मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १४२

3
ब्रह्मपुराणम् · 142

अध्यायः १४२

ब्रह्मोवाच:

देवस्थानम् इति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद

॥१॥

पुरा कृतयुगस्यादौ देवदानवसङ्गरे । प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी

॥२॥

तस्याः पुत्रो महादैत्यो राहुर् नाम महाबलः । अमृते तु समुत्पन्ने सैंहिकेये च भेदिते

॥३॥

तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः । पितरं घातितं श्रुत्वा तपस् तेपेऽतिदुःखितः

॥४॥

तपस्यन्तं राहुसुतं गौतमीतीरम् आश्रितम् । देवाश् च ऋषयः सर्वे तम् ऊचुर् अतिभीतवत्

॥५॥

देवर्षय ऊचुः:

तपो जहि महाबाहो यत् ते मनसि संस्थितम् । सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः । शिवगङ्गाप्रसादेन किं नामास्त्य् अत्र दुर्लभम्

॥६॥

मेघहास उवाच:

परिभूतः पिता पूज्यो युष्माभिर् मम दैवतम् । तस्यापि मम चात्यन्तं प्रीतिश् च क्रियते यदि

॥७॥

भवद्भिस् तपसोऽस्माच् च अहं वैरान् निवर्तये । वैरनिर्यातनं कार्यं पुत्रेण पितुर् आदरात् । प्रार्थयन्ते भवन्तश् चेत् पूर्णास् तन् मे मनोरथाः

॥८॥

ब्रह्मोवाच:

ततः सुरगणाः सर्वे राहुं चक्रुर् ग्रहानुगम् । तं चापि मेघहासं ते चक्रू राक्षसपुङ्गवम्

॥९॥

ततोऽभवद् राहुसुतो नैरृताधिपतिः प्रभुः । पुनश् चाह सुरान् दैत्यो मम ख्यातिर् यथा भवेत्

॥१०॥

तीर्थस्यास्य प्रभावश् च दातव्य इति मे मतिः । तथेत्य् उक्त्वा ददुर् देवाः सर्वम् एव मनोगतम्

॥११॥

दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थम् उच्यते । देवा यतोऽभवन् सर्वे तत्र स्थाने महामते

॥१२॥

देवस्थानं तु तत् तीर्थं देवानाम् अपि दुर्लभम् । यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम्

॥१३॥

तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद । तेषु स्नानं च दानं च महापातकनाशनम्

॥१४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).