जनयाम् आस अजकस् तस्य चात्मजः

॥२१॥

अजकस्य तु दायादो बलाकाश्वो महीपतिः । बभूव मृगयाशीलः कुशस् तस्यात्मजोऽभवत्

॥२२॥

कुशपुत्रा बभूवुर् हि चत्वारो देववर्चसः । कुशिकः कुशनाभश् च कुशाम्बो मूर्तिमांस् तथा

॥२३॥

बल्लवैः सह संवृद्धो राजा वनचरः सदा । कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं प्रभुः

॥२४॥

लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान् । पूर्णे वर्षसहस्रे वै ततः शक्रो ह्य् अपश्यत

॥२५॥

अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः । समर्थः पुत्रजनने स्वयम् एवास्य शाश्वतः

॥२६॥

पुत्रार्थं कल्पयाम् आस देवेन्द्रः सुरसत्तमः । स गाधिर् अभवद् राजा मघवान् कौशिकः स्वयम्

॥२७॥

पौरा यस्याभवद् भार्या गाधिस् तस्याम् अजायत । गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा

॥२८॥

तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः । तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः

॥२९॥

पुत्रार्थं साधयाम् आस चरुं गाधेस् तथैव च । उवाचाहूय तां भार्याम् ऋचीको भार्गवस् तदा

॥३०॥

उपयोज्यश् चरुर् अयं त्वया मात्रा स्वयं शुभे । तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः

॥३१॥

अजेयः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः । तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्

॥३२॥

शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति । एवम् उक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः

॥३३॥

तपस्य् अभिरतो नित्यम् अरण्यं प्रविवेश ह । गाधिः सदारस् तु तदा ऋचीकाश्रमम् अभ्यगात्

॥३४॥

तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः । चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा

॥३५॥

चरुम् आदाय यत्नेन सा तु मात्रे न्यवेदयत् । माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ

॥३६॥

तस्याश् चरुम् अथाज्ञानाद् आत्मसंस्थं चकार ह । अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा

॥३७॥

धारयाम् आस दीप्तेन वपुषा घोरदर्शना । ताम् ऋचीकस् ततो दृष्ट्वा योगेनाभ्युपसृत्य च

॥३८॥

ततोऽब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना

॥३९॥

जनयिष्यति हि पुत्रस् ते क्रूरकर्मातिदारुणः । भ्राता जनिष्यते चापि ब्रह्मभूतस् तपोधनः

॥४०॥

विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् । एवम् उक्ता महाभागा भर्त्रा सत्यवती तदा

॥४१॥

प्रसादयाम् आस पतिं पुत्रो मे नेदृशो भवेत् । ब्राह्मणापसदस् त्वत्त इत्य् उक्तो मुनिर् अब्रवीत्

॥४२॥

ऋचीक उवाच:

नैष सङ्कल्पितः कामो मया भद्रे तथास्त्व् इति । उग्रकर्मा भवेत् पुत्रः पितुर् मातुश् च कारणात्

॥४३॥

पुनः सत्यवती वाक्यम् एवम् उक्त्वाब्रवीद् इदम् । इच्छंल् लोकान् अपि मुने सृजेथाः किं पुनः सुतम्

॥४४॥

शमात्मकम् ऋजुं त्वं मे पुत्रं दातुम् इहार्हसि । कामम् एवंविधः पौत्रो मम स्यात् तव च प्रभो

॥४५॥

यद्य् अन्यथा न शक्यं वै कर्तुम् एतद् द्विजोत्तम । ततः प्रसादम् अकरोत् स तस्यास् तपसो बलात्

॥४६॥

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । त्वया यथोक्तं वचनं तथा भद्रे भविष्यति

॥४७॥

ततः सत्यवती पुत्रं जनयाम् आस भार्गवम् । तपस्य् अभिरतं दान्तं जमदग्निं समात्मकम्

॥४८॥

भृगोर् जगत्यां वंशेऽस्मिञ् । जमदग्निर् अजायत । सा हि सत्यवती पुण्या सत्यधर्मपरायणा

॥४९॥

कौशिकीति समाख्याता प्रवृत्तेयं महानदी । इक्ष्वाकुवंशप्रभवो रेणुर् नाम नराधिपः

॥५०॥

तस्य कन्या महाभागा कामली नाम रेणुका । रेणुकायां तु कामल्यां तपोविद्यासमन्वितः

॥५१॥

आर्चीको जनयाम् आस जामदग्न्यं सुदारुणम् । सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्

॥५२॥

रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम् । और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः

॥५३॥

जमदग्निस् तपोवीर्याज् जज्ञे ब्रह्मविदां वरः । मध्यमश् च शुनःशेफः शुनःपुच्छः कनिष्ठकः

॥५४॥

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः । जनयाम् आस पुत्रं तु तपोविद्याशमात्मकम्

॥५५॥

प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः । विश्वामित्रस् तु धर्मात्मा नाम्ना विश्वरथः स्मृतः

॥५६॥

जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः । विश्वामित्रस्य च सुता देवरातादयः स्मृताः

॥५७॥

प्रख्यातास् त्रिषु लोकेषु तेषां नामान्य् अतःपरम् । देवरातः कतिश् चैव यस्मात् कात्यायनाः स्मृताः

॥५८॥

शालावत्यां हिरण्याक्षो रेणुर् जज्ञेऽथ रेणुकः । साङ्कृतिर् गालवश् चैव मुद्गलश् चैव विश्रुतः

॥५९॥

मधुच्छन्दो जयश् चैव देवलश् च तथाष्टकः । कच्छपो हारितश् चैव विश्वामित्रस्य ते सुताः

॥६०॥

तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् । पाणिनो बभ्रवश् चैव ध्यानजप्यास् तथैव च

॥६१॥

पार्थिवा देवराताश् च शालङ्कायनबाष्कलाः । लोहिता यमदूताश् च तथा कारूषकाः स्मृताः

॥६२॥

पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च । सम्बन्धोऽप्य् अस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः

॥६३॥

विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः । भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः

॥६४॥

विश्वामित्रस्य पुत्रस् तु शुनःशेफोऽभवत् किल । हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः

॥६५॥

देवैर् दत्तः शुनःशेफो विश्वामित्राय वै पुनः । देवैर् दत्तः स वै यस्माद् देवरातस् ततोऽभवत्

॥६६॥

देवरातादयः सप्त विश्वामित्रस्य वै सुताः । दृषद्वतीसुतश् चापि वैश्वामित्रस् तथाष्टकः

॥६७॥

अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । अत ऊर्ध्वं प्रवक्ष्यामि वंशम् आयोर् महात्मनः

॥६८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).