मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ३७

3
ब्रह्मपुराणम् · 37

अध्यायः ३७

ब्रह्मोवाच:

अथ वृत्ते विवाहे तु भवस्यामिततेजसः । प्रहर्षम् अतुलं गत्वा देवाः शक्रपुरोगमाः । तुष्टुवुर् वाग्भिर् आद्याभिः प्रणेमुस् ते महेश्वरम्

॥१॥

देवा ऊचुः:

नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । नमः पवनवेगाय विरूपायाजिताय च । नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम्

॥२॥

नमो नीलशिखण्डाय अम्बिकापतये नमः । नमः पवनरूपाय शतरूपाय वै नमः

॥३॥

नमो भैरवरूपाय विरूपनयनाय च । नमः सहस्रनेत्राय सहस्रचरणाय च

॥४॥

नमो देववयस्याय वेदाङ्गाय नमो नमः । विष्टम्भनाय शक्रस्य बाह्वोर् वेदाङ्कुराय च

॥५॥

चराचराधिपतये शमनाय नमो नमः । सलिलाशयलिङ्गाय युगान्ताय नमो नमः

॥६॥

नमः कपालमालाय कपालसूत्रधारिणे । नमः कपालहस्ताय दण्डिने गदिने नमः

॥७॥

नमस् त्रैलोक्यनाथाय पशुलोकरताय च । नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च

॥८॥

नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे । भगनेत्रनिपाताय पूष्णो दन्तहराय च

॥९॥

नमः पिनाकशूलासिखड्गमुद्गरधारिणे । नमोऽस्तु कालकालाय तृतीयनयनाय च

॥१०॥

अन्तकान्तकृते चैव नमः पर्वतवासिने । सुवर्णरेतसे चैव नमः कुण्डलधारिणे

॥११॥

दैत्यानां योगनाशाय योगिनां गुरवे नमः । शशाङ्कादित्यनेत्राय ललाटनयनाय च

॥१२॥

नमः श्मशानरतये श्मशानवरदाय च । नमो दैवतनाथाय त्र्यम्बकाय नमो नमः

॥१३॥

गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे । नमो मुण्डार्धमुण्डाय पशूनां पतये नमः

॥१४॥

सलिले तप्यमानाय योगैश्वर्यप्रदाय च । नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे

॥१५॥

नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । नमो रुद्राय वसव आदित्यायाश्विने नमः

॥१६॥

नमः पित्रेऽथ साङ्ख्याय विश्वेदेवाय वै नमः । नमः शर्वाय उग्राय शिवाय वरदाय च

॥१७॥

नमो भीमाय सेनान्ये पशूनां पतये नमः । शुचये वैरिहानाय सद्योजाताय वै नमः

॥१८॥

महादेवाय चित्राय विचित्राय च वै नमः । प्रधानायाप्रमेयाय कार्याय कारणाय च

॥१९॥

पुरुषाय नमस् तेऽस्तु पुरुषेच्छाकराय च । नमः पुरुषसंयोगप्रधानगुणकारिणे

॥२०॥

प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च

॥२१॥

कालज्ञाय च सर्वेषां नमो नियमकारिणे । नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च

॥२२॥

नमस् ते देवदेवेश नमस् ते भूतभावन । शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो

॥२३॥

ब्रह्मोवाच:

एवं स भगवान् देवो जगत्पतिर् उमापतिः । स्तूयमानः सुरैः सर्वैर् अमरान् इदम् अब्रवीत्

॥२४॥

श्रीशङ्कर उवाच:

द्रष्टुं सुखश् च सौम्यश् च देवानाम् अस्मि भोः सुराः । वरं वरयत क्षिप्रं दातास्मि तम् असंशयम्

॥२५॥

ब्रह्मोवाच:

ततस् ते प्रणताः सर्वे सुरा ऊचुस् त्रिलोचनम्

॥२६॥

देवा ऊचुः:

तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम् । यदा कार्यं तदा नस् त्वं दास्यसे वरम् ईप्सितम्

॥२७॥

ब्रह्मोवाच:

एवम् अस्त्व् इति तान् उक्त्वा विसृज्य च सुरान् हरः । लोकांश् च प्रमथैः सार्धं विवेश भवनं स्वकम्

॥२८॥

यस् तु हरोत्सवम् अद्भुतम् एनं । गायति दैवतविप्रसमक्षम् । सोऽप्रतिरूपगणेशसमानो । देहविपर्ययम् एत्य सुखी स्यात्

॥२९॥

ब्रह्मोवाच:

विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच् च यः । स सर्वलोकगो देवैः पूज्यतेऽमरराड् इव

॥३०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).