मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १२

3
ब्रह्मपुराणम् · 12

अध्यायः १२

लोमहर्षण उवाच:

उत्पन्नाः पितृकन्यायां विरजायां महौजसः । नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः

॥१॥

यतिर् ययातिः संयातिर् । आयातिः पार्श्वकोऽभवत् । यतिर् ज्येष्ठस् तु तेषां वै ययातिस् तु ततः परम्

॥२॥

ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः । यतिस् तु मोक्षम् आस्थाय ब्रह्मभूतोऽभवन् मुनिः

॥३॥

तेषां ययातिः पञ्चानां विजित्य वसुधाम् इमाम् । देवयानीम् उशनसः सुतां भार्याम् अवाप सः

॥४॥

शर्मिष्ठाम् आसुरीं चैव तनयां वृषपर्वणः । यदुं च तुर्वसुं चैव देवयानी व्यजायत

॥५॥

द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी । तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम्

॥६॥

अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः । युक्तं मनोजवैः शुभ्रैर् येन कार्यं समुद्वहन्

॥७॥

स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् । ययातिर् युधि दुर्धर्षस् तथा देवान् सदानवान्

॥८॥

सरथः कौरवाणां तु सर्वेषाम् अभवत् तदा । संवर्तवसुनाम्नस् तु कौरवाज् जनमेजयात्

॥९॥

कुरोः पुत्रस्य राजेन्द्रराज्ञः पारीक्षितस्य ह । जगाम स रथो नाशं शापाद् गर्गस्य धीमतः

॥१०॥

गर्गस्य हि सुतं बालं स राजा जनमेजयः । कालेन हिंसयाम् आस ब्रह्महत्याम् अवाप सः

॥११॥

स लोहगन्धी राजर्षिः परिधावन्न् इतस् ततः । पौरजानपदैस् त्यक्तो न लेभे शर्म कर्हिचित्

॥१२॥

ततः स दुःखसन्तप्तो नालभत् संविदं क्वचित् । विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत

॥१३॥

याजयाम् आस च ज्ञानी शौनको जनमेजयम् । अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः

॥१४॥

स लोहगन्धो व्यनशत् तस्यावभृथम् एत्य च । स च दिव्यरथो राज्ञो वशश् चेदिपतेस् तदा

॥१५॥

दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः । बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम्

॥१६॥

ततो हत्वा जरासन्धं भीमस् तं रथम् उत्तमम् । प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः

॥१७॥

सप्तद्वीपां ययातिस् तु जित्वा पृथ्वीं ससागराम् । विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस् तदा

॥१८॥

ययातिर् दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् । मध्ये पुरुं च राजानम् अभ्यषिञ्चत् स नाहुषः

॥१९॥

दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः । तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना

॥२०॥

यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते । प्रजास् तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः

॥२१॥

धनुर् न्यस्य पृषत्कांश् च पञ्चभिः पुरुषर्षभैः । जरावान् अभवद् राजा भारम् आवेश्य बन्धुषु

॥२२॥

निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः । प्रीतिमान् अभवद् राजा ययातिर् अपराजितः

॥२३॥

एवं विभज्य पृथिवीं ययातिर् यदुम् अब्रवीत् । जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै

॥२४॥

तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम् । जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह

॥२५॥

यदुर् उवाच:

अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम्

॥२६॥

जरायां बहवो दोषाः पानभोजनकारिताः । तस्माज् जरां न ते राजन् ग्रहीतुम् अहम् उत्सहे

॥२७॥

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । प्रतिग्रहीतुं धर्मज्ञ पुत्रम् अन्यं वृणीष्व वै

॥२८॥

स एवम् उक्तो यदुना राजा कोपसमन्वितः । उवाच वदतां श्रेष्ठो ययातिर् गर्हयन् सुतम्

॥२९॥

ययातिर् उवाच:

क आश्रमस् तवान्योऽस्ति को वा धर्मो विधीयते । माम् अनादृत्य दुर्बुद्धे यद् अहं तव देशिकः

॥३०॥

एवम् उक्त्वा यदुं विप्राः शशापैनं स मन्युमान् । अराज्या ते प्रजा मूढ भवित्रीति न संशयः

॥३१॥

द्रुह्यं च तुर्वसुं चैवाप्य् अनुं च द्विजसत्तमाः । एवम् एवाब्रवीद् राजा प्रत्याख्यातश् च तैर् अपि

॥३२॥

शशाप तान् अतिक्रुद्धो ययातिर् अपराजितः । यथावत् कथितं सर्वं मयास्य द्विजसत्तमाः

॥३३॥

एवं शप्त्वा सुतान् सर्वांश् चतुरः पुरुपूर्वजान् । तद् एव वचनं राजा पुरुम् अप्य् आह भो द्विजाः

॥३४॥

तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम् । जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे

॥३५॥

स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् । ययातिर् अपि रूपेण पुरोः पर्यचरन् महीम्

॥३६॥

स मार्गमाणः कामानाम् अन्तं नृपतिसत्तमः । विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः

॥३७॥

यदा च तृप्तः कामेषु भोगेषु च नराधिपः । तदा पुरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत

॥३८॥

यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना । याभिः प्रत्याहरेत् कामान् सर्वशोऽङ्गानि कूर्मवत्

॥३९॥

न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते

॥४०॥

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालम् एकस्य तत् सर्वम् इति कृत्वा न मुह्यति

॥४१॥

यदा भावं न कुरुते सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा

॥४२॥

यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति । यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा

॥४३॥

या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम्

॥४४॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति

॥४५॥

यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम्

॥४६॥

एवम् उक्त्वा स राजर्षिः सदारः प्राविशद् वनम् । कालेन महता चायं चचार विपुलं तपः

॥४७॥

भृगुतुङ्गे गतिं प्राप तपसोऽन्ते महायशाः । अनश्नन् देहम् उत्सृज्य सदारः स्वर्गम् आप्तवान्

॥४८॥

तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः । यैर् व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः

॥४९॥

यदोस् तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् । यत्र नारायणो जज्ञे हरिर् वृष्णिकुलोद्वहः

॥५०॥

सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन् नरः । ययातिचरितं नित्यम् इदं शृण्वन् द्विजोत्तमाः

॥५१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).