अध्यायः १४७
ब्रह्मोवाच:
अप्सरोयुगम् आख्यातम् अप्सरासङ्गमं ततः । तीरे च दक्षिणे पुण्यं स्मरणात् सुभगो भवेत्
॥१॥मुक्तो भवत्य् असन्देहं तत्र स्नानादिना नरः । स्त्री सती सङ्गमे तस्मिन्न् ऋतुस्नाता च नारद
॥२॥वन्ध्यापि जनयेत् पुत्रं त्रिमासात् पतिना सह । स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत्
॥३॥अप्सरोयुगम् आख्यातं तीर्थं येन च हेतुना । तत्रेदं कारणं वक्ष्ये शृणु नारद यत्नतः
॥४॥स्पर्धासीन् महती ब्रह्मन् विश्वामित्रवसिष्ठयोः । तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम्
॥५॥गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका । तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया
॥६॥तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् । कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः
॥७॥तस्यां गतायां सस्मार गाधिपुत्रोऽखिलं कृतम् । तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम्
॥८॥जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः । तपस्यन्तं तदोवाच पुनर् इन्द्रः सहस्रदृक्
॥९॥उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् । नैवेत्य् ऊचुर् भयत्रस्ताः पुनर् आह शचीपतिः
॥१०॥गम्भीरां चातिगम्भीराम् उभे ये गर्विते तदा । ते ऊचतुर् उभे देवं सहस्राक्षं पुरन्दरम्
॥११॥गम्भीरातिगम्भीरे ऊचतुः:
आवां गत्वा तपस्यन्तं गाधिपुत्रं महाद्युतिम् । च्यावयावो नृत्यगीतै रूपयौवनसम्पदा
॥१२॥यासाम् अपाङ्गे हसिते वाचि विभ्रमसम्पदि । नित्यं वसति पञ्चेषुस् ताभिः कोऽत्र न जीयते
॥१३॥ब्रह्मोवाच:
तथेत्य् उक्ते सहस्राक्षे ते आगत्य महानदीम् । ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम्
॥१४॥मृत्योर् अपि दुराधर्षं भूमिस्थम् इव धूर्जटिम् । सहस्रम् एकं वर्षाणाम् ईक्षितुं न च शक्नुतः
॥१५॥दूरे स्थिते नृत्यगीतचाटुकाररते तदा । विलोक्य मुनिशार्दूलस् ततः कोपाकुलोऽभवत्
॥१६॥प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते । निस्पृहोऽपि महाबाहुस् तम् इन्द्रं प्रहसन्न् इव
॥१७॥आभ्यां मुक्तः सहस्राक्षो ह्य् अप्सरोभ्यां ब्रुवन्न् इव । शशाप ते स गाधेयो द्रवरूपे भविष्यथः
॥१८॥द्रवितुं मां समायाते यतस् त्व् इह ततो लघु । ततः प्रसादितस् ताभ्यां शापमोक्षं चकार सः
॥१९॥भवेतां दिव्यरूपे वां गङ्गया सङ्गते यदा । तच्छापात् ते नदीरूपे तत्क्षणात् सम्बभूवतुः
॥२०॥अप्सरोयुगम् आख्यातं नदीद्वयम् अतोऽभवत् । ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसङ्गमः
॥२१॥सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः । तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः
॥२२॥तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात्
॥२३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).